गौरीस्थापनविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण गौरी स्थापनमुत्तमम्
केवलं सहजं पौष्ण्यं त्रिविधन्तु विधीयते ॥ १ ॥
केवलं त्वितिविख्यातं स्थापनं शम्भुना विना
भवानी सहितं देवं स्थापनं सहजं भवेत् ॥ २ ॥
प्रागेवस्थाप्य देवन्तु भवानी स्थापनं पुनः
यत्तत्पौष्ण्यमिति ख्यातम् एवन्तु त्रिविधं स्मृतम् ॥ ३ ॥
कुर्यात्पौष्ण्यस्य क्ल्याणन्न चान्न्यस्य प्रजापते
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने ॥ ४ ॥
शुभवारादिभिर्युक्ते प्रतिष्ठां सम्यगाचरेत्
प्रतिष्ठादिनपूर्वे तु सप्ताहे वाथ पञ्चमे ॥ ५ ॥
अङ्कुराण्यर्पयेद्धीमान् पूर्वोक्तविधिना सह
रत्नन्न्यासन्ततः कुर्यान्मण्टपे समलङ्कृते ॥ ६ ॥
स्थण्डिलं शालिभिः कुर्यात् तिलदर्भैः परिस्तरेत्
तन्मद्ध्ये विन्न्यसेत्पीठन्नवकोष्ठसमायुतम् ॥ ७ ॥
इन्द्रनीलन्न्यसेदैन्द्रे वैडूर्यं वह्निगोचरे
याम्यायान्तु महानीलं मुक्तान्निर्ऋतिगोचरे ॥ ८ ॥
वारुणे स्फटिकञ्चैव वायव्ये पुष्यरागकम्
प्रवालं सौम्यदेशे तु वज्रमीशानगोचरे ॥ ९ ॥
माणिक्कम्मद्ध्यमे न्न्यस्त्वा दिक्पालानान्तु बीजकैः
प्रतिमान्तत्र विन्न्यस्य सुस्निग्धं कारयेत्ततः ॥ १० ॥
[[५५६]]
नेत्रद्वययुतर्क्षे तु नेत्रमोक्षणमारभेत्
मण्टपे स्थण्डिलं कृत्वा अष्टद्रोणैश्च शालिभिः ॥ ११ ॥
तन्मद्ध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम्
तरङ्गवेष्टनं कृत्वा बेरन्तु प्राङ्मुखं कुरु ॥ १२ ॥
हेमसूचिप्रहाराभ्यां पक्ष्मरेखां समालिखेत्
असितं मण्डलं लिख्य दृष्टिमण्डलमालिखेत् ॥ १३ ॥
ज्योतिर्मण्डलकं पश्चात् नेत्रमुच्चार्य लेखयेत्
नेत्रहेमाङ्गुलीभिश्च सम्पूज्याद्वास्यशिल्पिनम् ॥ १४ ॥
हिरण्यदूर्वया विद्वान् मद्ध्वाज्याभ्यान्तु तर्पयेत्
सौवर्णमुत्तमं पात्रं ताम्रपात्रन्तु मद्ध्यमम् ॥ १५ ॥
मृण्मयञ्चाधमं पात्रं प्रस्थेनैव तु पूरितम्
मद्ध्वाज्याभ्यां प्रपूर्याथ तत्सूत्राभ्यां प्रदर्शयेत् ॥ १६ ॥
धेनुं गौर्द्धेनुहव्येति ब्रह्मसूक्तेति भूसुरान्
प्रच्छन्नपटमावर्ज्य जनसङ्घान् प्रदर्शयेत् ॥ १७ ॥
पञ्चमृत्पञ्चगव्यैश्च स्नापयेत्पुरुषेण तु
शुद्धतोयेन संस्नाप्य गन्धादिभिर्यजेद्धृदा ॥ १८ ॥
वस्त्राभरणमालाभिर्देवीं सभूषयेत्ततः
ग्रामप्रदक्षिणं कुर्यात् सर्वालङ्कारसंयुताम् ॥ १९ ॥
ततो जलाशयं प्राप्य तीरे समतलं कुरु
स्थण्डिलं कारयेत्तत्र गौरीमन्त्रोपरिन्यसेत् ॥ २० ॥
नववस्त्रेण संवेष्ट्य लम्बकूर्चसमन्वितम्
कण्ठदघ्ने जले चैव प्रपां कृत्वातिसुन्दरान् ॥ २१ ॥
चतुर्गौत्रसमायुक्तां दर्भमाला विभूषिताम्
प्रतिमां शाययेन्मद्ध्ये प्राक् च्छिरश्चोर्द्ध्ववक्त्रकाम् ॥ २२ ॥
अभितः कलशानष्टौ ससूत्रान् सापिधानकान्
गन्धोदकसमायुक्तान् सवस्त्रान्कूर्चसंयुतान् ॥ २३ ॥
[[५५७]]
स्थापयित्वा क्रमेणैव लोकपालान् समर्चयेत्
एकरात्रं द्विरात्रं वा त्रिरात्रं वा जलोषितम् ॥ २४ ॥
प्रासादस्याग्रतः कुर्यात् मण्टपञ्चतुरश्रकम्
द्वादशन्दशहस्तं वा नवहस्ताष्टहस्तकम् ॥ २५ ॥
विकारस्तम्भसंयुक्तं श्रुतिद्वारसमायुतम्
मण्टपन्तु त्रिधा कृत्वा मद्ध्यभागे तु वेदिका ॥ २६ ॥
रत्निमात्रसमुत्सेधा दर्पणोदरसन्निभा
कुण्डानि परितः कुर्यात् दिक् विदिक्ष्वष्टदिक्षु च ॥ २७ ॥
योन्याकाराणि कुण्डानि महाशासु प्रकल्पयेत्
कोणेषु बिसिनी कुण्डं कल्पयेत्तु विचक्षणः ॥ २८ ॥
कुण्डं हस्तप्रविस्तारं संयुक्तं मेखलैस्त्रिभिः
युगाश्रायतनञ्चेत्तु अब्जकुण्डानि वर्जयेत् ॥ २९ ॥
प्रधानाग्न्यन्तु पूर्वोक्तमार्गं सङ्कल्प्य तत्र तु
मण्टपस्योत्तरे पार्श्वे स्नानश्वभ्रन्ततः कुरु ॥ ३० ॥
गोमयालेपनं कृत्वा कुर्याच्छिल्पिविसर्जनम्
मण्टपं भूषयेत्पश्चाद्वसुदिक्षुद्ध्वजान्वितम् ॥ ३१ ॥
वितानदर्भमालाभिस्संयुक्तञ्चाष्टमङ्गलैः
नालिकेरफलैश्चैव मुक्तादामैः प्रलम्बितम् ॥ ३२ ॥
गात्रवेष्टनसंयुक्तं युगतोरणभूषितम्
भूसुरान् भोजयेत्तत्र उच्छिष्टोद्वासनं कुरु ॥ ३३ ॥
गोमयालेपनं कृत्वा यागमण्टपशुद्धये
पञ्चगव्येन सम्प्रोक्ष्य पूर्वे वा पश्चिमे तथा ॥ ३४ ॥
वास्तुहोमन्ततः कृत्वा पर्यग्निकरणं कुरु
पुण्याहं वाचयित्वाथ अष्टद्रोणैश्च शालिभिः ॥ ३५ ॥
वेद्यूर्द्ध्वे स्थण्डिलं कुर्यात्तदर्द्धैस्तण्डुलैरपि
तदर्द्धैस्तिलसंयुक्तं दर्भैः पुष्पैःपरिस्तरेत् ॥ ३६ ॥
[[५५८]]
तन्मद्ध्ये शयनं कल्प्य चर्मचाद्यैरनुक्रमात्
द्वारपूजादिकं सर्वं स्थापनक्रमवत्सुधीः ॥ ३७ ॥
जलादुत्तीर्यगौरीन्तु स्नानश्वभ्रोपरिन्न्यसेत्
वस्त्रकूर्चं विसृज्याथ पूर्ववच्छुद्धिमाचरेत् ॥ ३८ ॥
नवाम्बरेण सञ्छाद्य गन्धपुष्पादिभिर्हृदा
कौतुकं बन्धयेत्पश्चात् गौरी गायत्रिमन्त्रतः ॥ ३९ ॥
आरोप्य सुमुहूर्त्ते तु प्राक् च्छिरश्चोर्द्ध्ववक्त्रकाम्
शयने शाययेत् गौरीं रक्तवस्त्रेण वेष्टयेत् ॥ ४० ॥
देव्याश्च दक्षिणे भागे गौरी कुम्भन्तु विन्न्यसेत्
ससूत्रान् सापिधानाञ्च सवस्त्रान् कूर्चसंयुतान् ॥ ४१ ॥
हेमपङ्कजसंयुक्तान् द्रोणोदकसुपूरितान्
गौरी रूपन्ततो द्ध्यात्वा तद्रूपन्तु घटे न्यसेत् ॥ ४२ ॥
परितोष्टौ घटान्न्यस्त्वा सूत्रादिभिस्समन्वितान्
इन्द्रादिषु क्रमेणैव वामादिवसुशक्तिकाः ॥ ४३ ॥
स्वस्वबीजसमायुक्तन्न्यस्त्वा सम्पूजयेद्धृदा
मुकुलीपद्ममुद्राञ्च बिम्बमुद्रां प्रदर्शयेत् ॥ ४४ ॥
दिशास्वद्ध्ययनं कुर्यात्ततो होमं समाचरेत्
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ४५ ॥
कुण्डमद्ध्ये यजेद्देवीं रक्तपद्मोपरिस्थिताः
आषाढाश्वत्थ खदिरो वटाः पूर्वादिदिक्षु वै ॥ ४६ ॥
अौदुम्बरमपामार्गं शम्यर्कं पावकादिषु
पलाशन्तु प्रधानस्स्याज्जुहुयाद्देशिकोत्तमः ॥ ४७ ॥
समिधा जुहुयाद्धीमान् सद्योजातेन मन्त्रतः
गौरी गायत्रिमन्त्रेण घृतं हुत्वा विशेषतः ॥ ४८ ॥
अघोरेण चरुं हुत्वा लाजं वामेन होमयेत्
तिलमस्त्रेण जुहुयात् सर्षपं कवचेन तु ॥ ४९ ॥
[[५५९]]
यावकं पञ्चमेनैव द्रव्यान्ते व्याहृतिं हुनेत्
शतमर्द्धन्तदर्द्धं वा प्रत्येकञ्जुहुयात्क्रमात् ॥ ५० ॥
गौरीमिमायमन्त्रेण होमयेत्पञ्चविंशतिः
गौरीबीजमनुस्मृत्य होमयेच्छतसङ्ख्यया ॥ ५१ ॥
द्रव्यान्ते तु स्पृशेत् गौरीं गौरीमिमायमन्त्रतः
गेयनृत्तादिभिर्युक्तं रात्रिशेषं व्यपोह्य च ॥ ५२ ॥
आचार्यो मूर्त्तिपैस्सार्द्धं स्नानत्रयमथाचरेत्
अङ्गन्न्यासकरन्न्यासं पूर्वोक्तविधिना कुरु ॥ ५३ ॥
देशिकं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
पञ्चाङ्गभूषणैर्युक्तन्दक्षिणान्दापयेत्ततः ॥ ५४ ॥
पञ्चनिष्काधमाज्ञेया द्विगुणो मध्यमो भवेत्
उत्तमात्रिगुणाप्रोक्ता देशिकस्य तु दक्षिणा ॥ ५५ ॥
अद्ध्येतॄणाञ्च होतॄणां दक्षिणान्दापयेत्ततः
उत्थायशयनाद्देवं प्रागाननं यथा कुरु ॥ ५६ ॥
वस्त्रादीनि व्यपोह्याथ गन्धादिभिर्यजेद्धृदा
कुम्भान्कुण्डानि सम्पूज्य गन्धपुष्पादिभिस्सह ॥ ५७ ॥
जयादिरभ्यादानञ्च राष्ट्रभृच्च हुनेत्क्रमात्
पूर्णाहुतिं समूलेन हुत्वा होमं समाप्य च ॥ ५८ ॥
संस्थाप्य पूजयेन्नित्यं स्वतन्त्रपरतन्त्रके
आत्मार्त्थे वा परार्त्थे वा स्नपनोत्सवसंयुतम् ॥ ५९ ॥
पवित्रारोहणेत्युक्तं वस्त्रेणैवात्र कुत्रचित्
प्रासादे वा गृहे वापि पूज्य सिद्धिं सयच्छति ॥ ६० ॥
मुहूर्त्ते नाडिकात्पूर्वे स्नानवेद्युपरिन्न्यसेत्
घृतशिरोर्पणं कुर्यात् प्रागुक्तविधिना सह ॥ ६१ ॥
गौरी कलान्न्यसेत्पश्चात् मकुटादिक्रमाद्बुधः
अङ्गेष्वङ्गानि विन्न्यस्त्वा वामदेवेन पूजयेत् ॥ ६२ ॥
[[५६०]]
मुहूर्त्ते समनुप्राप्ते गुरवे सन्निवेदयेत्
सर्वातोद्य समायुक्तन्नृत्तगेय समाकुलम् ॥ ६३ ॥
कुम्भानुद्धृत्य शिरसा बाह्यहर्म्यप्रदक्षिणम्
कृत्वा गौर्यापुरो भागे स्थण्डिलोर्द्ध्वे तु विन्न्यसेत् ॥ ६४ ॥
प्राणप्रकृतियोगन्तु ज्ञात्वा स्थापनमारभेत्
उमा कुम्भादुमामन्त्रं प्रतिमे हृदि विन्न्यसेत् ॥ ६५ ॥
मूर्ध्निकण्ठे च योनौ च बीजं चैव तु विन्न्यसेत्
शक्तिकां परितस्थाप्य तत्तत्कुम्भान्विशेषतः ॥ ६६ ॥
पीठाब्जे परितो न्न्यस्त्वा प्रागादिषु यजेद्धृदा
तज्जलैस्नाप्य गौरीन्तु गौरी गायत्रिमन्त्रतः ॥ ६७ ॥
स्नपनं कारयेद्धीमान् प्रागुक्तविधिना सह
अर्चनोक्तं समभ्यर्च्य नैवेद्यं पायसन्ददेत् ॥ ६८ ॥
हृदा चाचमनन्दत्वा निर्माल्यन्तु विसर्जयेत्
ताम्बूलन्दापयेद्धीमान् मुखवाससमन्वितम् ॥ ६९ ॥
सरस्वतीं श्रियन्दुर्गां मोटिञ्चैवान्न्य शक्तिकाम्
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ७० ॥
इति गौरीस्थापनविधिपटल एकोननवतितः