०९० गौर्यर्चनाविधिपटलः

गौर्यर्चनाविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि गौरीणामर्चनन्तथा
गौरी चैव मनोन्मन्न्याभवानीत्रिविधं भवेत् ॥ १ ॥

द्विनेत्राद्विभुजाश्यामा गौरी दक्षिकरोत्पला
करण्डमकुटोपेता सर्वाभरणभूषिता ॥ २ ॥

श्यामाद्विनेत्रा द्विभुजा त्रिभङ्गी सव्यापसव्यस्थितकुञ्चिताङ्घ्रिः ।
सव्योत्पलासा स्तनोच्चाहस्तावलम्बा परमेश्वरी सा ॥ ३ ॥

शम्भुशक्तिसमभागमुच्यतेत वक्त्रे प्रकृतिञ्च स्वस्तिकः ।

[[५६१]]

लम्बमेवकरदक्षिणोपलं मनुसारवक्त्रकः ॥ ४ ॥

कल्याणदायिभवतोस्तुपिनाकपाणिः पाणिग्रहे
भुजगकङ्कणभूषितायाः ।
साञ्छाद्य दृष्टिसहसैव नमश्शिवायेत्यर्द्धोक्तिलज्जामुखमम्बिकायाः ॥ ५ ॥

गौरीलक्षणमेवोक्तं मनोन्मन्याकृतिं श्रुणु
शशिवर्णं त्रिणेत्रञ्च जटामकुटमण्डितम् ॥ ६ ॥

सर्वाभरणसम्पूर्णं चतुर्भुजसमन्वितम्
पङ्कजाभयदक्षे तु वरदोत्पलं वामके ॥ ७ ॥

अथवा कटकं वापि द्विहस्तं वा विशेषतः
उत्पलं सव्यहस्ते तु वामहस्तं प्रलम्बयेत् ॥ ८ ॥

इन्दुशेखरसंयुक्तं नक्रकुण्डलधारिणम्
वालिकाकर्णपुष्पेण शोभनाम्बरभूषितम् ॥ ९ ॥

कुन्दनिभवेदकर वह्निनयनं स्यात् पङ्कजवराभय करोत्पलचतुष्कम्

अङ्गहिमभूषणविचित्रनयनं स्यात् तुङ्गमकुटोज्वलमनोन्मनिस्वरूपम्

[[१]]
मनोन्मन्याकृतिः प्रोक्ता भवानी लक्षणं श्रुणु १०-॥ २ ॥

शङ्खनिभमङ्गवरुणं वृषयास्य पङ्कजवृषस्य करतुङ्गहस्तम् ।
अङ्घ्रितलकृष्णभुजनेत्रमिति धूम्रं भारती भवानि रूपम् ११-॥ २ ॥

योगं भोगञ्च वीरञ्च शक्तिरेव त्रिधा भवेत् ॥ १२ ॥

योगं पीठसमायुक्तं भोगं वामसमन्वितम्
वीरं स्वतन्त्रमित्युक्तं शक्तिरेवं त्रिधाभवेत् ॥ १३ ॥

शक्तिलक्षणमेवोक्तं द्वारपूजा विधिं श्रुणु
द्विभुजां च द्विनेत्रां च पीतवर्णसुयौवनाम् ॥ १४ ॥

एकवक्त्रसमायुक्तां कृताञ्जलिपुटान्विताम्
करण्डमकुटोपेतां भूमिदेवीं सलक्षणाम् ॥ १५ ॥

[[५६२]]

द्वाराग्रे तु तथापूज्य द्वारपूजां समाचरेत्
द्वारदक्षिणपार्श्वे तु गङ्गाया अर्चनन्तथा ॥ १६ ॥

योगिनी तस्य वामे तु अर्चयित्वा विधीयते
द्वारस्य वामपार्श्वे तु यमुनायार्चनन्तथा ॥ १७ ॥

डाकिनी तस्य सव्ये तु अर्चयेत्तु क्रमेण तु
ऊर्ध्वोदुम्बरमद्ध्ये तु महालक्ष्मीं प्रपूजयेत् ॥ १८ ॥

तस्य दक्षिणपार्श्वे तु नर्मदायास्तु चार्चनम्
सरस्वतीं वामपार्श्वे पतङ्गोपरिपूजयेत् ॥ १९ ॥

दक्षिणे तु कवाटस्य सिन्धूमपिसुपूजयेत्
कवाटवामे सम्पूज्य गोदावरीं तथैव च ॥ २० ॥

भुजङ्गस्याथ मद्ध्ये तु कावेरीं सम्प्रपूजयेत्
तस्याग्रे वृषभं पूज्य अस्त्रदेवं समर्चयेत् ॥ २१ ॥

द्वारपूजाविधिः प्रोक्तः गौर्यार्चनविशेषतः
गर्भगेहं प्रविश्याथ निर्माल्यन्तु विसर्जयेत् ॥ २२ ॥

चण्डेश्वरीं समभ्यर्च्य पूर्वपूजां समाचरेत्
गौरीं संस्नापयेत् धीमान् सर्वं विध्युक्तमाचरेत् ॥ २३ ॥

साङ्गोपाङ्गञ्च प्रत्यङ्गं पूजयेत्त्रिविधं स्मृतम्
स्नानतोयञ्च पाद्यञ्च तथाचाचमनीयकम् ॥ २४ ॥

सस्त्रमाभरणञ्चैव सुगन्धं लेपनन्तथा
अर्घ्यञ्च गन्धपुष्पञ्च साङ्गमेवं प्रकीर्तितम् ॥ २५ ॥

आरात्रिं धूपदीपं च नृत्तगेयसमन्वितम्
शङ्खध्वनियुतं वाद्यम् उपाङ्गञ्च प्रकीर्तितम् ॥ २६ ॥

नैवेद्यं बलिदानञ्च दधिताम्बूलमेव च
होमकर्मजपञ्चैव प्रत्यङ्गमिति चोच्यते ॥ २७ ॥

निष्कलं शैलजं गर्तं सकलं भाव्यरूपकम्
भाव्यरूपेण सम्बन्धं लोहजानां शिलान्वितम् ॥ २८ ॥

[[५६३]]

वामां पूर्वे तु सम्पूज्य ज्येष्ठां पूज्याथ पावके
रौद्रीञ्च दक्षिणे पूज्य कालिनीं निर्ऋतिदेशके ॥ २९ ॥

कलविकरणीं पश्चिमायां बलविकरणीन्तु मारुते
बलप्रमथिनीं सौम्ये सर्वभूतदमनीमीशके ॥ ३० ॥

मद्ध्ये मनोन्मनीं पूज्य ओङ्कारादि नमोन्तकम्
तत्तत्स्वनाममन्त्रेण प्रथमावरणन्न्यसेत् ॥ ३१ ॥

ब्रांहीं पूर्वे तु सम्पूज्य माहेश्वरीमग्निगोचरे
कौमारीं दक्षिणेभ्यर्च्य राक्षसे वैष्णवीन्तथा ॥ ३२ ॥

वाराहीं पश्चिमे पूज्य इन्द्राणीं मारुते न्यसेत्
चामुण्डीं सौम्यदिग्भागे दुर्गामीशानगोचरे ॥ ३३ ॥

वीरभद्रञ्च विघ्नेशम् ऐशान्न्ये नैर्ऋते यजेत्
वृषभं पूर्वतः स्थाप्य गणेशमग्निगोचरे ॥ ३४ ॥

स्कन्दादीन् दक्षिणे पूज्य शास्तारं नैर्ऋते यजेत्
शनैश्चरं पश्चिमे पूज्य वायव्यां वीरमेव च ॥ ३५ ॥

क्षेत्रपालन्तु सौम्ययामैशान्यां भास्करं यजेत्
कृतीया वरणं प्रोक्तं बलिदानमिहोच्यते ॥ ३६ ॥

जृम्भिनीं पूर्वदिग्भागे स्तम्भिनीमग्निगोचरे
शान्तिमोहिनिदाक्षिण्ये हेतिनीं नैर्ऋते तथा ॥ ३७ ॥

रागिणीं वारुणीं पार्श्वे मारुतौ भद्रकामिनीम्
दुर्गान्तु सौम्यदिग्भागे चैशे चण्डेश्वरीं यजेत् ॥ ३८ ॥

बलिपीठन्तदाग्रे तु सर्वशक्तिमयन्तथा
आकाशमातरं पूर्वे दक्षिणे भूतमातरम् ॥ ३९ ॥

लोकमातरञ्च पाश्चात्ये सौम्म्ये च देवमातरम्
अनुक्तमातरं तूर्ध्वे चाग्रपीठे बलिन्ददेत् ॥ ४० ॥

वृषादिबलिपीठान्तं बलिदेव्यः प्रकीर्तिताः
प्रातर्मद्ध्याह्नकाले तु प्रदोषे चैवमाचरेत् ॥ ४१ ॥

[[५६४]]

सर्वपूजाविहीने तु बलिदानस्य तृप्तये
बलिन्तत्रप्रकुर्वीत यथोक्तं सम्यगाचरेत् ॥ ४२ ॥

बलिहीनं यजेद्यत्र तत् ग्रामे सर्वनाशनम्
अतः कुर्यात् प्रयत्नेन बलिं सर्वस्य तृप्तये ॥ ४३ ॥

अभावे बलिदाने तु नृपग्रामक्षयं भवेत्
बलिहीने समभ्यर्च्य निष्फलं सम्प्रकीर्तितम् ॥ ४४ ॥

मन्त्रान्सर्वप्रयत्नेन बलिदानञ्च बुद्धिमान्
अतः कुर्वीतमतिमान्बलिदेवादितृप्तये ॥ ४५ ॥

बलिरादौ प्रकर्तव्या सकलासु क्रियासु च
अन्यथा कुरुते यस्तु पैशाचांशन्निगद्यते ॥ ४६ ॥

करणीयं विशेषेण बलिं सर्वत्र दापयेत्
आयुष्यं बलदं पुंसां यशो वृद्धिकरं परम् ॥ ४७ ॥

सर्वपापप्रशमनं सर्वसौभाग्यदायकम्
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमप्नुयात् ॥ ४८ ॥

इति गौर्यर्चनाविधिपटलनवतितमः