चण्डेशस्थापनविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि चण्डेशस्थापनं परम्
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने ॥ १ ॥
शुभवारादिभिर्युक्ते स्थापनन्तु समारभेत्
अङ्कुराण्यर्पयेद्धीमान् पूर्वोक्तविधिना सह ॥ २ ॥
विचित्रमण्टपे मद्ध्ये स्थण्डिलं शालिभिः क्रमात्
तन्मद्ध्ये नलिनं लिख्य तस्योर्द्ध्वे प्रतिमान्न्यसेत् ॥ ३ ॥
न कुर्याद्रत्नविन्न्यासं नेत्रमोक्षणमारभेत्
[[५५०]]
हेमसूच्यालिखेत्पक्ष्मरेखां वै कृष्णमण्डलम् ॥ ४ ॥
ज्योतिर्मण्डलमालिख्य मद्ध्वाज्याभ्यान्तु तर्पयेत्
नेत्रेण तर्पयित्वा तु कुर्यात् गव्याभिषेचनम् ॥ ५ ॥
ग्रामप्रदक्षिणन्नोक्तं कुर्यात् जलाधिवासनम्
वस्त्रेण प्रतिमां वेष्ट्य लम्बकूर्च्चसमन्विताम् ॥ ६ ॥
जलमद्ध्ये प्रपां कृत्वा शाययेत्तस्य मद्ध्यमे
एकरात्रं द्विरात्रं वा जले चैवाधिवासयेत् ॥ ७ ॥
हर्म्याग्रे मण्टपं कुर्यात् अष्टहस्तप्रमाणकम्
कलास्तम्भसमायुक्तं युगाश्रन्तस्य मद्ध्यमे ॥ ८ ॥
सवेदिकां कुर्याद्धीमान् तत्त्रिभागैकभागया
रत्निमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥ ९ ॥
कुण्डानि परितः कुर्यात् मानुषे तु पदे क्रमात्
इन्द्राशादि चतुर्दिक्षु वेदाश्रं कारयेत्ततः ॥ १० ॥
वृत्तकुण्डं तथैशान्यां प्रधानं कल्पयेद्बुधः
मण्टपस्योत्तरे पार्श्वे स्नानश्वभ्रं प्रकल्पयेत् ॥ ११ ॥
उद्वास्य शिल्पिनं पश्चात् गोमयेनोपलेपयेत्
मण्टपं भूषयित्वा तु भूसुरान् भोजयेत्ततः ॥ १२ ॥
गोमया लेपनं कृत्वा पुण्याहं वाचयेत्ततः
द्वारपूजादिकं सर्वं स्थापनक्रमवत्सुधीः ॥ १३ ॥
स्थण्डिलं कारयेद्वेद्यामष्टद्रोणैश्च शालिभिः
तण्डुलैस्तिलदर्भैश्च पुष्पैश्चैव परिस्तरेत् ॥ १४ ॥
तन्मद्ध्ये कम्बलञ्चैव शयनं पञ्चकल्पयेत्
जलादुत्तीर्य बिम्बन्तु वस्त्रादीनि विसर्जयेत् ॥ १५ ॥
कृत्वा तु पूर्ववच्छुद्धिं विन्न्यसेच्छयनोपरि
गन्धपुष्पादिभिश्चैव पूजयेद्धृदयेन तु ॥ १६ ॥
आवेष्ट्य नववस्त्रेण प्राक् शिरश्चोर्ध्ववक्त्रकम्
[[५५१]]
प्रतिमां शाययेद्धीमान् कौतुकं बन्धयेत्ततः ॥ १७ ॥
प्रतिमायाश्शिरोभागे चण्डकुम्भन्तु विन्न्यसेत्
ससूत्रं सापिधानञ्च सोदकं कूर्चसंयुतम् ॥ १८ ॥
हेमटङ्कसमायुक्तं वस्त्रेणैव समावृतम्
तन्मद्ध्ये च समूर्तिञ्च ध्यात्वा न्यस्त्वा हृदार्चयेत् ॥ १९ ॥
टङ्कमुद्रां प्रदर्श्याथ पद्ममुद्रां प्रदर्शयेत्
अभितः कलशानष्टौ सूत्रादिभिस्समन्वितान् ॥ २० ॥
इन्द्रादिषु क्रमान्यस्त्वा लोकपालांश्च विन्न्यसेत्
गन्धपुष्पादिना तत्तदीशानेनैव पूजयेत् ॥ २१ ॥
नववस्त्रधरोष्णीषस्सोत्तरीयस्सुमालिकः
रुद्राक्षमालाभरणमन्त्रमुद्राक्रियान्वितः ॥ २२ ॥
आचार्यो मूर्तिपैस्सार्द्धं होमकर्मसमारभेत्
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ २३ ॥
शमीखदिरमायूरप्लक्षञ्चैव दिशासु वै
प्रधानस्य पलाशन्तु समिधस्सम्प्रकीर्तिताः ॥ २४ ॥
हृदयेन समिद्धुत्वा चण्डमूलेन होमयेत्
अस्त्रेणैव चरुं हुत्वा लाजमीशानकं हुनेत् ॥ २५ ॥
सर्षपं कवचेनैव द्रव्यान्ते व्याहृतिं हुनेत्
प्रत्येकं शतमर्द्धं वा तदर्द्धं वापि होमयेत् ॥ २६ ॥
द्रव्यान्ते व्याहृतिं हुत्वा स्पृशेत् बिम्बस्य मस्तके
एवञ्जागरणं रात्रौ प्रभाते स्थापनं कुरु ॥ २७ ॥
देशिको मूर्तिपैस्सार्द्धं स्नानत्रयमथाचरेत्
आचार्यो मूर्तिपैश्चैव पूजयेत्तु पुरोक्तवत् ॥ २८ ॥
शयनाद्बिम्बमुद्धृत्य वस्त्रादीनि विसर्जयेत्
गन्धपुष्पादिभिश्चैव पूजयेत्पुरुषेण तु ॥ २९ ॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
[[५५२]]
पूर्णाहुतिञ्च शिरसा हुत्वाग्निञ्च विसर्जयेत् ॥ ३० ॥
उद्धृत्य शयनाद्बिम्बं स्नानवेद्यान्तु विन्न्यसेत्
प्रागुक्तविधिना बिम्बे चाक्षरन्यासमाचरेत् ॥ ३१ ॥
गन्धपुष्पादिभिश्चैव ईशानेनैव पूजयेत्
घृतशिरोर्पणं कृत्वा प्रागुक्तविधिना सुधीः ॥ ३२ ॥
कुम्भानुद्धृत्य बिम्बाग्रे स्थापयेत् स्थण्डिलोपरि
कुम्भात् बीजं समादाय चण्डस्य हृदिविन्न्यसेत् ॥ ३३ ॥
कुम्भोदैस्नाप्य चण्डन्तु दिक्पालैश्च घटैस्तथा
शुद्धोदकेन संस्नाप्य गन्धादिभिर्यजेद्धृदा ॥ ३४ ॥
आलयन्तु नयित्वाथ स्थापयेत्तु प्रदेशके
देवस्यैव तु नैवेद्यं मालाञ्चैव प्रदापयेत् ॥ ३५ ॥
चलाचलविभागन्तु ज्ञात्वा प्रागुक्तमाचरेत्
शैलजप्रतिमाञ्चेत्तु उक्तस्थानेषु मन्दिरे ॥ ३६ ॥
याम्याभिमुखसंयुक्तं स्थापयेन्मानुषे पदे
चण्डस्य स्थाननिर्देशो नास्ति युक्त्या तु विन्न्यसेत् ॥ ३७ ॥
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ३८ ॥
इति चण्डेशस्थापनपटलस्सप्ताशीतितमः