लक्ष्मीस्थापनविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण लक्ष्मीस्थापनमुत्तमम्
आयुष्करं यशोवृद्धि श्रीसौभाग्य विवर्द्धनम् ॥ १ ॥
मूलदेवस्य धाम्ने च वायोर्वरुणमद्ध्यमे
स्वगृहे वान्यस्थाने वा स्थापयेल्लक्ष्मीं बुधः ॥ २ ॥
शिला सुधा च चित्रञ्च उत्तमादीनि कारयेत्
देवाग्रे उत्तरे पूर्वे ऐशान्ये चोक्तदेशके ॥ ३ ॥
सप्तमं नवहस्तं वा दशहस्तमथापि वा
द्वादशस्तम्भसंयुक्तं चतुर्द्वारसमायुतम् ॥ ४ ॥
चतुस्तोरणसंयुक्तं दर्भमाल्यैरलङ्कृतम्
वितानध्वजसंयुक्तं मण्टपं भूषयेत्ततः ॥ ५ ॥
अधिवासदिनात्पूर्वमङ्कुरार्पणमाचरेत्
बेरस्य शोधनं कृत्वा शिल्पमार्गेण कारयेत् ॥ ६ ॥
[[५८१]]
हेमसूचि प्रहारेण नयनोन्मीलनं कुरु
ज्योतिर्मण्डलमालिख्य नेत्रमन्त्रं समुच्चरन् ॥ ७ ॥
मधुक्षीराज्यकेनैव नेत्रस्पर्शनमाचरेत्
पुण्याहप्रोक्षणं कृत्वा गवां विप्रकराञ्जनान् ॥ ८ ॥
सप्तधान्यं विशेषेण दर्शनन्तु समाचरेत्
पुण्याहप्रोक्षणं कृत्वा बिम्बशुद्धिमथाचरेत् ॥ ९ ॥
जलमद्ध्ये प्रपां कृत्वा जलाधिवासनं नयेत्
पश्चिमे तु शिरः स्थाप्य पादौ पूर्वे च विन्न्यसेत् ॥ १० ॥
तीरे चाष्टघटं स्थाप्य लोकपालान् समर्चयेत्
गङ्गादिनवतीर्त्थानि अर्चयेज्जलमद्ध्यमे ॥ ११ ॥
नानावाद्य समायुक्तं नानाजपसमन्वितम्
नवरात्रं सप्तरात्रं त्रिरात्रमेकरात्रकम् ॥ १२ ॥
अथवा घटिकामात्रं जले कृत्वा विशेषतः
मण्टपाराधनं कृत्वा तोरणाद्यष्टमङ्गलम् ॥ १३ ॥
मण्टपस्याकृतिं मद्ध्ये वेदिकानां प्रकल्पयेत्
नवाग्निञ्चैव पञ्चाग्निम् एकाग्निं वा प्रतिष्ठितम् ॥ १४ ॥
प्रधानकुण्डं योनिस्स्यादन्याब्जं चतुरश्रकम्
शालितण्डुलमुद्गञ्च माषमेव तिलन्तथा ॥ १५ ॥
कुम्भस्य मूले स्थातव्यं लिखितन्नलिनन्तु वा
सूत्रवेष्टितकुम्भानां गवाक्षसदृशान्तरम् ॥ १६ ॥
जलेन पूरितं कृत्वा सकूर्चं नालिकेरकम्
चूतपल्लवसंयुक्तं सवस्त्रं सहपल्लवम् ॥ १७ ॥
परिवारघटे स्वर्णं पूरयित्वा यथाविधि
रत्नैश्च पूरितं कृत्वा घटमेकन्तु संयुतम् ॥ १८ ॥
जलाधिवासनं बेरं गृहीत्वा देशिकस्य तु
वेदिकायास्तु तन्मद्ध्ये शयनं पञ्चकं यथा ॥ १९ ॥
[[५८२]]
भूतात्मापञ्चतत्वानि अर्चनोक्तविधानतः
अण्डजं मुण्डजञ्चैव रोमजञ्चर्मजन्तथा ॥ २० ॥
श्वेतवस्त्रं रक्तवस्त्रं शयनाच्छादनं क्रमात्
बेरस्य शिरसि स्थित्वा प्रधानं कुम्भसंयुतम् ॥ २१ ॥
बहिरष्टघटञ्चैव श्रीदेव्याः परिवारकम्
द्विभुजाञ्च द्विनेत्राञ्च सरक्तमकुटान्विताम् ॥ २२ ॥
पीतवर्णसमायुक्तां सर्वावयवसुन्दरीम्
पङ्कजन्दक्षिणे हस्ते श्रीफलं वामहस्तके ॥ २३ ॥
पद्ममद्ध्यस्थितां देवीं हस्तद्वयविपार्श्वयोः
ऊर्ध्वहस्तघटोपेतां पार्श्वे उभयकुञ्जरम् ॥ २४ ॥
अभिषेकाम्बुसंयुक्तां श्रीदेवीं सम्प्रपूजयेत्
सरस्वतीञ्च वागीशीं स्तम्भिनीं मोहिनीं तथा ॥ २५ ॥
सावित्रीञ्चैव गायत्रीं महेशीमुन्मनीं तथा
परिवाराष्टशक्त्यादीन् वर्द्धन्यां पूजयेत्सुधीः ॥ २६ ॥
मण्टपाराधनं कृत्वा पूर्वोक्तविधिना कुरु
अग्निकार्यं विशेषेण कुण्डे आवाह्य पूजयेत् ॥ २७ ॥
पालाशोदुम्बराश्वत्थं वटं पूर्वोदिदिक्षु च
शमीखदिरमायूर श्रीवृक्षा अग्निकोणके ॥ २८ ॥
समिदाज्य चरून् लाजान् मुद्गमाषयवांस्तिलान्
शलिगोधूमनीवार सक्तुसिद्धार्त्थकन्दधि ॥ २९ ॥
क्षीरं क्रमेण विधिवत् होमयेन्मूलमन्त्रतः
इच्छाज्ञानक्रियारूपञ्चत्वत्रयमथाचरेत् ॥ ३० ॥
प्रोक्षणं शान्तिकुम्भस्य जलेनास्त्रेण मन्त्रतः
अष्टमूर्तिविशेषेण मन्त्रसम्पुटमारभेत् ॥ ३१ ॥
पद्मासनं समभ्यर्च्य वामादीन् केसरान्वितान्
आवाह्य गन्धपुष्पाद्यैरर्चनोक्तं समाचरेत् ॥ ३२ ॥
[[५८३]]
कुण्डं होमञ्च मन्त्रञ्च शक्तिं यागोक्तमाचरेत्
प्रायश्चित्तविधानेन प्रायश्चित्तं समाचरेत् ॥ ३३ ॥
अग्निसंयोजयेत्कुम्भे पश्चाद्धामप्रदक्षिणम्
कुम्भाद्बीजं न्यसेत् बिम्बे ह्रीङ्कारञ्च स्वनामतः ॥ ३४ ॥
कुम्भाभिषेकं कुर्याच्च चित्रवस्त्रेण वेष्टितम्
चन्दनं सर्वगन्धं स्यात् लेपयित्वा विशेषतः ॥ ३५ ॥
जातिनीलोत्पलञ्चैव पङ्कजं करवीरकम्
तुलसीबिल्वपत्रञ्च नन्द्यावर्तन्तु मल्लिका ॥ ३६ ॥
सर्वपुष्पैस्समभ्यर्च्य धूपदीपेन पूजयेत्
शुद्धान्नञ्चादिपञ्चान्नमपूपादिविशेषतः ॥ ३७ ॥
ताम्बूलं मुखवासादीं स्तोत्रमङ्गलमाचरेत्
वस्त्रहेमाङ्गुलीयञ्च गोभूमिं देशिकस्य तु ॥ ३८ ॥
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ३९ ॥
इति लक्ष्मीस्थापनविधिपटलश्शततमः