प्रतिसरबन्धविधिपटलप्रारम्भः
अतः प्रतिसरस्यैव विधिं वक्ष्ये प्रजापते
उत्सवे च प्रतिष्ठायामष्टबन्धनकर्मणि ॥ १ ॥
दीक्षायां प्रोक्षणे चैव स्नपनादिषु कर्मसु
अन्यस्मिन् मङ्गले कार्ये कौतुकं बन्धयेत् बुधः ॥ २ ॥
शिवाग्रे स्थण्डिलं कृत्वा चतुरश्रन्तु मण्डलम्
[[५७२]]
ब्रह्मजज्ञानमन्त्रेण याम्ये नाग्रे सुपर्णकाः ॥ ३ ॥
आप्यायस्वेति सौम्ये तु पूर्वाग्रं लिख्यते क्रमात्
उत्तराग्रं विलिख्याथ सद्योरुद्रेति मन्त्रतः ॥ ४ ॥
इदं विष्णुं पश्चिमे च पूर्वे चैन्द्रे यथा क्रमम्
मद्ध्ये वरुणकुम्भन्तु सौम्ये प्रतिसरन्तथा ॥ ५ ॥
गायत्रीञ्च समावाह्य वेदादीन् प्रजपेत्ततः
अग्नेयशस्विन् कृणुष्व ब्रह्मसूक्तं त्रियक्षरीम् ॥ ६ ॥
श्रीसूक्तञ्चैव पुंसूक्तं पञ्च ब्रह्ममनुस्मरन्
सूत्रे च वासुकीन्ध्यात्वा धूपदीपञ्च दापयेत् ॥ ७ ॥
पुंसां दक्षिणहस्ते तु स्त्रीणां वामकरे तथा
लिङ्गे चैव विशेषेण पीठनालकयोरपि ॥ ८ ॥
वृषस्य श्रृङ्गयोश्चैव रक्षां कृत्वा विचक्षणः
परमान्नमपूपञ्च ताम्बूलञ्च प्रदापयेत् ॥ ९ ॥
एवं कृत्वा तु विधिना रक्षासूत्रन्तु कारयेत्
तस्याग्रे तु विशेषेण अभीष्टं प्रार्त्थयेद्गुरुः ॥ १० ॥
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ११ ॥
इति प्रतिसरबन्धविधिपटलपञ्चनवतितमः