गौरीस्नपनविधिपटलप्रारम्भः
अतः परं प्रवक्ष्यामि गौर्याः स्नपनमुत्तमम्
प्रागुक्तविधिना कुर्यान्नवधापूर्वकल्पनम् ॥ १ ॥
किन्तु मद्ध्ये तु करकं सर्वलक्षणसंयुतम्
पाद्यमाचमनञ्चार्घ्यं गोमूत्रं गोमयं पयः ॥ २ ॥
दद्ध्याज्यमष्टकञ्चैव नवकुम्भप्रकल्पने
चन्दनं कुङ्कुमं कुष्ठम् ॥ ३ ॥
हरिद्रा चूर्णसंयुक्तं स्नपनं षोडशात्मकम्
उपस्नानार्त्थकलशैरष्टभिश्चान्तरस्थितैः ॥ ४ ॥
कलशैर्वा घटैर्वापि नित्यनैमित्तिको मतः
[[५६५]]
उत्सवन्तु महादेव्याः प्रतिसंवत्सरं नयेत् ॥ ५ ॥
प्रागुक्तविधिना सर्वं कारयेद्देशिकोत्तमः
ध्वजं वै पूर्ववत्कुर्यात् वृषभं सिह्ममेव च ॥ ६ ॥
तीक्ष्णश्रृङ्गाय विद्महे वेदपादाय धीमहि
तन्नो वृषः प्रचोदयात् ॥ ७ ॥
चतुर्वेदाय विद्महे समपिण्डाय धीमहि
तन्नो वृषः प्रचोदयात् ॥ ८ ॥
गायत्री चैव सावित्री वृषस्य समुदास्मृते
गन्धाद्यैरर्चनोक्ताभ्यां होमं कुर्याच्चतुर्दिशि ॥ ९ ॥
अथवा पूर्वदिग्भागे होममेवं समाचरेत्
मद्ध्यमे वृषकुम्भं स्यात्कलशास्स्युस्समन्ततः ॥ १० ॥
ईशानात् सोममन्यत्र यानं वा धाम्निवामतः
एकादिशालसंयुक्ते बहिश्रेष्ठं प्रकीर्तितम् ॥ ११ ॥
सर्वदेवेषु सामान्यं विधानमिदमग्रज
धाम्निमूर्द्धेष्टिका स्थूपि स्थापनं पूर्ववन्नयेत् ॥ १२ ॥
दिग्देवमूर्तिसंयुक्तं मद्ध्यकुम्भसमन्वितम्
धामसंस्थापनं कुर्यात्प्रागुक्तविधिना सह ॥ १३ ॥
अस्याः प्रतिष्ठा सर्वत्र बाल ॥ १४ ॥
इति गौरीस्नपनविधिपटल एकनवतितमः