चतुर्द्वारार्चनविधिपटलप्रारम्भः
अतःपरं प्रवक्ष्यामि चतुर्द्वारार्चनन्तथा
प्राक् द्वारे शान्तिकं प्रोक्तं पश्चिमे मोक्षसिद्धिदम् ॥ १ ॥
दक्षिणे इष्टकाम्यं स्यात् धनधान्यन्तथोत्तरे
पूर्वे तु कल्पयेत्द्वारं सर्वकाम्यार्त्थसाधनम् ॥ २ ॥
श्रेष्ठं पश्चान्मुखञ्चैव अभावे प्राङ्मुखन्तथा
दक्षिणद्वारसंयुक्तमथवा उत्तराय च ॥ ३ ॥
पूर्वद्वारे पश्चिमेऽपि गोमूखोत्तरसंयुतम्
देशिकोत्तरवक्त्रः स्यादर्चनोक्तं विशेषतः ॥ ४ ॥
[[५८८]]
पश्चिमे नैर्ऋते स्थित्वा पूर्वे च वह्निदेशके
अर्चयित्वा तथा देवं स्थितमासीनकल्पयेत् ॥ ५ ॥
दक्षिणोत्तरवक्त्रं स्यात् गोमुखं पूर्वकल्पयेत्
देशिकः पूर्ववक्त्रः स्यात् अर्चयित्वा विशेषतः ॥ ६ ॥
दक्षिणे नैर्ऋते स्थित्वा उत्तरे वायुदेशके
अर्चयित्वा तथा देवं स्थितमासीनसंयजेत् ॥ ७ ॥
पश्चिमोत्तरके द्वारे नैवेद्यन्तु शिवाय च
आचार्यहस्तं संयोज्य गजहस्तन्निवेदनम् ॥ ८ ॥
पश्चिमोत्तरतश्चैव विकृतिं हस्तसंयुतम्
पूर्वे च दक्षिणे चैव प्रकृतिं हस्तसंयुतम् ॥ ९ ॥
प्रकृतिं विकृतिं हस्तं नैवेद्यञ्चैव दापयेत्
तद्दोषाय भवेत्कृत्वा भुक्तिमुक्तिफलप्रदम् ॥ १० ॥
लिङ्गस्थञ्च घटस्थञ्च कुण्डस्थं मण्डलन्तथा
आचार्यहृदयस्थञ्च पञ्चमूर्त्तिं सदाशिवम् ॥ ११ ॥
पञ्चवक्त्रसमायुक्तं शुद्धस्फटिकनिर्मलम्
कक्षिपञ्चदशैर्युक्तं दशबाहुसमन्वितम् ॥ १२ ॥
खट्गञ्चपरशुं खट्गं वज्राभं यौचदक्षिणे
पाशन्नागाङ्कुशञ्चैव घण्टां वह्निञ्च वामके ॥ १३ ॥
दिव्याम्बरधदञ्चैव मकुटे वार्द्धचन्द्रकम्
केयूरकटकञ्चैव सर्वरत्नैर्विभूषितम् ॥ १४ ॥
यल्लिङ्गं भावयित्वा तु पूजयित्वा सदाशिवम्
उत्तरे पूजयेद्देवीं तद्वाराभिमुखं क्रमात् ॥ १५ ॥
पूर्वद्वारन्तथा देवमर्चयेत्तु चतुर्मुखम्
ईशानम् ऊर्ध्ववक्त्रं स्यात्तद्वक्त्रमैशगोचरे ॥ १६ ॥
पूर्वे तत् पुरुषञ्चैव अघोरन्दक्षिणे यजेत्
वाममुत्तरदेशे तु सद्योजातन्तु पश्चिमे ॥ १७ ॥
[[५८९]]
ईशानमभयञ्चाग्निं पुष्यगं वज्रनागगम्
अघोरं खड्गघण्टाञ्च वामं परशुमङ्कुशम् ॥ १८ ॥
शूलं वामं तथा सर्वकरैर्धार्यं पृथक्पृथक्
शुद्धस्सटिकमीशानं पुरुषं कुङ्कुमप्रभम् ॥ १९ ॥
अघोरमञ्जनाभासं रक्ताभं वामदेवकम्
सद्योजातन्तु गोक्षीरं पञ्चवक्त्रेषु भावयेत् ॥ २० ॥
हृदयं पावके पूज्य निर्ऋतौ तु शिखां यजेत्
कवचं वायुदेशे तु शिरो वैशानगोचरे ॥ २१ ॥
अस्त्रन्तु दक्षिणे पूज्य ईशाने नयनं यजेत्
पूर्वद्वारे तु सम्पूज्य द्वारदेवान्विशेषतः ॥ २२ ॥
द्वारमन्तर्मुखं विद्यात् द्वारपालाबहिर्मुखाः
तस्मान्मण्टपबाह्ये तु द्वारपूजां समारभेत् ॥ २३ ॥
गुरोरन्तः प्रवेशस्य दक्षिणादिसमर्चयेत्
पतङ्गोर्ध्वे गणेशन्तु द्वारसव्ये समर्चयेत् ॥ २४ ॥
द्वारवामे सरस्वत्यां महालक्ष्मीन्तु मद्ध्यमे
आत्मनो दक्षिणे पार्श्वे नन्दीं गङ्गां प्रपूजयेत् ॥ २५ ॥
आत्मनो वामपार्श्वे तु कालञ्च यमुनान्तथा
मतङ्गञ्चोर्ध्वदेहल्यामधो भुवनदेहलीम् ॥ २६ ॥
भुजङ्गं दक्षशाखायां तद्वामे मतङ्गमीरितम्
विमलञ्च सुबाहुञ्च पूजयेत्तु कवाटयोः ॥ २७ ॥
पट्टिकां स्कन्दमभ्यर्च्य वलयोस्सूर्यसोमकौ
सुषिरे नवशक्तिञ्च आधारे शक्तिरेव च ॥ २८ ॥
आधारेस्त्रञ्च सम्पूज्य तदग्रे वृषभं यजेत्
दण्डिञ्च सव्यपार्श्वे तु मुण्डिञ्च वामपार्श्वके ॥ २९ ॥
भृङ्गी विनायकौ चैव दक्षिणे तु समर्चयेत्
पूर्वे वृषभस्कन्दां च देवी चण्डेश्वरोत्तरे ॥ ३० ॥
[[५९०]]
विघ्ने त्रयमिदं पूज्य द्वारदेशेसमर्चयेत्
विघ्नाद्ध्यक्षन्तु प्रथमं विघ्नराजं द्वितीयकम् ॥ ३१ ॥
विघ्नेश्वरं तृतीयन्तु विघ्नत्रयमिहोच्यते
पार्त्थिवं चान्तरिक्षञ्च स्वर्गे चैव त्रिधा भवेत् ॥ ३२ ॥
विघ्नत्रयमिदं प्रोक्तं स्थानं तत्रैव कल्पयेत्
भूमौ च सव्यपादेन पादाङ्गुष्ठेन ताडयेत् ॥ ३३ ॥
विघ्नाद्ध्यक्षाय तृप्तिं स्यात् भूमिविघ्ननिवारणम्
अन्तरिक्षे विघ्नराज तृप्तिः स्याद्धस्तताडनात् ॥ ३४ ॥
अङ्गुष्ठतर्जनीभ्यान्तु पत्रमूर्ध्वोस्त्रमन्त्रवित्
विसर्जनीय स्वर्गे स्यात् विघ्नेश्वरस्य तृप्तये ॥ ३५ ॥
व्यपोह्य त्रयविघ्नन्तु शिवपूजां समाचरेत्
द्वाररक्षाय देवाय बलिं सर्वत्र दापयेत् ॥ ३६ ॥
इन्द्रादीशानपर्यन्तं पूर्वद्वारबलिं क्षिपेत्
पश्चिमद्वारहर्म्ये तु पूजयेत्तु सदाशिवम् ॥ ३७ ॥
रूपद्ध्यानञ्च पूर्वोक्तं गौरीं दक्षिणतो यजेत्
पञ्चवक्त्रान् समभ्यर्च्य ईशानन्तूर्ध्वतो यजेत् ॥ ३८ ॥
ऐशान्यां नैर्ऋते वक्त्रमर्चनां परिकल्पयेत्
पश्चिमे पुरुषं वक्त्रमघोरमुत्तरे न्यसेत् ॥ ३९ ॥
दक्षिणे वामदेवन्तु पूर्वे सद्यमिति स्मृतम्
हृदयं वामदेशे तु ऐशान्न्यां शिखिविन्न्यसेत् ॥ ४० ॥
कवचं चाग्निदेशे तु शिरोनिर्ऋति गोचरे
अस्त्रन्तथोत्तरे चैव अघोरं शिखिमद्ध्यमे ॥ ४१ ॥
सर्वज्ञता बीजरूपमीशाने नयनं यजेत्
पश्चिमद्वारके पूज्य द्वारदेवान् समर्चयेत् ॥ ४२ ॥
पतङ्गोर्द्ध्वे गणेशन्तु दक्षिणे तु समर्चयेत्
उत्तरे सरस्वतीं पूज्य मद्ध्ये लक्ष्मीं प्रपूजयेत् ॥ ४३ ॥
[[५९१]]
द्वारस्य दक्षिणे पार्श्वे नन्दीं गङ्गां प्रपूजयेत्
द्वारस्य वामपार्श्वे तु कालञ्च यमुनान्तथा ॥ ४४ ॥
कवाटद्वये तु सम्पूज्य विमलञ्च सुबाहुकम्
अधरेस्त्रं सुसम्पूज्य वृषभं पश्चिमे यजेत् ॥ ४५ ॥
भृङ्गी विनायकौ चैव दक्षिणे तु समर्च्चयेत्
पश्चिमे वृषभस्कन्दौ देवी चण्डौ च वामके ॥ ४६ ॥
विघ्नत्रयमिदं पूज्य द्वारदेशे समर्चयेत्
द्वाररक्षाय देवाय बलिं सर्वत्र दापयेत् ॥ ४७ ॥
वारुण्यादिनैर्ऋत्यन्तं पश्चिमे बलिमाचरेत्
दक्षिणद्वारके चैव पूजयेत्तु सदाशिवम् ॥ ४८ ॥
देवस्य पूर्वभागे तु पूजयेत्तु मनोन्मनीम्
पञ्चवक्त्रं तथा देवं मूर्द्धनीशानकं यजेत् ॥ ४९ ॥
निरीक्ष्यवह्निदेशे तु ईशानमपि पूजयेत्
दक्षिणे पुरुषञ्चैव अघोरं पश्चिमे यजेत् ॥ ५० ॥
पूर्वे वाममुखञ्चैव सद्योजातं तथोत्तरे
हृदये नैर्ऋते देशे वायव्यां शिखिविन्न्यसेत् ॥ ५१ ॥
कवचम् ईशदेशे तु शिरश्च वह्निगोचरे
अस्त्रन्तु पश्चिमे पूज्य पूर्वे तु नयनं यजेत् ॥ ५२ ॥
दक्षिणद्वारहर्म्ये तु द्वारदेवान् प्रपूजयेत्
द्वारस्य पूर्वपार्श्वे तु नन्दीं गङ्गां प्रपूजयेत् ॥ ५३ ॥
द्वारस्य पश्चिमे पार्श्वे कालञ्च यमुनान्तथा
विमलञ्च सुबाहुञ्च अर्चयेत्तु कवाटयोः ॥ ५४ ॥
द्वारस्याधारे चास्त्रं स्यात् वृषभं दक्षिणे यजेत्
भृङ्गी विनायकौ चैव पूर्वभागे समर्चयेत् ॥ ५५ ॥
दक्षिणे वृषभस्कन्दौ देवीञ्चण्डञ्च पश्चिमे
विघ्नत्रयन्तु सम्पूज्य द्वारदेशे समर्चयेत् ॥ ५६ ॥
[[५९२]]
द्वाररक्षाय विघ्नाय बलिं सर्वत्र दापयेत्
यमादिकग्निपर्यन्तं दक्षद्वारबलिं ददेत् ॥ ५७ ॥
उत्तरद्वारहर्म्ये तु पूजयेत्तु सदाशिवम्
पूर्ववद्ध्यानमेवोक्तं पश्चिमे तु मनोन्मनीम् ॥ ५८ ॥
पञ्चवक्त्रं महादेवमूर्ध्वमीशानसंयजेत्
ईशानवक्त्रमेवोक्तं वायुदेशे निरीक्षणम् ॥ ५९ ॥
सौम्ये तत्पुरुषञ्चैव अघोरं पूर्वतो मुखम्
वामं पश्चिमभागे तु सद्योजातन्तु दक्षिणे ॥ ६० ॥
हृदयं चैश देशे तु आग्नेय्याञ्च शिखां न्यसेत्
कवचं नैर्ऋते देशे वायव्यां विन्यसेच्छिरः ॥ ६१ ॥
अथ पूर्वे तु सम्पूज्य पश्चिमे नयनं यजेत्
उत्तरद्वारके यत्र द्वारदेवान् प्रपूजयेत् ॥ ६२ ॥
पतङ्गस्योर्ध्वे गणेशन्तु पश्चिमे तु समर्चयेत्
पूर्वे सरस्वतीञ्चैव मद्ध्ये लक्ष्मीं समर्चयेत् ॥ ६३ ॥
द्वारस्य सव्यपार्श्वे तु नन्दीं गङ्गां प्रपूजयेत्
द्वारस्य पूर्वपार्श्वे तु कालञ्च यमुनान्तथा ॥ ६४ ॥
कवाटयोस्समभ्यर्च्य विमलञ्च सुबाहुकौ
अस्त्रमाधारे सम्पूज्य वृषभं चोत्तरे यजेत् ॥ ६५ ॥
भृङ्गीविनायकौ चैव पश्चिमे तु प्रपूजयेत्
उत्तरे वृषभस्कन्दौ देवी चण्डन्तु पूर्वके ॥ ६६ ॥
विघ्नत्रयन्तु सम्पूज्य द्वारदेशे तु संयजेत्
द्वाररक्षाय तृप्ताय बलिं सर्वे समाचरेत् ॥ ६७ ॥
सोमादिवायुपर्यन्तमुत्तरे बलिमाचरेत्
यत्र देशे भवेत् द्वारं तत्र तत्पुरुषं यजेत् ॥ ६८ ॥
चतुर्द्वारि तथा गौरीं वामभागे समर्चयेत्
आसनावरणादीनि प्रभादिषु यथार्चयेत् ॥ ६९ ॥
[[५९३]]
चतुर्द्वारार्चनं ह्येतत् धनधान्यसमृद्धिदम् ॥ ७० ॥
इति चतुर्द्वारपूजाविधिपटलः द्व्युत्तरशततमः