पुरारिस्थापनविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण पुरारिस्थापनं परम्
मोक्षदं विजयं लोके भुक्तिमुक्तिफलप्रदम् ॥ १ ॥
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने
शुभवारादिभिर्युक्ते स्थापनन्तु समारभेत् ॥ २ ॥
प्रागुक्तविधिना पश्चादङ्कुराण्यर्पयेत्सुधीः
मण्टपे गोमयालिप्ते वितानाद्यैस्सुभूषितैः ॥ ३ ॥
शालिभिः स्थण्डिलं कृत्वा मद्ध्ये पद्मं समालिखेत्
पद्मपीठन्ततो न्यस्त्वा नवनिम्नसमन्वितम् ॥ ४ ॥
दिक् पालानान्तु परितो गन्धाद्यैः स्वस्वनामभिः
दशबीजं समुच्चार्य रत्नन्यासन्तु कारयेत् ॥ ५ ॥
आदिशैवान्वयोद्भूतश्शिवदीक्षाभिषिक्तकः
पञ्चगोचरसम्भूतश्शिवानुष्ठानतत्परः ॥ ६ ॥
[[५४२]]
शैवसिद्धान्तशास्त्रज्ञश्शिवार्च्चनरतस्सुधीः
देवाग्निगुरुभक्तिश्च शिवलक्षणलक्षितः ॥ ७ ॥
शिवश्चेति सुपुष्टाङ्गस्सर्वप्राणिदयारतः
ईदृशं गुरुमापाद्य वृणीयात्स्थापनाय वै ॥ ८ ॥
मूर्तिपास्त्वीदृशाः प्रोक्ताः कारयेद्धोमकर्मणि
तदाचार्यनियोगेन रत्नन्यासं समारभेत् ॥ ९ ॥
माणिक्कम्मद्ध्यमे कोष्ठे वज्रमैन्द्रे तु विन्न्यसेत्
वह्नौ मरकतं नीलं यामे निर्ऋतिगोचरे ॥ १० ॥
मौक्तिकं पुष्यरागञ्च वारुणे तु पदे तथा
गोमेदं वायुदिग्भागे विद्रुमं सोमदेशके ॥ ११ ॥
वैडूर्यमीशदिग्भागे गुरुः प्रक्षेपयेत्ततः
बिम्बन्तदुपरिन्न्यस्त्वा सुदृढं कारयेत्ततः ॥ १२ ॥
बिम्बशुद्धिं ततः कृत्वा तत् द्रव्याहतवस्तुना
पञ्चमृत् पञ्चगव्यैश्च शुद्धतोयैर्विशेषतः ॥ १३ ॥
स्नापयेत्तु ततो बिम्बं यावन्निर्मलताङ्गतः
नेत्रोन्मीलनं कुर्यात्स्थण्डिले शालिभिः कृते ॥ १४ ॥
दलाष्टकसमोपेतं पङ्कजं कर्णिकान्वितम्
आलिख्य कर्णिकायान्तु बिम्बं प्रागाननन्न्यसेत् ॥ १५ ॥
प्रागाद्यष्टदलेष्वेषु निर्दोषान् कलशाष्टकान्
गन्धाम्बुपूरितान् कूर्चान् वस्त्रपुष्पाक्षतान्वितान् ॥ १६ ॥
इन्द्रादिलोकपालांश्च तत्तत्कुम्भेषु योजयेत्
नेत्रद्वययुतर्क्षेषु नेत्रोन्मीलनकर्मणि ॥ १७ ॥
देशिकं शिल्पिनन्तत्र वस्त्रहेमाङ्गुलीयकैः
सम्पूज्यगन्धपुष्पाद्यैः यजमानस्तु तोषयेत् ॥ १८ ॥
तरङ्गेन समावृत्य लेखयेत् हेमसूचिना
भ्रूरेखां पक्ष्मरेखाञ्च कृष्णमण्डलमेव च ॥ १९ ॥
[[५४३]]
ज्योतिर्मण्डलमालिख्य मद्ध्वाज्याभ्यां सुसेचयेत्
ततश्शिल्पिनमुद्वास्य कलशान्स्वस्वमन्त्रकैः ॥ २० ॥
संस्नाप्य शुद्धतोयैश्च स्नापयेत्तु पुनः पुनः
प्रत्येकं प्रस्थसम्पूर्णं ताम्रेणैवाथ कांस्यके ॥ २१ ॥
कृत्वा पात्रत्रयन्तेषु मद्ध्वाज्यक्षीरपूरितम्
प्रक्षिप्य हेमकलशान् मधुवातेति मन्त्रतः ॥ २२ ॥
दर्शयेन्मधुपात्रे तु ब्रह्मजज्ञानमुच्चरन्
दर्शयेत्क्षीरपात्रन्तु सवत्साङ्गां पयस्विनीम् ॥ २३ ॥
गौर्द्धेनुहव्यमन्त्रेण दर्शयेत्तु विचक्षणः
त्रियम्बकेन मन्त्रेण ब्रह्माणन्दर्शयेत्ततः ॥ २४ ॥
करङ्गपटमावर्ज्य जनान्सर्वान्प्रदर्शयेत्
रङ्गे वा शिबिकायां वा सर्वालङ्कारभूषणैः ॥ २५ ॥
सम्पूज्यदेवदेवेशं शङ्खभेर्यादि निस्वनैः
चित्रध्वजपताकाद्यैः प्रदीपैर्बहुभिर्युतम् ॥ २६ ॥
ग्रामप्रदक्षिणं कृत्वा यजमानस्सबन्धुभिः
जलाधिवासनार्त्थाय कण्ठदघ्ने जले शुभे ॥ २७ ॥
चतुर्गात्रसमायुक्तां प्रपां कृत्वा विशेषतः
वितानदर्भमालाद्यैर्ध्वजैश्चैव विभूषयेत् ॥ २८ ॥
जलान्तन्दारुपीठन्तु प्रक्षिपेत्सदृढं यथा
तीरे समतले देवं विन्यस्त्वा स्नाप्य पूर्ववत् ॥ २९ ॥
नवाम्बरैस्समावेष्ट्य पुष्पमालासकूर्चकम्
गङ्गा च यमुना चैव नर्मदा च सरस्वती ॥ ३० ॥
सिन्धु गोदावरी चैव कावेरी च जलान्तरे
सङ्कल्प्य स्वस्य नामानि जले देवन्तु शाययेत् ॥ ३१ ॥
अभितः कलशानष्टौ पूर्ववत्स्थापयेद्गुरुः
त्रिरात्रं वा द्विरात्रं वा एकरात्रमथापि वा ॥ ३२ ॥
[[५४४]]
दिवसं दिवसार्द्धं वा यामं यामार्द्धकं तु वा
घटिकैकासमुद्दिष्टा जले चैवाधिवासयेत् ॥ ३३ ॥
ध्यात्वा तु वा महादेवं यावज्जलगतन्तथा
प्रासादस्याग्रतो वापि याम्ये वा चोत्तरेऽपि वा ॥ ३४ ॥
शाङ्करे पावकेऽथ कर्तव्यं यागमण्टपम्
हस्तैर्द्वादशभिः कुर्यादेकादशकरैस्तु वा ॥ ३५ ॥
दशभिर्नवहस्तैर्वा षोडशस्तम्भसंयुतम्
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ ३६ ॥
कृत्वा नवपदं तत्र मद्ध्यकोष्ठेषु वेदिकाम्
रत्निमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥ ३७ ॥
परितोष्टौ च कुण्डानि चतुष्कुण्डमथाचरेत्
तुर्याश्रं पूर्वदिग्भागे वह्निमश्वत्थपत्रवत् ॥ ३८ ॥
अर्द्धचन्द्रं ततो याम्ये त्रिकोणं राक्षसाधिपे
पाशभृद्दिशिवृत्तं स्यात् षडश्रं वायुगोचरे ॥ ३९ ॥
पद्मकुण्डन्ततो याम्म्ये शाङ्करेष्टाश्रमेव च
शक्रशाङ्करयोर्मद्ध्ये वृत्तकुण्डं शिवाग्नये ॥ ४० ॥
पञ्चाग्निञ्च चतुर्दिक्षु शिवाग्निं शाङ्करे दिशि
हस्तविस्तारमेकैकं तद्वत्खातत्रिमेखलम् ॥ ४१ ॥
योन्याब्जनाभिसंयुक्तं वर्तनाविधिमार्गतः
सर्वेषु चतुरश्राणि वृत्ताकाराण्यथापि वा ॥ ४२ ॥
सन्निकृष्टदिने चैव स्थण्डिले होममाचरेत्
कुण्डानि कारयेद्धीमान् गोमयेनानुलेपयेत् ॥ ४३ ॥
शालिपिष्टकचूर्णाद्यैः पञ्चवर्णैस्सुलेखयेत्
रङ्गवल्लींसमालिख्य चित्रवर्णोपशोभितम् ॥ ४४ ॥
वितानैश्चैव सञ्छाद्य दिक् ध्वजैश्च प्रलम्बयेत्
दर्भमालाभिरावेष्ट्य फलपल्लवदामकैः ॥ ४५ ॥
[[५४५]]
स्तम्भानावेष्ट्य वस्त्रैश्च तोरणान् खरदारुभिः
तस्यैवोत्तरपार्श्वे तु कर्तव्यं स्नानमण्टपम् ॥ ४६ ॥
उत्तमानार्द्धमानेन प्राग्वत् भूषणभूषितम्
तन्मद्ध्ये स्नानपादिन्तु हस्तद्वयसुविस्तृताम् ॥ ४७ ॥
हस्तार्द्धमानतुङ्गाढ्यामेकमेखलयावृताम्
श्वभ्रे तदुत्तरे खात्वा हस्तद्वयप्रमाणतः ॥ ४८ ॥
ब्रांहणान्भोजयेत्तत्र तद्दिनं प्राग्दिनद्वये
ब्रांहणोच्छिष्टमुद्वास्य पुण्याहन्तत्र कारयेत् ॥ ४९ ॥
स्थापनाद्दिवसात्पूर्वे दिवसे स्तमये तथा
वास्तुहोमं ततः कृत्वा प्रासादेवाथमण्टपे ॥ ५० ॥
पूर्वोक्तविधिवद्धुत्वा पर्यग्निकरणं ततः
पुण्याहं वाचयेत्तत्र स्वस्तिसूत्रसमन्वितम् ॥ ५१ ॥
द्वारपूजादिकं सर्वं स्थापनक्रमवत्सुधीः
जलादुत्तीर्य बिम्बन्तु वस्त्रकूर्चं व्यपोह्य वै ॥ ५२ ॥
जलस्थापनकुम्भस्थतोयैस्संस्नापयेच्छिवम्
स्नानवेद्यां ततो नीत्वा स्नापयेच्छुद्धवारिभिः ॥ ५३ ॥
पञ्चब्रंहशिवाङ्गैश्च स्नापयेद्दशबीजकैः
गन्धैस्सुगन्धपुष्पैश्च धूपैर्दीपैर्यजेद्धृदा ॥ ५४ ॥
वस्त्रयुग्मेन संवेष्ट्य बिम्बपीठप्रभान्वितम्
हेमकौतुकसूत्रन्तु ब्रंहजज्ञानमुच्चरन् ॥ ५५ ॥
बध्वा दक्षिणहस्ते तु भस्मनिक्षिप्य चास्त्रतः
भस्मभक्तजनान्दत्वा दूर्वाङ्कुराक्षतैः घृतैः ॥ ५६ ॥
सद्यमन्त्रैश्च मूर्ध्नी च बाह्वोश्च पादयोस्तथा
घृतं शिरोर्पणं कृत्वा प्रारभेच्छयनं सुधीः ॥ ५७ ॥
स्थण्डिले वेदिकोर्ध्वे तु द्रोणाष्टकसुशालिभिः
तण्डुलैश्च चतुर्द्रोणैर्द्रोणद्वयतिलैरपि ॥ ५८ ॥
[[५४६]]
तन्मध्ये नलिनं कृत्वा साष्टपत्रं सकर्णिकम्
प्रोक्षयेत्पुरुषेणैव लाजदर्भैः परिस्तरेत् ॥ ५९ ॥
शयनं कल्पयेन्मद्ध्ये चर्मचाद्यैरनुक्रमात्
वामदेवेन मन्त्रेण पूजयेच्छयनोपरि ॥ ६० ॥
तन्मद्ध्ये शाययेद्देवं प्राक् च्छिरश्चोर्द्ध्ववक्त्रकम्
रक्तवस्त्रेण संवेष्ट्य गन्धादिभिर्यजेद्धृदा ॥ ६१ ॥
प्रधानकुम्भं तस्यैव शिरोभागे तु विन्न्यसेत्
तस्यैव वामभागे तु वर्द्धनीञ्चैव विन्न्यसेत् ॥ ६२ ॥
अभितः कलशानष्टौ चाष्टविद्येश्वरात्मकान्
ससूत्रान्सापिधानांश्च सवस्त्रान्वारिपूरितान् ॥ ६३ ॥
सकूर्च्चान्हेमसंयुक्तान्फलपल्लवसंयुतान्
शिवाख्यं पञ्चरत्नाम्बु उमाख्यं हेमसंयुतम् ॥ ६४ ॥
तत्तन्मूत्तर्यात्मकैर्बीजैर्वर्णानान्तु सचिह्नकैः
कुम्भेष्वेवं विशेषेण द्ध्यात्वा सम्पूजयेद्धृदा ॥ ६५ ॥
नैवेद्यन्दापयेत्पश्चात्ताम्बूलन्दापयेत्ततः
पद्ममुद्रां प्रदर्श्याथ होमकर्म समाचरेत् ॥ ६६ ॥
शिवाग्निं कल्पयेत्तत्र अग्निकार्योक्तमाचरेत्
समिदाज्य चरुं लाजं सर्षपांश्च यवांस्तिलान् ॥ ६७ ॥
होमद्रव्याणि सप्तैते जुहुयाद्वै क्रमेण तु
अश्वत्थोदुम्बरप्लक्षं वटं पूर्वादिदिक्षु च ॥ ६८ ॥
शमीखदिरबिल्वञ्च मायूरञ्च विदिक्षु च
पलाशञ्च प्रधानस्य सर्वेषामिध्ममुच्यते ॥ ६९ ॥
समिधा सद्यमन्त्रेण मूलेनैव घृतं हुनेत्
अघोरेण चरुं हुत्वा वामदेवेन लाजकम् ॥ ७० ॥
सर्षपं कवचेनैव यवमस्त्रेण होमयेत्
तिलं नेत्रेण मन्त्रेण होमयेद्देशिकोत्तमः ॥ ७१ ॥
[[५४७]]
शतमर्द्धन्तदर्द्धं वा प्रत्येकं जुहुयात्
घृतं मिमिक्षे घृतं हुत्वा देवस्य त्वाचरुं हुनेत् ॥ ७२ ॥
यत्ने अग्ने तिलैर्लाजमग्न आयाहिसर्षपम्
यवन्तु शन्नो देवेति कद्रुद्रायेति वै तिलम् ॥ ७३ ॥
प्रत्येकं षोडशं हुत्वा उपाहुतिं समिद्विना
द्रव्यान्ते व्याहृतिं हुत्वा कुर्यात्स्पर्शाहुतिन्ततः ॥ ७४ ॥
मकुटं वदनञ्चैव हृदयन्नाभिगुह्यकौ
पादौ चैव तु तत् द्रव्यं हुत्वा तेनैव मन्त्रतः ॥ ७५ ॥
मौल्यादिपादपर्यन्तं हुत्वान्ते च तथास्पृशेत्
एवञ्जागरणं रात्रौ प्रभाते स्थापनं कुरु ॥ ७६ ॥
आचार्यो मूर्त्तिपैस्सार्द्धं स्नानत्रयं समाचरेत्
अङ्गन्न्यासकरन्यासं पूर्वोक्तविधिनाचरेत् ॥ ७७ ॥
प्रतिमांशयनोर्द्ध्वे तु उद्धृत्यप्राङ्मुखं कुरु
पर्युषितानि सन्त्यज्य गन्धपुष्पादिभिर्यजेत् ॥ ७८ ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
दक्षिणान्दापयित्वा तु प्रागुक्तविधिना सह ॥ ७९ ॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिञ्च शिरसा जुहुयाद्देशिकोत्तमः ॥ ८० ॥
मुहूर्त्तन्नाडिकापूर्वे स्नानश्वभ्रन्न्यसेत्प्रभुम्
घृतशिरोर्पणं कुर्यात्पूर्ववत् भाव्य बुद्धिमान् ॥ ८१ ॥
अष्टत्रिंशत्कलान्यासं मकुटादिक्रमान्न्यसेत्
प्रधानकुम्भमुद्धृत्य वर्द्धनी मूर्त्तिकुम्भकान् ॥ ८२ ॥
शिरसा वाहयित्वा तु कृत्वा धामप्रदक्षिणम्
बिम्बाग्रे स्थापयेत्कुम्भान् स्थापयेत्स्थण्डिलोपरि ॥ ८३ ॥
मुहूर्ते समनुप्राप्ते गुरवे सन्निवेदयेत्
कुम्भात् बीजं समादाय प्रतिमा हृदिविन्यसेत् ॥ ८४ ॥
[[५४८]]
वर्द्धन्न्यां बीजमादाय पीठाब्जे मद्ध्यमे न्यसेत्
विद्येशान्स्वस्वबीजेन इन्द्राद्यब्जदले न्यसेत् ॥ ८५ ॥
प्रभूतहविषन्दत्वा गुलखण्डसमन्वितम्
उत्सवं कारयेत्पश्चात् कर्त्तावित्तानुसारतः ॥ ८६ ॥
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ८७ ॥
इति पुरारिस्थापनविधिपटलपञ्चाशीतितमः