दुर्गास्थापनविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण दुर्गास्थापनमुत्तमम्
सर्वसिद्धिकरं पुण्यं सदा विजयवर्द्धनम् ॥ १ ॥
यत्नेन स्थापयेद्देव्या दुर्गाया स्थापनं कुरु
ग्रामवास्तु विमाने वा स्थापनस्य शिवालये ॥ २ ॥
शैलजं लोहजं वापि बेरं कुर्याद्विचक्षणः
मानाङ्गुलेन वा कुर्यात् तालमानेन वा पुनः ॥ ३ ॥
यजमानाङ्गुलमानेन द्वारमानेन वा पुनः
यथोक्तं प्रतिमां कृत्वा शुभमासं समारभेत् ॥ ४ ॥
अचलं शैलजञ्चेत्तु गर्भगेहवशाद्बुधः
रत्नन्न्यासं प्रकर्तव्यं शैलजन्तु चलं विना ॥ ५ ॥
लोहजञ्चेत् कृते पीठे नैव पटसमायुते
मण्डले स्थण्डिले पद्मे पीठमन्त्रे निधाय वै ॥ ६ ॥
पालिकाद्यङ्कुरैर्युक्ते दीपाद्यैश्च सुशोभिते
सुमुहूर्त्ते सुलग्ने च नवरत्नानि विन्न्यसेत् ॥ ७ ॥
देवीं रत्नोपरिन्न्यस्त्वा सुदृढं लिर्वृणा कृतिः
देव्याबीजमनुस्मृत्य तत्काले देशिकेन तु ॥ ८ ॥
सुदृढं शिल्पिनं कुर्यात् यथायुक्त्या तु कारयेत्
देशिकं स्थपतिं पूज्य वस्त्रहेमाङ्गुलीयकैः ॥ ९ ॥
शालिभिस्थण्डिलं कृत्वा तण्डुलैस्थिलसंयुतम्
गन्धाद्यैस्थण्डिलं पूज्य हृदयेन तु मन्त्रतः ॥ १० ॥
सदृष्टाधान्यराशञ्च वर्णाद्यैर्वसुदर्शयेत्
[[५७६]]
व्यपोह्य पटमत्रैव जनान्सर्वान् प्रदर्शयेत् ॥ ११ ॥
देशिकं शिल्पिनं पूज्य वस्त्राद्यैश्च विशेषतः
शुद्धिं बिम्बार्हकं कृत्वा पञ्चगव्य कुशोदकैः ॥ १२ ॥
वस्त्रैराभरणाद्यैश्च भूषणैर्भूषणार्हकैः
शिबिकायां समारोप्य सर्वातोद्य समायुतम् ॥ १३ ॥
रुद्रतोरणसंयुक्तं मयूरव्यञ्जनैर्युतम्
पिच्छचामरसङ्कीर्णं पताकाद्यैश्च संयुतम् ॥ १४ ॥
वास्तुप्रदक्षिणं कृत्वा जले तीरे समाविशेत्
वस्त्रप्रच्छादिता देवी कूर्चसूत्रेण संयुतम् ॥ १५ ॥
जलाधिवासनं कुर्यात् एकरात्रञ्जले तदा
आलयाग्रे च तत्पर्श्वे दक्षिणे चोत्तरे तथा ॥ १६ ॥
नवहस्ताष्टहस्तं वा सप्तहस्तमथापि वा
षोडशस्तम्भसंयुक्तं पङ्क्तित्रयसमायुतम् ॥ १७ ॥
पङ्क्तिमानसमुत्सेधं चतुर्द्वारसमायुतम्
मण्टपन्तत्र कुर्वीत ब्रंहांशावेदिका भवेत् ॥ १८ ॥
रत्निमात्रसमुत्सेधा दर्पणोदरसन्निभा
कुण्डानि कारयेत्तत्र दिशासु विदिशासु च ॥ १९ ॥
प्राक्कुण्डं वेदिका मद्ध्ये प्रधानं तत्र कल्पयेत्
गोमयालेपनं कृत्वा प्रोक्षयेत्तु शिवाम्भसा ॥ २० ॥
स्थण्डिलं तत्र कर्तव्यं वेदिकोपरिशालिभिः
तण्डुलैश्च तिलैरब्जं कृत्वा दर्भैः परिस्तरेत् ॥ २१ ॥
अण्डजाद्यैर्विशेषेण कल्पयेच्छयनं हृदा
दीपैश्शैलाङ्कुरैर्युक्तैः प्रच्छन्नपटसंयुते ॥ २२ ॥
द्वारपूजादिकं सर्वं स्थापनक्रमवत्सुधीः
एवं मण्टपसंस्कारं तोरणैश्च ध्वजैर्युतैः ॥ २३ ॥
जलादुत्तीर्य बिम्बन्तु प्रविशेदालयं ततः
[[५७७]]
शुद्धिं कृत्वा तु गव्यैश्च सेचयेत् गन्धवारिणा ॥ २४ ॥
गन्धाद्यैर्लेपितं बिम्बं नववस्त्रेण वेष्टयेत्
हेमं कौतुकसूत्रन्तु बन्धयेद्दक्षिणे करे ॥ २५ ॥
शयने शाययेत् बिम्बं हृदयेन तु मन्त्रतः
द्रोणार्द्धतोयसम्पूर्णान् वस्त्रेणैव तु वेष्टितान् ॥ २६ ॥
गन्धतोयेन सम्पूर्णान् हेमपद्मास्त्रसंयुतान्
वरकूर्चसमायुक्तान् चक्रोपरिसमायुतान् ॥ २७ ॥
वस्त्रेण वेष्टितान् कुम्भान् चूतपल्लवशोभितान्
देव्याश्च दक्षिणे पार्श्वे प्रधानञ्च घटन्न्यसेत् ॥ २८ ॥
दुर्गा कात्यायनी चैव विजया चापराजिता
देवी वेगवती चैव गायत्री शर्वरी तथा ॥ २९ ॥
कान्तार्योक्त्क्रमेणैव मद्ध्यमा दिशि विन्यसेत्
तत्तद्बीजमनुस्मृत्य कुम्भेष्वन्तर्जलन्न्यसेत् ॥ ३० ॥
गन्धादिभिरथाभ्यर्च्य हृदयादीन्यसेत्क्रमात्
समिदाज्य चरून् लाजान् मुद्गमाषतिलांस्तथा ॥ ३१ ॥
प्रत्येकं शतमर्द्धं वा द्रव्यं प्रतिविशेषतः
देव्यग्निञ्च प्रधाने तु कल्पयेद्देशिकोत्तमः ॥ ३२ ॥
तदग्निं सर्वकुण्डेषु निक्षिपेत्प्रणवेन तु
अग्न्याधानादिकं कृत्वा द्रव्यहोमं समारभेत् ॥ ३३ ॥
मूलेन हृदयाद्यस्तु समिदादींश्च होमयेत्
देवीगायत्रिमन्त्रेण पूर्णाहुतिमथाचरेत् ॥ ३४ ॥
तत्तन्मन्त्रेण संस्पृश्य होमान्ते व्याहृतिं क्रमात्
एवं रात्रौ तु कर्तव्यं प्रभाते सुमुहूर्तके ॥ ३५ ॥
देवीमुत्थाप्य यत्नेन स्नानवेद्योपरिन्यसेत्
व्यपोह्य वस्त्रकूर्चन्तु कल्पयेदासनं पुनः ॥ ३६ ॥
नवशक्तिसमोपेतमशेषाग्निविनिर्गतम्
[[५७८]]
गन्धाद्यैरासनं चाब्जं पूजयेद्देशिकोत्तमः ॥ ३७ ॥
ब्रह्मैरङ्गैस्सकीलन्तु बिम्बन्न्यस्त्वा क्रमेण तु
पञ्चमस्य तृतीयन्तु मायानलसमन्वितम् ॥ ३८ ॥
चतुर्दशेन सम्भिन्नं बिन्दुनादसमायुतम्
मूलमन्त्रमिदं प्रोक्तं तस्मात् ब्रह्माङ्गकल्पनात् ॥ ३९ ॥
सिंहध्वजा चैत्रैव विद्महेति परं पदम्
ततो वै चक्रहस्ताय धीमही तत्परं पदम् ॥ ४० ॥
तन्नोदुर्गा युते चैव तथा चैव प्रचोदयेत्
गायत्र्यासहितं मूलं ब्रंहैरङ्गैस्सुयोजयेत् ॥ ४१ ॥
सम्यक्सम्भाव्यते देवी प्रतिष्ठां कारयेत् गुरुः
देशिकं पूजयेत्तत्र वस्त्रैराभरणैस्तथा ॥ ४२ ॥
दक्षिणाञ्च ततो देयं सुवर्णां शास्त्रचोदितम्
मूर्तिपान्पूजयेत्तत्र दैवज्ञं पूजयेत्ततः ॥ ४३ ॥
पर्यष्ठं परिचाराणां भक्तानाञ्चैव दापयेत्
वाद्यकं गायकञ्चैव नृत्तकं पूजयेत्ततः ॥ ४४ ॥
अत्रोपयोगद्रव्याणि आचार्यैश्चैव सङ्ग्रहेत्
भ्रमणोत्सवमन्त्रेण स्थापनं कुरु यत्नतः ॥ ४५ ॥
वस्त्रैराभरणैर्भूष्य नैवेद्यन्न प्रदापयेत्
एवं यः कुरुते मर्त्यः प्राप्नेति विजयं श्रियम् ॥ ४६ ॥
इति दुर्गा स्थापनविधिपटल अष्टनवतितमः