१०४ वारपूजाविधिपटलः

वारपूजाविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण वारपूजा विधिक्रमम्
सौरवारे समारभ्य मन्दवारान्तमाचरेत् ॥ १ ॥

[[५९९]]

प्रातस्सन्ध्यार्चनान्ते तु कर्तव्यं वारपूजनम्
गव्यैः पञ्चामृतैस्नाप्य पञ्चविंशत् घटोदकैः ॥ २ ॥

स्नापयित्वा विशेषेण गन्धपुष्पादिनार्चयेत्
वस्त्राभरणमालाद्यैरलङ्कृत्य विशेषतः ॥ ३ ॥

अब्जञ्चैव तु पुन्नागरक्तब्जञ्चैव पाटली
चम्पकञ्जातिपुष्पञ्च नीलोत्पलं यथा क्रमम् ॥ ४ ॥

सौरादिशनिवारान्तमर्चयित्वा विशेषतः
पूर्वाश्च बिल्वपत्राणि धातकी तुलसी तथा ॥ ५ ॥

दान्तञ्च डाडिमी पत्रं विष्णुक्रान्तिन्तथैव च
एते सौरादिनाभ्यर्च्य रक्तचन्दनमेव च ॥ ६ ॥

श्वेतचन्दनकर्पूरकुङ्कुमञ्चागरुन्तथा
कृष्णागरुञ्च कस्तूरी हिमतोयैश्च मर्दिता ॥ ७ ॥

सौरवारादिसंलिप्य नैवेद्यं पायासादिभिः
पायासान्नञ्च दद्ध्यन्नं मुद्गान्नञ्च हरिद्रकम् ॥ ८ ॥

गुलान्नमपि शुद्धान्नं तिलान्नञ्च यथा क्रमम्
दुकूलं पीतकौशेयं रक्तवस्त्रं च शाबलम् ॥ ९ ॥

जीमूताभं हरिद्वर्णं कुङ्कुमांशुकमेव च
रव्यादिशनिवारान्तं सप्तधा वस्त्रमीरितम् ॥ १० ॥

प्रवालं स्फटिकं वज्रं पद्मरागं च मौक्तिकम्
गोमेदकं पुष्यरागं सप्तवारेषु दापयेत् ॥ ११ ॥

मुरवं झलरीढक्का पणवं घटश्रृङ्गकम्
तूर्यवाद्यं च सप्तैते सप्तवारेषु वाद्यकम् ॥ १२ ॥

श्रीरङ्गमर्कवारे तु झर्झरीमिन्दुवासरे
वर्णभिन्नं कुजे चैव बुधे च गोकुलप्रियः ॥ १३ ॥

बृहस्पतावेवतालं घृगौ च तापशेखरम्
दद्धट्टं मन्दवारे च सप्तवारेषु ताडयेत् ॥ १४ ॥

[[६००]]

कामघ्नं च हरिध्वं सङ्कालघ्नं दक्षयागभित्
त्रिपुरघ्नं गजघ्नं च चण्डेशानुग्रहन्तथा ॥ १५ ॥

सप्तधाकारयेद्वाद्य सप्तवारे प्रजापते
घृतं बिल्वं च निर्यासं चन्दनं गुग्गुलं लघु ॥ १६ ॥

कर्पूरं सप्तधा प्रोक्तं मद्ध्वाज्याभ्यां विमर्दितम्
भान्धादिमन्दवारान्तं दापयेद्धूपमुत्तमम् ॥ १७ ॥

सर्वोपचारं कर्तव्यं ताम्बूलं च निवेदयेत्
धूपदीपसमायुक्तन्दर्पणाद्यैर्विशेषतः ॥ १८ ॥

एवं सम्पूज्य विधिवत् चण्डपूजां समाचरेत्
एकाहे वाथ कर्त्तव्यं सौम्यवारे तु पूजयेत् ॥ १९ ॥

पूर्वयामान्तमारभ्य उदयान्तं समाचरेत्
आयुः कीर्तिं च विद्यां च श्रीकरं विजयन्तथा ॥ २० ॥

पुत्रलाभं च सौभाग्यम् एते वारफलास्मृताः ॥ २१ ॥

इति वारपूजाविधिपटलश्चतुरुत्तरशततमः