१०३ क्षेत्रपालार्चनविधिपटलः

क्षेत्रपालार्चनविधिपटलप्रारम्भः
क्षेत्रपालार्चनं वक्ष्ये श्रुणुष्वेव प्रजापते
अर्द्धरात्रे विशेषेण क्षेत्रपालबलिं कुरु ॥ १ ॥

असुरा राक्षसाश्चैव नित्यकर्मविरोधकृत्
शिवपूजा विधिं कृत्वा राजराष्ट्रस्य वर्द्धनम् ॥ २ ॥

तत् ग्रामं तस्यरक्षार्त्थं चोरचक्रविनाशनम्
अपमृत्यु विनाशञ्च ज्वररोगादिनाशनम् ॥ ३ ॥

जयार्त्थं पुत्रमित्रादि धनधान्यविवर्द्धतम्
सर्वशान्तिकरं पुण्यं सर्वपापविनाशनम् ॥ ४ ॥

पूजान्ते तु बलिं कृत्वा भोगाङ्गमिति संस्मृतम्
हकारस्यान्तरालस्थं कूटबीजं सुबालकम् ॥ ५ ॥

बिन्दुनादसमायुक्तम् अन्तस्थं स्थितिबालकम्
एकाक्षरपदं रौद्रं शान्तीनां शत्रुनाशनम् ॥ ६ ॥

क्षेत्रबीजभयं कारं मृत्युनाशं सुशोभनम्
पाद्यैराचमनीयार्घ्यैर्गन्धैः पुष्पैश्चधूपकैः ॥ ७ ॥

दीपैर्न्निवेदनैस्सर्वैः कूटबीजेन दापयेत्
श्वानमारूढदेवाश्च स्वनामाद्येन पूजयेत् ॥ ८ ॥

क्षेत्रद्ध्यानक्रमं वक्ष्ये श्रुणुष्वेवप्रजापते
प्राप्ते कलियुगे घोरे नष्टेदग्धे च वा पुनः ॥ ९ ॥

वृषरूपेण धर्मित्वा श्रुतिश्वानकवाहनः
आघ्रायाघ्रायबिन्दञ्च वेदश्वानश्शनैश्शनैः ॥ १० ॥

यत्पदानि महाटव्यां वन्देऽहं परमेश्वरम्
शुभश्चाशुभदश्चायं शुभं स्याच्छुभवाहनम् ॥ ११ ॥

[[५९४]]

ऋग्यजुस्सामवेदांश्च अङ्गप्रत्यङ्गमेव च
चन्द्रार्कस्याग्निनौ चैव सर्वदेवांशमेव वा ॥ १२ ॥

तस्मातु वाहनञ्चैव श्वानवाहनमुच्यते
द्वारन्तु पश्चिमे मुख्यं दक्षिणे मद्ध्यमं स्मृतम् ॥ १३ ॥

कन्न्यसञ्चेन्द्रके द्वारमैशान्न्यां स्थानमुत्तमम्
द्विदोर्दण्डं चतुर्हस्तं षट्भुजञ्चाष्टहस्तकम् ॥ १४ ॥

सुदंष्ट्रं भैरवाकारं कृष्णवर्णं दिगम्बरम्
सर्वयज्ञोपवीतञ्च शिरोमाला विभूषितम् ॥ १५ ॥

ऊर्ध्वकेशं सुवृत्ताक्षं नागाभरणसंयुतम्
त्रिणेत्रन्नग्नरूपञ्च किञ्चित्प्रहसिताननम् ॥ १६ ॥

शूलन्दक्षिणहस्ते तु वामहस्ते कपालकम्
द्विभुजे तु प्रकर्त्तव्यं नाभ्यांशार्द्धचतुर्भुजम् ॥ १७ ॥

डमरुकंसव्यहस्ते तु वामहस्ते तु पाशधृक्
त्रिशूलं सव्यहस्तं स्यात्कपालं वामहस्तकम् ॥ १८ ॥

चतुर्भुजमिति ख्यातं षट्भुजञ्चैव कारयेत्
खड्गन्दक्षिणहस्ते तु वामहस्ते तु खेटकम् ॥ १९ ॥

नागञ्च दक्षिणे हस्ते तोमरं वामहस्तके
त्रिशूलन्दक्षिणे हस्ते वामहस्ते कपालधृक् ॥ २० ॥

षट्भुजं त्वितिविख्यातं भुजाष्टकमिदं श्रुणु
त्र्यक्षमष्टभुजं रौद्रम् ऊर्ध्वकेशं सुदंष्ट्रकम् ॥ २१ ॥

रौद्रदृष्टिन्तु कृष्णाभं बालेन्दु कृतशेखरम्
नरशिरश्च दुर्द्धर्षं नागयज्ञोपवीतिनम् ॥ २२ ॥

संयुक्तं कर्णयोः पत्रं वित्तन्तो मरकुण्डलम्
शूलं डमरुकं खट्गं पिनाकं दक्षिणे करे ॥ २३ ॥

कपालञ्च धनुश्चैव घण्टां पाशमधः करे
सर्वाभरणसंयुक्तं शिरं वै केतुमालया ॥ २४ ॥

[[५९५]]

नग्ननागाम्बरञ्चैव किङ्किणी वरदसंयुतम्
नूपुरं यज्ञसूत्रञ्च पादकिङ्तिणिसंयुतम् ॥ २५ ॥

प्रभा मण्डलसंयुक्तं पद्मपीठोपरिस्थितम्
एवं वै क्षेत्रपालन्तु स्वरूपाणान्तु विन्न्यसेत् ॥ २६ ॥

पद्मं शूलञ्च मुकुलं निष्ठुरं योनिशङ्खजम्
मन्त्रान्तमुद्रा कार्यं वा विनियोगं प्रपूजयेत् ॥ २७ ॥

अथवान्न्यप्रकारेण विशेषमधुनोच्यते
पञ्चमस्योदरस्थन्तु वह्निमायासमन्वितम् ॥ २८ ॥

बिन्दुनादसमायुक्तं प्रथमं प्रणवमुच्यते
वारुणञ्च समुद्धृत्य टवर्णं पञ्चमान्वितम् ॥ २९ ॥

वर्गाद्यञ्च द्वितीयेन सप्तवर्गादि संयुतम्
आपदुद्धारणायेति मन्त्रयुक्तञ्च कारयेत् ॥ ३० ॥

वर्गाद्यं पञ्चमोपेतं यान्तञ्चैव तथैव च
एतौ वर्णौ द्विरुच्चार्य वरुणाय सुयोजयेत् ॥ ३१ ॥

टकारं पञ्चमोपेतं द्विवर्गञ्च द्वितीयकम्
वायुबीजं ततो द्ध्यात्वा मन्त्रमुच्चारयेत् क्रमात् ॥ ३२ ॥

पूर्वोक्तं प्रणवं चैव मन्त्राद्यं तत्प्रयोजयेत्
हृल्लेखं मन्त्रमुच्चार्य बिन्दुनादसमन्वितम् ॥ ३३ ॥

वटुकाख्यं महातन्त्रं ज्ञानयोगक्रियावहं
रहस्यमतिगुह्यं च सन्निधानकरं परम् ॥ ३४ ॥

मन्त्रोच्चारमिदं प्रोक्तम् अर्च्चनस्य विधिं श्रुणु
आसनं कल्पयेत्पश्चात् गन्धपुष्पेन संयुतम् ॥ ३५ ॥

मण्डले स्थण्डिले पीठे पटेन हृदयेऽपि वा
चतुरश्रासनस्थन्तु चाष्टपत्रं सकर्णिकम् ॥ ३६ ॥

तस्य मद्ध्ये चतुष्कोणमण्डलन्तु विधीयते
तन्मद्ध्ये तु त्रिकोणन्तु तन्मद्ध्ये वोमपात्रकम् ॥ ३७ ॥

[[५९६]]

तन्मद्ध्ये देवमावाह्य मूलमन्त्रेण मन्त्रवित्
बालसूर्याग्निसङ्काशं राजसन्ध्यानमुच्यते ॥ ३८ ॥

सात्विकं श्वेतवर्णन्तु कृष्णन्तामसमुच्यते
सर्वकामार्त्थसिद्ध्यर्त्थं राजसन्ध्यानमुच्यते ॥ ३९ ॥

सात्विकं मुक्तिदं प्रोक्तं रोगनाशं च तामसम्
चोरशत्रुक्षयकरं सर्वक्लेशविनाशनम् ॥ ४० ॥

ग्रहभूतविशाचादि सर्वविघ्नविनाशनम्
एवन्ध्यात्वा विशेषेण कृष्णवर्णं प्रशस्यते ॥ ४१ ॥

त्रिणेत्रं रक्तवर्णं च चन्द्रशेखार्द्धमौलिनं
सव्ये शूलं भयं चैव कपालं वरदं परे ॥ ४२ ॥

रक्तवस्त्राम्बरधरं रक्तमाल्यानुलेपनम्
नीलग्रीवं च सौम्यं च सर्वाभरणभूषितम् ॥ ४३ ॥

राजसानां च तद्ध्यानं सात्विकानां ततश्श्रुणु
सात्विकं च विधिः प्रोक्तं मृत्युनानाभयं भवेत् ॥ ४४ ॥

तुषारकिङ्किणी भासं बालरूपं द्विनेत्रकम्
मूर्ध्नित्वलकबृन्दं च देवीशान्तं चलोचनम् ॥ ४५ ॥

सर्वाभरणधर्तारं द्विभुजं व्यक्तरूपकम्
कपालं वामहस्ते तु शूलन्दण्डं च दक्षिणे ॥ ४६ ॥

पादनूपुरसंयुक्तं छन्नवीरविभूषितम्
सर्वमालासमायुक्तं घण्टालङ्कारसंयुतम् ॥ ४७ ॥

हस्तजानूरुवक्षश्च सर्वाभरणभूषितम्
एवं ध्यात्वा विशेषेण सदामृत्युञ्जयो भवेत् ॥ ४८ ॥

सर्वकामप्रदातारं सर्वयोगफलप्रदम्
सर्वज्ञानोद्भवं प्राप्ति सात्विकं चोत्तमं भवेत् ॥ ४९ ॥

सात्विकं ध्यानमित्युक्तं तामसं ध्यानमुच्यते
वर्णन्तु नीलमेघाभमूर्ध्वकेशं त्रिणेत्रकम् ॥ ५० ॥

[[५९७]]

नग्नरूपं सरौद्रं च शिरोमालाविभूषितम्
नूपुरं चन्नवीरं च नागयज्ञोपवीतकम् ॥ ५१ ॥

किङ्किणी मालयाभूष्यं भीमरूपं भयावहम्
डमरुञ्चाङ्कुशञ्चैव खड्गशूलभयान्वितम् ॥ ५२ ॥

नागं पाशं च घण्टाञ्च वरदं वामहस्तके
कपालञ्च विशेषेण वामहस्तसमन्वितम् ॥ ५३ ॥

सुदंष्ट्रं भीमनादञ्च सर्वपुष्पैरलङ्कृतम्
सर्वक्षोभणकर्तारं सर्वव्याधिनिवारणम् ॥ ५४ ॥

सर्वशत्रुक्षयकरं सर्वदं सस्यवर्द्धनम्
एवं ध्यात्वा तु मन्त्रज्ञो आसनोपरिविन्न्यसेत् ॥ ५५ ॥

असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः
अपालभीषणश्चैव संहारश्चाष्टभैरवाः ॥ ५६ ॥

पूर्वाद्यैशानपर्यन्तं पूजयेत्तु विशेषतः
कपालशूलसहितम् अभयं वरदान्वितम् ॥ ५७ ॥

नीलमेघनिभाकारत्रियक्षं चन्द्रशेखरम्
प्रणवादिनमोन्तं च पूजयेत्वष्टभैरवम् ॥ ५८ ॥

ग्रामेषु नगरे चैव पत्तने राजधानिके
चत्वारेषु श्मशानेषु समुद्रे गजपादिनम् ॥ ५९ ॥

देवालये गुरुगृहे विमाने पुण्यदेशके
आरण्ये पर्वताकारे नद्यादिषु कटाकके ॥ ६० ॥

एतेषां स्थानमेवोक्तमन्येषु स्थापनं नयेत्
देवस्याभिमुखं पूर्वमैशान्यां क्षेत्रपालकम् ॥ ६१ ॥

दक्षिणाभिमुखन्देवं क्षेत्रेशं वायुदेशके
देवस्य पश्चिमद्वारे चाग्नेय्यां क्षेत्रपालकम् ॥ ६२ ॥

उत्तराभिमुखन्देवं क्षेत्रे शानन्तु नैर्ऋते
एतत्स्थानं प्रकर्तव्यम् अन्येषां स्थाननाशनम् ॥ ६३ ॥

[[५९८]]

प्रमादाद्दिक्षु संस्थाप्य यजमानं राष्ट्रनाशनम्
नीलनिभवेदकरवह्निनयनं स्याच्छूलकपालडमरुकपाशकरधारम् ।
नग्ननीलशुनवाहनकिङ्किणिविभूष्य मूर्ध्वगतिकेशधरसर्पधरहरः ॥ ६४ ॥

नग्नरूपं त्र्यक्षचतुर्भुजसर्पडमरुकत्रा शूलकपालकः ।
ऊर्ध्वकेशसम मसन्निभं क्षेत्रपालस्वरूपमिदं भवेत् ॥ ६५ ॥

भैरवं दक्षिणे भ्यर्च्य द्विभुजं चैकवक्त्रकम् ॥ ६६ ॥

खड्गखेटधरञ्चैव रक्तवर्णसमायुतम्
महाभैरववामे तु कृष्णवर्णसमायुतम् ॥ ६७ ॥

द्विभुजं विस्मयं हस्तं मूलं वा दण्डधारिणम्
उग्रभैरवपीठं स्यात् बलिपीठबलिन्तथा ॥ ६८ ॥

तस्याग्रेश्वानसंयुक्तं द्वारपार्श्वे द्वयन्तथा
वाहनञ्चैव संयोज्य चतुर्वेदं प्रकल्पयेत् ॥ ६९ ॥

सर्वोपचारपूजायां भोगाङ्गं पूजयेत्तदा
लयाङ्गं लिङ्गपूजायां भोगाङ्गं क्षेत्रपालकम् ॥ ७० ॥

सर्वभैरवसम्पूज्य बलिपीठं विशेषतः
रक्तपानबलिं कृत्वा सर्वशान्तिकरं शुभम् ॥ ७१ ॥

मधुमांसफलैर्युक्तं नैवेद्यन्तु प्रदापयेत्
गन्धद्रव्यसमायुक्तं गन्धपुष्पेण पूजयेत् ॥ ७२ ॥

धूपदीपसमायुक्तं सर्वातोद्यसमायुतम्
अर्द्धरात्रौ विशेषेण भोगाङ्गं बलिपूजयेत् ॥ ७३ ॥

पूजान्ते तु बलिं कृत्वा सपुण्यां गतिमाप्नुयात् ॥ ७४ ॥

इति क्षेत्रपालार्चनविधि पटलः त्र्युत्तरशततमः