०९३ उमापूजाविधिपटलः

उमापूजाविधिपटलप्रारम्भः
उमापूजाविधातव्या सर्वकामार्त्थसाधिनी
कन्न्यकानां प्रदाने च देशिकस्य तु हस्तके ॥ १ ॥

ग्रहप्रवेशने वापि विजयार्त्थे च मण्डले
अन्यस्मिन्मङ्गले काले सम्पूज्यावरणेश्वरीम् ॥ २ ॥

गृहाणां योग्य देशे तु गोमयेनोपलेपिते
स्थण्डिलं कारयित्वाथाप्यासनं प्रणवं न्यसेत् ॥ ३ ॥

शोधितां पेषणीं पिष्ट – तासु च समन्विताम्
निधायाङ्कुरपात्राणि चतुष्कोणेषु बुद्धिमान् ॥ ४ ॥

ततो निधाय दीपांश्च स्थण्डिलं प्रोक्षयेद्धृदा
गन्धपुष्पादिनादेवीं भुवनाधिपतिं यजेत् ॥ ५ ॥

वस्त्राभ्यां वेष्टयेद्देवीं नवाभ्यां तामनुस्मरन्
आनीयालङ्कृतां कन्न्यां सर्वकर्मतया नयेत् ॥ ६ ॥

संस्थाप्य व्रीहिसम्पूर्णां मद्यप्रभृतिसंयुतम् ॥ ७ ॥

पुष्पाञ्जलिं पुराकृत्वा शूर्पे संस्थापयेदमून्

[[५७०]]

लवणं पूर्वदिग्भागे दक्षिणे शुक्लगोमयम् ॥ ८ ॥

रात्रिं पश्चिमदिग्भागे तण्डुलं सौम्यगोचरे
——– संस्थाप्यस्पर्शनं कारयेत्तदा ॥ ९ ॥

क्रमात्संस्थाप्य तद्धस्ते देव्यूर्ध्वे भ्रामयेत्त्रिधा
संस्थाप्य तानि तद्देशे स्वाङ्गं संस्पर्शयेत्त्रिधा ॥ १० ॥

गलङ्कर्णं स्तनं कुक्षिं संस्पृशेत् सर्वसिद्धये
एवं करोति यानारी पश्चात्पुत्रं धनं श्रियम् ॥ ११ ॥

मङ्गल्यं बुद्धिवृद्धिञ्च देव्यानुग्रहतो भवेत्
एषा क्रिया विधातव्या सर्वमङ्गलकर्मणि ॥ १२ ॥

एवं यः कारयेत्तस्यै वस्त्रद्वयसमन्विताम्
हेमाङ्गुलीयकोपेतां दक्षिणां दापयेत्तदा ॥ १३ ॥

आचार्यं पूजयेत्पश्चाद्यथाशास्त्रानुसारतः ॥ १४ ॥

इति उमापूजाविधिपटलस्त्रिनवतितमः