देवीनित्योत्सवविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेन नित्योत्सवविधिक्रमम्
सर्वयज्ञतपोदानं सर्वदानफलप्रदम् ॥ १ ॥
भुक्तिदम्मुक्तिदन्दिव्यमायुरारोग्य वर्द्धनम्
नित्योत्सवविहीने तु शक्त्युत्सवं विवर्जयेत् ॥ २ ॥
नित्योत्सवन्ततः कुर्यादन्नलिङ्गसमन्वितम्
अष्टादशाङ्गुलोत्सेधं मूलनाहन्तथा भवेत् ॥ ३ ॥
चतुरङ्गुलमग्रं स्यात् मूलनाहन्तथा भवेत्
[[५७३]]
चतुरङ्गुलमग्रं स्याच्चतुरश्राष्ट
वृत्तकम् ॥ ४ ॥
पयोदधि घृतोपेतं फलमिश्रमथापि वा
तस्मिन्मनोन्मनीं पूज्य शङ्खचक्रसमन्विताम् ॥ ५ ॥
शूलास्त्रेण समायुक्तां वरदाभय पाणिनीम्
उमाद्यादेवताञ्चैव सर्वदुःखनिवारणीम् ॥ ६ ॥
देवीं बिम्बसमोपेतां लिङ्गमात्रमथापि वा
पुष्पान्नतण्डुलैर्न्नित्यं त्रिकालेषु यथा क्रमम् ॥ ७ ॥
तदग्रे शुद्धनृत्तं स्यादेवं प्रत्यहमाचरेत्
एवं यः कुरुते मर्त्यः सोक्षयं फलमश्नुते ॥ ८ ॥
इति देवीनित्योत्सवविधिपटलष्षण्णवतितमः