०९२ देवी नित्यार्चनाविधिपटलः

देवी नित्यार्चनाविधिपटलप्रारम्भः
देव्यानित्यार्चनं वक्ष्ये श्रुणुष्वेह प्रजापते
शौचमाचमनं स्नानं सन्ध्योपस्थानतर्पणम् ॥ १ ॥

प्रागुक्तविधिना कृत्वा प्रविशेदालयं प्रति
प्रक्षालिताङ्घ्रिहस्तस्तु समाचम्य विधानतः ॥ २ ॥

सकली कृतदेहस्तु सामान्यार्घ्यं प्रकल्पयेत्

[[५६६]]

द्वारन्तदम्भसा प्रोक्ष्य पूजयेत् द्वारपालिके ॥ ३ ॥

सर्वाभरणसम्पन्ने सर्वरत्नविभूषिते
ऊर्द्ध्वोदुम्बरमद्ध्यस्थां वाणीमभ्यर्च्य शाखयोः ॥ ४ ॥

गङ्गाञ्च यमुनां यद्वा देव्यस्त्रं देहली कृतम्
अथवा मविशालाक्षञ्जटिलामूर्ध्वगां यजेत् ॥ ५ ॥

समृद्धिञ्च धृतिन्दक्षे वामे शाखागते यजेत्
सरस्वती च गङ्गा च शुक्लवर्णनिभे मते ॥ ६ ॥

अन्याश्च श्यामलास्सर्वास्सर्वाभरणभूषिताः
खड्गखेटकधारिण्यो द्विभुजा वा चतुर्भुजाः ॥ ७ ॥

देवान् वा द्वारपालान्वा विमलञ्च सुबाहुकम्
कवाटयोस्समारभ्य प्रविशेद्दक्षवामयोः ॥ ८ ॥

वास्तोष्पतिञ्च सम्पूज्य स्वासनस्थमुदङ्मुखम्
शक्तिस्थं स्वं समायोज्य भूतशुद्धिञ्च पूर्ववत् ॥ ९ ॥

सन्धासम्पावनञ्चात्मा वाहनञ्चा मृती कृतिम्
करन्यासञ्च तैर्मन्त्रैर्देहन्यासञ्च कारयेत् ॥ १० ॥

अष्टत्रंशत् कलान्यासं प्रणवेन समन्वितम्
पञ्चमूर्द्धास्य युक्देशं पूजायां सम्प्रकल्पयेत् ॥ ११ ॥

एकत्रिंशत्कलान्यासमेकोस्ये परिकल्पयेत्
शशिन्यादय एवोक्ताः केवलायाः कला इति ॥ १२ ॥

अथवा शिवमन्त्रैस्तु शैवमापाद्य विग्रहम्
देविस्कन्दगणेशादीन् सर्वान्सम्पूजयेत्तु वा ॥ १३ ॥

सकली कृतदेहस्सन्नन्तर्यागं समाचरेत्
हृदयेर्चाविधानन्तु नाभौ होमं प्रकल्पयेत् ॥ १४ ॥

ललाटे चेश्वरीं ध्यायेत् वरदां सर्वतो मुखीम्
स्थानशुद्धिं ततः कृत्वा विशेषार्घ्यञ्च कल्पयेत् ॥ १५ ॥

गन्धपुष्पाक्षतोपेतं द्रव्याभरणकं हृदा

[[५६७]]

संशोद्ध्यात्मानमभ्यर्च्य मन्त्रशुद्धिं समाचरेत् ॥ १६ ॥

बेरशुद्धिं ततः कुर्यात् पूजापर्युषितामपि
गणाम्बिकायविद्महे महातपायधीमहि ॥ १७ ॥

इत्युक्त्वादौ तदन्ते तु तन्नोदेवी प्रचोदयात्
इति मन्त्रं समुच्चार्य देव्यै तस्यै निवेदयेत् ॥ १८ ॥

देव्यै निर्माल्य धारिण्यै त्यजित्वा पूजकोत्तमः
देव्यस्त्रमुच्चरन्मन्त्री बेरशुद्धिं विधाय च ॥ १९ ॥

बेरञ्च लोहजं कुर्यात् स्नानं पर्वणिपर्वणि
सुधा चित्रादिजञ्चेत्तु कर्मचाशुद्धिरिष्यते ॥ २० ॥

अथवास्त्राणुनालब्ध लीलाबृन्दजवायुना
अथवोपलमूर्तिश्चेत् क्षालनं तत्र कीर्तयेत् ॥ २१ ॥

तत्रैवाम्लानमालाभ्यां निर्वाणन्न च दीपिकम्
प्रत्यङ्गञ्चार्चनन्तेष्टं किञ्चैवं वत्सरात्मकम् ॥ २२ ॥

कल्पयेदासनं मद्ध्यशक्तिमाधाररूपिणीम्
अर्घ्यपात्रं समुत्क्षिप्त्वाप्यादौ पाद्यं हृदा नयेत् ॥ २३ ॥

वक्त्रे चाचमनन्दद्यादर्घ्यमानमतन्त्रतः
पाद्यन्तु पूर्ववद्वापि पृष्ठे कृत्वा निवेदयेत् ॥ २४ ॥

गन्धपुष्पसमोपेतं धूपन्दद्याद्धृदाणुना
पञ्चामृतादियुक्तं वा वियुक्तं स्नानमाचरेत् ॥ २५ ॥

उन्मुच्य वाससा पश्चात् वाससा परिवेष्टयेत्
गुह्येनाचमनन्दत्वा गन्धपुष्पसुधूपयुक् ॥ २६ ॥

दीपम्मूलाणुना दत्वा नैवेद्यं वाथ पूर्ववत्
गणविद्येशलोकेश तदस्त्रान्परितोऽर्चयेत् ॥ २७ ॥

एकद्वित्रिचतुर्भिर्वा वरणैस्तां समर्चयेत्
पुनर्धूपञ्च दीपञ्च मन्त्रगानाद्यमेव च ॥ २८ ॥

नैवेद्यबलिहोमांश्च कृत्वा नित्योत्सवन्नयेत्

[[५६८]]

देवी तदर्द्धा कर्तव्या चैकवस्त्रा चतुर्भुजा ॥ २९ ॥

प्रसार्याभयहस्ता च शङ्खचक्रकरा परा
पद्मासनस्था तस्यान्तु यजेद्देवीम्मनोन्मनीम् ॥ ३० ॥

पुष्पान्नाक्षतलिङ्गेषु – पूजामुषां यजेत्
पूर्वोक्तविधिना कृत्वा प्रासादस्य प्रदक्षिणम् ॥ ३१ ॥

पादुकार्चनयुक्तं वा प्रविशेदालयं प्रति
नित्योत्सवाय बेराणि कल्पिताय बहूनि चेत् ॥ ३२ ॥

तदर्द्धं कल्पयेत्तेषु यथोक्तं बेरमुत्तमम्
एककालं द्विकालं वा त्रिचतुः पञ्चकालकम् ॥ ३३ ॥

षट्सप्तवसुकालं वा अभिषिच्यार्चयेच्छिवाम्
नित्यार्चनासमुद्दिष्टा सर्वाभीष्टफलप्रदा ॥ ३४ ॥

उत्सवं स्नपनञ्चैव दमनारोहणक्रिया
पवित्रा रोहणं सम्यक् कृत्तिका दीपमेव च ॥ ३५ ॥

संवत्सराद्युत्सवञ्च वसन्ताख्यं तदुत्सवम्
माहोत्सवं तथा मासे नवनैवेद्य कर्म च ॥ ३६ ॥

विशेषात्पूर्वकर्मापि प्रायश्चित्तं द्विजोत्तम
जीर्णानामुद्धृतञ्चान्यत्पूर्ववत्परिकल्पयेत् ॥ ३७ ॥

किन्तूत्सवध्वजं सिंहं वृषभं वा समालिखेत्
पूर्वफल्गुननक्षत्रे तीर्त्थकर्मविशेषतः ॥ ३८ ॥

शिवोत्सवे च देव्यास्तु प्रत्यहञ्चोत्सवो मतः
ध्वजहोमबलिं हित्वा केवलं यानमेव वा ॥ ३९ ॥

चक्रं वास्त्रत्रिशूलं वा देव्यस्त्रं परिगृह्यताम्
उत्सवप्रतिमाकार्या पूर्वलक्षणलक्षिता ॥ ४० ॥

कृतदेव्यास्तु तत् ग्रामात् निर्गमो नहि सम्मतः
तत्रैव जलदानं स्यात्तत्रावश्यं हि यानकम् ॥ ४१ ॥

अन्यत्रापि च यानं वा धाम्निसर्वन्तु वामतः

[[५६९]]

एकादिशालसंयुक्ते बहिः श्रेष्ठं प्रकीर्तितम् ॥ ४२ ॥

सर्वदेवेषु सामान्यं विधानमिदमग्रज
धाम्निमूर्द्धेष्टका स्थूपी स्थापनं पूर्ववन्नयेत् ॥ ४३ ॥

दिग्देवमूर्तिसंयुक्तं मद्ध्यकुम्भसमन्वितम्
धामसंस्थापनं कुर्यात् प्रागुक्तविधिना सह ॥ ४४ ॥

अस्याः प्रतिष्ठा सर्वत्र बालस्थानान्विता न वा
देव्यनुग्रहतस्सार्वभौमत्वं नृपतिर्भवेत् ॥ ४५ ॥

भवेदेवाग्रतः कार्यः स्वभिषेको नृपस्य तु
इत्येवं कथितं सम्यक् देव्यास्संस्थापनादिकम् ॥ ४६ ॥

इति देवीनित्यार्चनाविधिपटलो द्विनवतितमः