०८८ भक्तस्थापनविधिपटलः

भक्तस्थापनविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि भक्तानां स्थापनं श्रुणु
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने ॥ १ ॥

शुभवारादिभिर्युक्ते स्थापनन्तु समारभेत्
अङ्कुराण्यर्पयेद्धीमान् प्रागुक्तविधिना सह ॥ २ ॥

विचित्रे मण्टपे रम्म्ये स्थण्डिलं शलिभिः कुरु
हेमसूच्यालिखेत्पक्ष्म रेखां वै कृष्णमण्डलम् ॥ ३ ॥

मधुना तर्पयित्वा तु कुर्याद्गव्याभिषेचनम्

[[५५३]]

ग्रामप्रदक्षिणं कुर्याज्जलाधिवासमारभेत् ॥ ४ ॥

वस्त्रेण प्रतिमां वेष्ट्य लम्बकूर्चसमन्वितम्
जलमद्ध्ये प्रपां कुर्यात्तन्मद्ध्ये शाययेत्ततः ॥ ५ ॥

एकरात्रं द्विरात्रं वा त्रिरात्रं याममात्रकम्
हर्म्याग्रे मण्टपं कुर्यादष्टहस्तप्रमाणतः ॥ ६ ॥

कलास्तम्भसमायुक्तं ध्वजतोरणसंयुतम्
तन्मद्ध्ये वेदिकां कुर्यात्तत्त्रिभागैकभागतः ॥ ७ ॥

रत्निमात्रसमुत्सेधां दर्पणोदरसन्निभाम्
कुण्डानि परितः कुर्यात् मानुषे तु पदे क्रमात् ॥ ८ ॥

इन्द्रादिषु च दुर्दिक्षु वेदाश्रं कारयेद्बुधः
वृत्तकुण्डं तथैशान्न्यां प्रधानन्तु प्रकल्पयेत् ॥ ९ ॥

मण्टपस्योत्तरे पार्श्वे स्नानश्वभ्रं प्रकल्पयेत्
उद्वास्य शिल्पिनं पश्चात् गोमयेनानुलेपयेत् ॥ १० ॥

मण्टपे मण्डयित्वा तु भूसुरान् भोजयेत्ततः
गोमयालेपनं कृत्वा पुण्याहं वाचयेत्ततः ॥ ११ ॥

स्थण्डिलं कारयेन्मद्ध्ये प्यष्टद्रोणैश्च शालिभिः
तण्डुलैश्च तिलैर्दर्भैः पुष्पैश्चैव परिस्तरेत् ॥ १२ ॥

कर्णिका मद्ध्यमे चैव नयनं कल्पयेत्ततः
जलादुत्तीर्य बिम्बन्तु वस्त्रादीनि व्यपोह्य च ॥ १३ ॥

कृत्वा तु पूर्ववच्छुद्धिं शाययेच्छयनोपरि
गन्धपुष्पादिभिश्चैव पूर्ववत्पूजयेद्धृदा ॥ १४ ॥

आवेष्ट्य धौतवस्त्रेण प्राक्शिरश्चोर्ध्ववक्त्रकम्
कौतुकं बन्धयित्वा तु शाययेत्प्रतिमान्ततः ॥ १५ ॥

तस्योर्ध्वे तु शिरोभागे भक्तकुम्भन्तु निक्षिपेत्
तन्मद्ध्ये तु स्वनाम्नातु प्रणवादिनमोन्तकम् ॥ १६ ॥

स्थापयेत् भक्तकुम्भन्तु पूजयेत्तु विशेहतः

[[५५४]]

भक्तकुम्भस्य तस्यैव पद्ममुद्रां प्रदर्शयेत् ॥ १७ ॥

अभितः कलशानष्टौ सूत्रादिभिस्समन्वितान्
इन्द्राद्याशासु विन्न्यस्य लोकपालांश्च विन्न्यसेत् ॥ १८ ॥

गन्धपुष्पादिभिस्तत्र सम्पूज्येशानमन्त्रतः
शुक्लवस्त्रधरोष्णीषस्सोत्तरीयस्सुमालिकः ॥ १९ ॥

आचार्यो मूर्तिपैस्सार्द्धं होमकर्मसमारभेत्
अग्न्याधानादिकं सर्वमग्निकार्योक्तमार्गतः ॥ २० ॥

शमीखदिरमायूर प्लक्षञ्चैव दिशासु वै
प्रधानस्य पलाशन्तु समिधस्सम्प्रकीर्तिताः ॥ २१ ॥

हृदयेन समिद्धुत्वा घृतम्मूलेन होमयेत्
अस्त्रेणैव चरुं हुत्वा लाजमीशेन होमयेत् ॥ २२ ॥

सर्षपं कवचेनैव द्रव्यान्ते व्याहृतिं हुनेत्
प्रत्येकं शतमर्द्धं वा तदर्द्धं वापि होमयेत् ॥ २३ ॥

द्रव्यान्ते व्याहृतिं हुत्वा स्पृशेत् बिम्बस्य मस्तकम्
एवमेव क्रमाद्रात्रौ प्रभाते स्थापनं कुरु ॥ २४ ॥

देशिको होतृभिस्सार्द्धं स्नानं पूर्ववदाचरेत्
ऋत्विग्भिस्सममाचार्यः पूजयेत्पूर्ववत्ततः ॥ २५ ॥

शयनात् बिम्बमुद्धृत्य वस्त्रादीनि विसर्जयेत्
गन्धपुष्पादिभिश्चैव पूजयेत्पुरुषेण तु ॥ २६ ॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिञ्च शिरसा हुत्वाग्निञ्च विसर्जयेत् ॥ २७ ॥

उद्धृत्य शयनाद्बिम्बं स्नानवेद्यान्तु विन्न्यसेत्
पूर्वोदितेन मार्गेण घृतेनैव शिरोर्पणम् ॥ २८ ॥

कुम्भमुद्धृत्य बिम्बाग्रे स्थापयेत्स्थण्डिलोपरि
कुम्भात् बीजं समादाय प्रतिमा हृदि विन्न्यसेत् ॥ २९ ॥

तत्तत्कुम्भोदकैः स्नाप्य गन्धपुष्पादिभिर्यजेत्

[[५५५]]

नैवेद्यन्दापयित्वा तु ताम्बूलन्तु निवेदयेत् ॥ ३० ॥

भक्तानां परिचाराणां यथा युक्त्या प्रपूजयेत्
भक्तानां स्थापनं प्रोक्तं यथा शास्त्रं प्रजापते ॥ ३१ ॥

इति भक्तस्थापनविधिपटल अष्टाशीतितमः