हरिस्थापनविधिपटलप्रारम्भः
हरिस्थापनमहं वक्ष्ये सर्वरोगनिवृत्तिकम्
क्षेमदञ्जयदं पुण्यं सर्वलोकसुखावहम् ॥ १ ॥
पादौ सुस्थितमेवन्तु सर्वलक्षणसंयुतम्
किरीटमकुटोपेतं शङ्खचक्रधरान्वितम् ॥ २ ॥
[[५७९]]
दक्षिणे चोत्तरे चक्रं वामे शङ्खसमन्वितम्
अभयन्दक्षिणं हस्तं वामं कटकहस्तकम् ॥ ३ ॥
स्ननसूत्रसमं कुर्यादुभयाग्रं विशेषतः
कटकास्ततलञ्चैव कटिसूत्रसमं भवेत् ॥ ४ ॥
पिप्पलीमूलदौपेतं कटकेन समायुतम्
परहस्तं विशेषेण तद्वयं परिकीर्तितम् ॥ ५ ॥
प्रतिमाणां विशेषेण मथा — श्रृताः
ग्रामस्य वारुणे भागे समं कुर्याद्विशेषतः ॥ ६ ॥
अथवा वायुदिग्भागे गरुडालयमुत्तमम्
प्रतिष्ठादिवसात्पूर्वे नवाहे सप्तमेव वा ॥ ७ ॥
अङ्कुराण्यर्पयेद्धीमान् शास्त्रमार्गेण कर्मणा
रत्नन्न्यासं विशेषेण कुर्यान्नयनमोक्षणम् ॥ ८ ॥
विकाराङ्घ्रि समायुक्तं मण्टपन्धर्महस्तकम्
एकरात्रं द्विरात्रं वा त्रिरात्रं वा जलोषितम् ॥ ९ ॥
जलन्नीत्वा तु बिम्बेन शिबिकोपरिविन्न्यसेत्
तन्मण्टपस्य मद्ध्ये तु वेदिं कुर्यात् सलक्षणाम् ॥ १० ॥
तस्यामद्ध्ये विशेषेण स्थण्डिलं हस्तमात्रतः
तन्मद्ध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ ११ ॥
अण्डजं मुण्डजन्तल्पं रोमजञ्चर्मजन्तथा
वामजं शयनं कल्प्य कल्पन्तु शयनस्य तु ॥ १२ ॥
शयने शाययेद्धीमान् प्राक् शिरश्चोर्द्ध्ववक्त्रकम्
सूत्रोदकस्य कुम्भे तु पूर्वाशादिषु विन्न्यसेत् ॥ १३ ॥
सङ्कर्षणश्च प्रद्युम्ना वासुदेवो निरुद्धकः
रामश्चैवाच्युतश्चैव नारसिंहोत्थवामनः ॥ १४ ॥
क्रमेणैतानि सर्वाणि अष्टकुम्भानि विन्न्यसेत्
देवस्यैव शिरोभागे प्रधानां कुम्भकं न्न्यसेत् ॥ १५ ॥
[[५८०]]
तत्तत् बीजं न्यसेत्कुम्भे द्ध्यानपूर्वं विशेषतः
पाञ्चरात्रप्रकारेण प्रतिष्ठां सम्यगाचरेत् ॥ १६ ॥
कुम्भानुद्धृत्य सर्वांश्च सर्वालङ्कारसंयुतान्
मूर्त्तिकुम्भविशेषेण अभिषेकं समाचरेत् ॥ १७ ॥
इन्द्राशादिषु पीठे तु अभिषेकं समाचरेत्
परिवारादि संयुक्तं स्थापयित्वा विशेषतः ॥ १८ ॥
सङ्कर्षणादि मूर्त्तीनां पूर्वादिषु च विन्न्यसेत्
अथवान्न्यप्रकारेण परिवारविहीनकम् ॥ १९ ॥
मयासं क्षेपतः प्रोक्तं विशेषं पाञ्चरात्रवत्
पाञ्चरात्रक्रमेणैव होमादिन्यासमाचरेत् ॥ २० ॥
इहैव धनवान्श्रीमान् सोन्ते विष्णुमवाप्नुयात् ॥ २१ ॥
इति हरिस्थापनविधिपटल एकोनशततमः