१०१ मोहिनीस्थापनविधिपटलः

मोहिनीस्थापनविधिपटलप्रारम्भः
मोहिनीस्थापनं वक्ष्ये समासेन प्रजापते
देवासुरमहायुद्धे त्वमृतम्मथने सति ॥ १ ॥

पीयूषमथने काले सम्भवे च द्वलोटने
देवस्थावपिसङ्ग्राह्य वति – कृतासुरान् ॥ २ ॥

हंसार्त्थमेमन्त्रवत्भास्य भवामोतांशनीवयम्
इतरत्वासह कारीते अमृतादेयदाकृता ॥ ३ ॥

तदाजायात्मना कृष्णन्दद्यात्ते नामृतामृतम्
विजित्वादरवास्त्वेवं संविशेयस्तु मांसदा ॥ ४ ॥

तदा तत्कृष्णजायान्तु हैमेमाभात्तु मोहिनी
कालार्णान्नु समुद्धृत्य चतुर्दशस्वरान्वितम् ॥ ५ ॥

[[५८४]]

बिन्दुनादसमायुक्तमस्यास्तु मूलमन्त्रकम्
ब्रह्माङ्गानपि तेनैवाप्युद्धरेदुत्तमर्षतः ॥ ६ ॥

ग्रामबाह्ये मनोरम्ये मोहिन्यावासकं परम्
प्रागुक्तेनैव हर्म्यन्तु कर्तव्यम्मण्टपादयः ॥ ७ ॥

गरुडं सिंहमुक्षं वा कल्पयेत् ग्रीवमञ्चके
प्राक् द्वारस्य समानेन गर्भमानेन तत्कुरु ॥ ८ ॥

लोहजं शैलजं वापि मृण्मयन्दारुकन्तथा
धातुकं वाथ कर्तव्यमनेनैव प्रकारतः ॥ ९ ॥

द्विनेत्रा द्विभुजा शान्ता द्विपादाश्यामलप्रभा
करण्डमकुटोपेता सर्वाभरणभूषिता ॥ १० ॥

पद्मपीठोपरिष्टात्तु पीतवस्त्रसधृतां वराम्
आसीनं स्थानकं वापि कल्पयेत्कल्पवित्तमः ॥ ११ ॥

त्रिभङ्गस्थानकञ्चेत्तु सव्याङ्घ्रिशायि — नी
लसितं वामपादन्तु सव्यहस्ते धृतोत्पला ॥ १२ ॥

प्रसार्यवामहस्ते तु वरदं कटकन्तु वा
अन्यत्सव्ये तु शूलं वा कपालं वामहस्तके ॥ १३ ॥

एवं सङ्कल्पयेन्मोटीं दक्षिणे द्विभुजं हरम्
चतुर्हस्तं प्रकर्तव्यं वामाङ्घ्रिविष्टरे शयेत् ॥ १४ ॥

लम्बयेद्दक्षिणं पादमभयं वरदान्वितम्
टङ्कं कृष्णमृगं वामे दक्षिणे वरकेसरी ॥ १५ ॥

जटामकुटसंयुक्तं सोमेश्वरमिवा कृति
केवलम्मोहिनीञ्चैव कल्पयेत्कल्पवित्तमः ॥ १६ ॥

अष्टाङ्गी कोटरी चैव दक्षिणे दक्षिणे स्थिता
द्विनेत्रे द्विभुजे शान्ते चामरामालिका करे ॥ १७ ॥

पार्श्वयोर्गर्भगेहे तु प्रवेशस्य तु पार्श्वयोः
रक्तश्यामनिभावेतौ कल्पयेत्कोशबन्धितौ ॥ १८ ॥

[[५८५]]

शङ्किनी टङ्किनी चैव बाह्यद्वारसुपार्श्वयोः
दक्षिणे दक्षिणे शूलं डमरुञ्चैव धारयेत् ॥ १९ ॥

अङ्गिनी आङ्गिनी चैव इङ्गिनी ईङ्गिनी तथा
उङ्गिनी ऊङ्गिनी चैव ऋङ्गिनी ॠङ्गिनी तथा ॥ २० ॥

लृङ्गिनी लॄङ्गिनी चैव एङ्गिनी ऐङ्गिनी तथा
ओङ्गिनी अौङ्गिनी चैव अङ्गिनी अःगिनी तथा ॥ २१ ॥

इन्द्रादिक्रमयोगेन स्थापयेत्परिवारकान्
एवं षोडशपरिवारान् दिक्दिक् संस्थापतेत्ततः ॥ २२ ॥

अभयावरदास्सर्वे प्रासादाभिमुखस्थिताः
प्रासादस्याग्रतः कुर्यादग्निभागैकविस्तृतः ॥ २३ ॥

तस्याग्न्यंशसमुत्सेधं कर्तव्यं स्थाप्यवेदिकाम्
चतुर्दिक्ष्वग्निकुण्डानि वृत्ताकाराणि कल्पयन् ॥ २४ ॥

रत्नन्यासन्तु मूलेन हृदा नयनमोक्षणम्
सर्पिर्मधुसवत्साङ्गां धान्यं विप्रं प्रदर्शयेत् ॥ २५ ॥

नेत्रमन्त्रं समुच्चाय पञ्चकन्न्यां प्रदर्शयेत्
हृदास्थाप्य स्ववस्त्राद्यैरलङ्कृत्य विशेषतः ॥ २६ ॥

ग्रामप्रदक्षिणं कृत्वा जलाधिवासनं कुरु
एकरात्रं त्रिरात्रं वा प्रहरं वा जले वसेत् ॥ २७ ॥

स्थण्डिलं कारयेद्वेद्यां शालिभिस्तिलतण्डुलैः
लाजपुष्पकुशास्तीर्य शयनं नववस्त्रतः ॥ २८ ॥

गन्धाद्यैस्तु समभ्यर्च्य बध्वाप्रतिसरन्ततः
शरने शाययेद्देवीं प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ २९ ॥

नववस्त्रेण सञ्चाद्य गन्धाद्यैस्तु समर्चयेत्
स्थापयेत् मोहिनीं कुम्भे कत्बिम्बन्तु शिरोन्तिके ॥ ३० ॥

सकूर्चवस्त्रहेमाढ्यमद्भिःपूर्यविधाय च
मूलमन्त्रन्न्यसेत्तस्मिन् ध्यात्वा च मोहिनीं यजेत् ॥ ३१ ॥

[[५८६]]

द्वौ वारिका वृतान् कुम्भान् परितः परिकल्पयेत्
हविषान्नं समभ्यर्च्य ततो होमं समाचरेत् ॥ ३२ ॥

पलाशखादिराश्वत्थो दुम्बरञ्च समित्क्रमात्
समिदाज्य चरून् लाजान् सर्षपांश्च यवांस्तिलान् ॥ ३३ ॥

अजमां समपूपञ्च फलं सक्तुं हृदादिभिः
शतमद्धन्तदर्द्धं वा प्रत्येकाहुतिमाचरेत् ॥ ३४ ॥

द्रव्यान्ते व्याहृतिं हुत्वा तत्तदङ्गैस्पृशादिभिः
ततः पूर्णाहुतिं कुर्यान्मूलमन्त्रेण देशिकः ॥ ३५ ॥

एवञ्जागरणं रात्रौ प्रभाते सुमुहूर्त्तके
शयनाद्देविमुद्धृत्य सर्वालङ्कारसंयुतम् ॥ ३६ ॥

हर्म्यं प्रदक्षिणी कृत्य गर्भगेहं समाविशेत्
स्थापयेन्मूलमन्त्रेण तत्तदङ्गानि विन्न्यसेत् ॥ ३७ ॥

घटात् बीजं हृदिन्यस्य तदद्भिरभिषेचयेत्
परिवारघटांश्चैव तत्तत्पीठेऽभिषेचयेत् ॥ ३८ ॥

ब्रह्माङ्गैरभिषिच्याथ हृदागन्धादिभिर्यजेत्
हविषान्नं समभ्यर्च्य बस्तमांसं हृदाददेत् ॥ ३९ ॥

परिवारबलिञ्चैव तद्रव्येणैव दापयेत्
प्रतिष्ठा यजनं ह्येवमुत्सवञ्चाधुनोच्यते ॥ ४० ॥

सिंहद्ध्वजोक्षकेतुर्वा गरुडं वापि रोपयेत्
पञ्चायुधसमायुक्तं चक्रमूर्त्ति समन्वितम् ॥ ४१ ॥

सन्धिदेवावाहनाद्यं सर्वं कुर्यान्महोत्सवे
शूलं कपालदण्डञ्च खड्गञ्चापन्तथैव च ॥ ४२ ॥

मोहिन्यायुधपञ्चैते पञ्चमूर्त्याधिदेवताः
यागे तु वेदिकायान्तु स्थापयेन्मोहवर्द्धनीम् ॥ ४३ ॥

अङ्गिन्यादीनि वर्द्धन्यां परितः स्थापयेद्बुधः
तत्तन्मन्त्रन्न्यसेद्ध्यायेद्धविषान्नं समर्चयेत् ॥ ४४ ॥

[[५८७]]

तस्यैन्द्राग्निन्तु सङ्कल्प्य पद्मकुण्डे तु होमयेत्
समिदाज्य चरून्लाजन् सर्षपांस्तिलमुद्गकान् ॥ ४५ ॥

बस्तानां रुधिरमांसमपूपं मुद्गकुलुत्थकम्
विद्याद्यस्त्रान्तमन्त्रैस्तु मोहिन्यास्तु शताहुतिम् ॥ ४६ ॥

पञ्चाशत्पञ्चविंशत्या प्रतिद्रव्यन्तु होमयेत्
होमान्ते तु बलिन्दद्यात् सर्वालङ्कारसंयुतम् ॥ ४७ ॥

घोषिणीमर्दिनी घोरी पालिनी पिङ्गली तथा
मत्भूतिविकृतिर्मार्दी भृङ्गिणी सन्धिदेवताः ॥ ४८ ॥

मद्ध्यादीशावसानेषु बलिन्दद्यात्तु सन्धिषु
शुद्धान्नं मांससंयुक्तं बलिन्दद्यात्स्वमन्त्रतः ॥ ४९ ॥

नवाहं वाथ सप्ताहं पञ्चाहं ह्येवमाचरेत्
लृ – न्ते चोत्सवं कुर्याद्देवीं मोहनमूर्तिकाम् ॥ ५० ॥

य– परिवेषञ्च युक्त्याशेषं समाचरेत्
एवं द्वित्रिदिनं वापि वनयात्रां समाचरेत् ॥ ५१ ॥

अन्यत्सर्वञ्च कर्तव्यमुत्सवस्यममोक्तवत् ॥ ५२ ॥

इति मोहिनी स्थापनविधिपटल एकोत्तरशततमः