०९७ देवीमहोत्सवविधिपटलः

देवीमहोत्सवविधिपटलप्रारम्भः
सावित्री देवता माता चतुर्दिक्ष्वीशदेशके
त्रिशूलेन समायुक्तं देवता वाहनन्नयेत् ॥ १ ॥

सप्तविंशति ऋक्षं वाप्येकविंशति सङ्ख्यकम्
दिनन्निश्चित्य तत्पूर्वे द्ध्वजारोहणमाचरेत् ॥ २ ॥

यागशालां यथा पूर्वं योनिकुण्डसमन्विताम्
नवपञ्चैककुण्डन्तु चतुरश्रमथैशतः ॥ ३ ॥

स्थण्डिलं कारयेद्विद्वान् शाल्यक्षततिलान्वितम्
सर्षपञ्च यथामाषं रजनी चूर्णसंयुतम् ॥ ४ ॥

पूर्वादद्ध्यर्धमानेन रजनी क्षणिका भवेत्
तिलैश्च केसराणीह तिलतण्डुलनिर्मितम् ॥ ५ ॥

द्रोणद्वयसमापूर्णा तन्मद्ध्ये वर्द्धनीन्न्यसेत्
तस्यां मनोन्मनीन्न्यस्त्वा वामाद्याः परितो मताः ॥ ६ ॥

उमासरस्वतीदुर्गा सावित्री च उषा मता
पत्युषा शमनी चैवाप्युशनाष्टौ समीरिता ॥ ७ ॥

[[५७४]]

घटं वा करकं वापि गन्धाद्यैः प्राग्वदर्चयेत्
घृतेन वारिणा वापि पूजयेद्देशिकोत्तमः ॥ ८ ॥

घृतम्मधुतथानन्धपुष्पतोय तिलोदकम्
चन्दनोदकमिक्षोश्च सारं पुष्पोदकन्ततः ॥ ९ ॥

रत्नोदकं रजन्याभं पुष्पार्त्थं होममेव वा
पलाशोदुम्बरोत् भूतास्समिधः परिकीर्तिताः ॥ १० ॥

समिदाज्य चरून् लाजान्मधुक्षीरं क्रमात् भवेत्
मूलमन्त्राच्छतं प्रोक्तमर्द्धं वाङ्गैर्दशांशतः ॥ ११ ॥

प्रथमञ्जयरात्रन्तु द्वितीयं भारती दिनम्
तृतीयमजिताख्यञ्च चतुर्त्थं विजयात्मिकाम् ॥ १२ ॥

पञ्चमं वाक् भवं वाथ षष्ठं स्यात्पार्वती दिनम्
सप्तमी वाप्युमादेव्या दिनं सप्तदिनं मतम् ॥ १३ ॥

शुद्धान्नमुत्पलञ्चैव प्रथमेऽह्नि बलिं क्षिपेत्
मुद्गान्नं ल”ुकान्नञ्च द्वितीयेऽहनि दापयेत् ॥ १४ ॥

कृष्णमाषसमायुक्तं सगुलं क्षीरमिश्रितम्
तृतीये च बलिन्दद्यात्पूर्वादिक्रमयोगतः ॥ १५ ॥

शुद्धान्नं घृतसम्मिश्रं चतुर्त्थेह्नि बलिं क्षिपेत्
निष्पावान्नं बलिन्दद्यात् पञ्चमेऽह्नि विशेषतः ॥ १६ ॥

महामुद्गान्नकं दद्यात् षष्ठेऽह्नि बलितो नरः
दद्ध्यन्नं सप्तमे दद्यात् घृतेन सहदेशिकः ॥ १७ ॥

तीर्त्थेऽह्नि पूर्वरात्रौ तु कलशान्नवविन्न्यसेत्
आज्यार्घ्यान्तन्तथा पाद्यं ततश्चाचमनं भवेत् ॥ १८ ॥

गोमूत्रं गोमयं क्षीरं दधिमधुचतेषु वै
कौतुकं बन्धयित्वा तु रात्र्यन्ते तीर्त्थमाचरेत् ॥ १९ ॥

चूर्णोत्सवं महातीर्त्थं पूर्ववत्परिकल्पयेत्
प्राग्वदन्न्यत्समुद्दिष्टं महोत्सवविधिं प्रति ॥ २० ॥

[[५७५]]

अनुक्तमन्यतो ग्राह्यमन्यत्पूर्वोक्तवन्नयेत्
देवाङ्गभूते देवी चेत्पूर्ववत्सर्वमाचरेत् ॥ २१ ॥

इति देवी महोत्सवविधिपटलस्सप्तनवतितमः