०८६ सप्तताण्डवपटलः

सप्तताण्डवपटलप्रारम्भः
त्यक्तस्यानन्दमूर्त्तिस्तु आदिमूलं परं शिवम्
मूलबिन्दुरिति ज्ञेयम् अङ्कुरन्नादमुच्यते ॥ १ ॥

सदाशिवं परं गुह्यं सदाशिव महेश्वरम्
महेशं सकलोपेतममिश्रन्तु सदाशिवम् ॥ २ ॥

निष्कलं शिवमेकन्तु आनन्दं त्रिविधं भवेत्
तस्मादानन्दरूपन्तु नृत्तमूर्तिरिहोच्यते ॥ ३ ॥

कथ्यन्ते शिवशास्त्राणि नृत्तं सप्तविधं भवेत्
आनन्दताण्डवं पूर्वं सन्ध्याताण्डवतत्परम् ॥ ४ ॥

गौरीताण्डवमेवन्तु तथा त्रिपुरताण्डवम्
कालीताण्डवमेवञ्च मुनीनान्तस्य ताण्डवम् ॥ ५ ॥

संहारताण्डवं पश्चात् इत्येते सप्तताण्डवम्
ताण्डवं सर्वमेवन्तु उमाताण्डवमङ्गलम् ॥ ६ ॥

उमासम्प्रीतिकञ्चैव कल्याणविधिना कृता
तस्मात्कल्याणकर्मेण सर्वमङ्गलमङ्गलम् ॥ ७ ॥

कल्याणसुन्दरद्ध्यानं नृत्तरूपमिहोच्यते
कल्याणसुन्दरं नृत्तं भेदञ्चैव न विद्यते ॥ ८ ॥

बन्धञ्च बन्धुरे कण्ठे कण्ठभूषजलं ग्रहेत्
सुगन्धञ्चैव माङ्गल्यं सर्वलोकैकमङ्गलम् ॥ ९ ॥

[[५४९]]

पूर्वेथतीर्त्थदिवसात् उत्सवानां नटेश्वरम्
तत्र पूर्वे रजन्न्यान्तु रक्षाबन्धनमाचरेत् ॥ १० ॥

तत्कर्ममेव सङ्कल्प्य अग्निसाक्षिन्तु साधयेत्
यात्राहोमं समारभ्य तत्र चैवं समाचरेत् ॥ ११ ॥

प्रपञ्चरक्षामेवन्तु सृष्टिस्थिति लयानि च
वस्त्रमङ्गल्य सूत्राणि शुद्धिदं होममाचरेत् ॥ १२ ॥

प्रतिसरन्तु सूत्राणि बन्धनन्तु समाचरेत्
यक्षराक्षसपैशाच भूतवेताल बन्धनम् ॥ १३ ॥

पुरत्रयन्तु संहारं रक्षाबन्धं विधीयते
यात्रोपकरणं सर्वं सप्तानां दिवसन्नयेत् ॥ १४ ॥

अथवान्न्यप्रकारेण अष्टानां दिवसे तथा
पश्चान्नृत्तोत्सवं प्रोक्तं तद्रात्रौ कौतुकं भवेत् ॥ १५ ॥

वस्त्रमङ्गल्य सूत्राणि शान्तिहोमं समाचरेत्
होमान्ते कौतुकं प्रोक्तं सर्वकर्मसमाचरेत् ॥ १६ ॥

विजयं श्रीकरं पुण्यं मङ्गल्यं मङ्गलं शुभम्
कीर्तिरायुष्य पुत्रार्त्थं कल्याणञ्चैव कारयेत् ॥ १७ ॥

इति सप्तताण्डवपटलः षडशीतितमः