गौरीधर्मविधिपटलप्रारम्भः
गौरीधर्ममहं वक्ष्ये श्रुणुष्वेव प्रजापते
गौरीधर्मं तदन्ते स्युर्महालीला महोदया ॥ १ ॥
स्नानार्त्थमामलक्यादेः स्नानं वस्त्रैरलङ्कृतिः
व्यजनं दर्पणं गन्धं पुष्पं भोजनमेव च ॥ २ ॥
कन्यानाञ्च तथैवस्युर्दर्शनाद्यं विशेषतः
तासाञ्च दर्शनं नित्यं ब्रांहणानां विशेषतः ॥ ३ ॥
अपूपदानं विप्राणाम् अबलानां फलं गुलम्
पयोदानञ्च बालानां व्रीहितण्डुलयोरपि ॥ ४ ॥
पशूनां तृणदानं यदुदकेन समन्वितम्
कवीनां पिष्टपिण्यङ्कं फलाद्योदनसंयुतम् ॥ ५ ॥
भोजनार्त्थम्महासत्रं प्रपापानीय संयुतम्
[[५७१]]
महासत्रञ्च शैवानां मृष्टान्नञ्च द्विजन्मनाम् ॥ ६ ॥
शय्याशाला च पानीयं चतुराश्रमधर्मिणाम्
उद्यानं देवतानान्तु बौद्धानां साहितस्य च ॥ ७ ॥
बालशिक्षा च तद्वृत्तिर्लेखकानाञ्च भोजनम्
कन्याविद्याप्रदानञ्च वेदवित् ब्रंहचारिणाम् ॥ ८ ॥
यतीनां क्षुन्निवृत्यर्त्थम् प्रत्यहञ्चान्नदानकम्
अनाधानां दर्रिद्राणामन्नपानमहर्निशम् ॥ ९ ॥
साङ्ख्यादिसर्वशास्त्रादि वृत्तिभोजनसंयुतम्
व्याख्यातॄणाञ्च शिष्याणां क्रमेण अरिकीर्तिता ॥ १० ॥
ऋणान्निर्गतिकानान्तु गर्भण्यारक्षणन्तथा
वन्ध्यानां पुत्रदानं यदा तुराश्रमरक्षणम् ॥ ११ ॥
तटाकाशिवकार्यादि वृत्तीनां भोजनं हितम्
वैद्याम्बष्ठसमोपेतमनेकौ षधसंयुतम् ॥ १२ ॥
वपनार्त्थं प्रकर्तव्या निवृत्ते वृत्तिकल्पना
बुधे च शनिवारे च तलैदानं विशेषतः ॥ १३ ॥
सोपधानञ्च शयनं प्रतिरात्रमपूर्विका
पक्वमुद्गकुलस्थाद्यं सपानीयं प्रकल्पयेत् ॥ १४ ॥
अश्वनोश्वगजाद्येषु विभवं परिकल्पयेत् ॥ १५ ॥
इति गौरीधर्मविधिपटलश्चतुर्नवतितमः