०८४ कालनिग्रहस्थापनविधिपटलः

कालनिग्रहस्थापनविधिपटलप्रारम्भः
अथ संस्थापनं वक्ष्ये कालनिग्रहमूर्तिनः
क्षेमदञ्जयदं लोके भुक्तिमुक्तिफलप्रदम् ॥ १ ॥

उत्तरायणकाले तु शुक्लपक्षे शुभे दिने
शुभवारादिभिर्युक्ते स्थापनन्तु समारभेत् ॥ २ ॥

[[५३६]]

प्रागुक्तविधिनापूर्वमकुराण्यर्पयेत्सुधीः
विचित्रमण्टपे हर्म्ये रत्नन्न्यासं समारभेत् ॥ ३ ॥

तन्मद्ध्ये स्थण्डिलं कृत्वा पीठन्तस्योपरिन्यसेत्
माणिक्कं मद्ध्यमे न्यस्त्वा हेमकूर्चसमन्वितम् ॥ ४ ॥

इन्द्रनीलन्तु पूर्वायां याम्ये मरतकन्न्यसेत्
स्फटिकं वारुणे भागे चन्द्रकान्तन्तु सौम्यके ॥ ५ ॥

प्रवालं वह्निदेशे तु वज्रं निर्ऋति गोचरे
मौक्तिकं वायुदेशे तु शङ्खमीशे तु विन्न्यसेत् ॥ ६ ॥

हृदयेन तु मन्त्रेण विन्न्यसेत्तु क्रमेण तु
देवन्तस्योपरिन्न्यस्त्वा सुस्निग्धं सुदृढं कुरु ॥ ७ ॥

नयनमोक्षणं कुर्यात् नेत्रयुग्मयुते दिने
विचित्रमण्टपे मद्ध्ये स्थण्डिलं शालिभिः कुरु ॥ ८ ॥

तन्मद्ध्ये विन्न्यसेद्देवं प्राङ्मुखं हृदयेन तु
पक्ष्मरेखां लिखेत्सूच्या शातकुम्भमयेन तु ॥ ९ ॥

कृष्णमण्डलमालिख्य दृष्टिमण्डलमालिखेत्
नेत्रमन्त्रं समुच्चार्य लेखयेद्देशिकोत्तमः ॥ १० ॥

हेमाङ्गुलियवस्त्राद्यैस्सम्पूज्योद्वास्य शिल्पिनम्
तस्याग्रे स्थण्डिलं कुर्यात् बिम्बन्तस्योपरिन्यसेत् ॥ ११ ॥

अभितः कलशानष्टौ सूत्रोदकादिभिर्युतान्
स्थाप्येन्द्रादिषु विद्येशान् पूजयेत्पुरुषेण तु ॥ १२ ॥

प्रोतहेमनखैश्चैव नेत्रेषु नेत्रमन्त्रतः
मद्ध्वाज्यसूक्तमुच्चार्य मद्ध्वाज्याभ्यान्तु तर्पयेत् ॥ १३ ॥

प्रतिप्रस्थपूरिताभ्यां पात्रे ताभ्यां प्रदर्शयेत्
धेनुगोर्द्धेनुहव्येति शिरसा चैव धान्न्यकम् ॥ १४ ॥

ब्रह्मजज्ञानमन्त्रेण भूसुरान् सम्प्रदर्शयेत्
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ १५ ॥

[[५३७]]

प्रच्छन्नपटमावर्ज्य जनसङ्घान्प्रदर्शयेत्
अष्टमृत्सलिलेनैव पञ्चगव्येन वर्मणा ॥ १६ ॥

प्रतिमांस्नापयित्वा तु गन्धादिभिर्यजेद्धृदा
वस्त्रैराभरणैर्माल्यैः प्रतिमां भूषयेत्ततः ॥ १७ ॥

सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम्
ग्रामप्रदक्षिणं कृत्वा सम्प्रविश्य जलाशयम् ॥ १८ ॥

तीरे तु स्थण्डिलं कृत्वा बिम्बन्तस्योपरिन्यसेत्
मूर्द्धादिपादपर्यन्तं वस्त्रदर्भैश्च वेष्टयेत् ॥ १९ ॥

गन्धपुष्पादिभिश्चैव ईशानेनैव पूजयेत्
जलमद्ध्ये प्रपां कुर्यात् चतुर्गात्रसमन्विताम् ॥ २० ॥

वितानद्ध्वजसंयुक्तां दर्भमालाभिरावृताम्
कण्ठमात्रे जले धीमान् तन्मद्ध्ये फलकोपरि ॥ २१ ॥

प्रतिमांशाययेद्धीमान् प्राक् छिरश्चोर्द्ध्ववक्त्रकाम्
अभितः कलशानष्टौ ससूत्रोदकपूरितान् ॥ २२ ॥

इन्द्रादिभिस्समोपेतान् स्थाप्य सम्पूजयेद्धृदा
त्रिरात्रं वा द्विरात्रं वा एकरात्रञ्जलोषितम् ॥ २३ ॥

अथवा याममात्रं वा तदर्द्धं वा जलोषितम्
भवनस्याग्रके वापि दक्षिणे चोत्तरेऽपि वा ॥ २४ ॥

द्वादशं रुद्रहस्तं वा रन्ध्रहस्तमथापि वा
कलास्तम्भसमायुक्तं मण्टपं कारयेत् बुधः ॥ २५ ॥

मद्ध्यमे वेदिकां कुर्यात् तत्त्रिभागैकभागया
रत्निमात्रसमुत्सेधां दर्प्पणोदरसन्निभाम् ॥ २६ ॥

कुण्डानि कल्पयेद्धीमान् परितो मानुषे पदे
दिशासु चतुरश्राणि वृत्तानि विदिशासु च ॥ २७ ॥

शक्रशाङ्करयोर्मद्ध्ये पद्मं कुर्यात् प्रधानकम्
स्नानश्वभ्रन्तथा कुर्यात् मण्टपस्योत्तरे ततः ॥ २८ ॥

[[५३८]]

पश्चाच्छिल्पिनमुद्वास्य गोमयेनानुलेपयेत्
मण्टपं कारयित्वा तु भूसुरान् भोजयेत्ततः ॥ २९ ॥

उच्छिष्टन्तु समुद्वास्य पुण्याहं वाचयेत्ततः
प्राक् कुण्डं वेदिकामद्ध्ये वास्तुहोमन्तु कारयेत् ॥ ३० ॥

पर्यग्निकरणन्तेन वह्निनामण्टपे कुरु
पञ्चगव्येन सम्प्रोक्ष्य पुण्याहं वाचयेत्ततः ॥ ३१ ॥

द्वारपूजादिकं सर्वं स्थापनक्रमवत् बुधः
वेद्यूर्द्ध्वे स्थण्डिलं कुर्यात् अष्टद्रोणैश्च शालिभिः ॥ ३२ ॥

तदर्द्धैस्तण्डुलैश्चैव तदर्द्धैश्च तिलैरपि
तन्मद्ध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ ३३ ॥

कुशैः पुष्पैश्च लाजैश्च परिस्तीर्य ततोपरि
स्थण्डिलं गन्धपुष्पाद्यैः पूजयेदस्त्रमन्त्रतः ॥ ३४ ॥

तन्मद्ध्ये शयनं कल्प्य चर्मचाद्यैरनुक्रमान्
शयनं गन्धपुष्पाद्यैर्वामदेवेन पूजयेत् ॥ ३५ ॥

सर्वालङ्कारसंयुक्तं सर्वातोद्य समायुतम्
जलादुत्तीर्य देवेशं स्नानश्वभ्रे तु विन्न्यसेत् ॥ ३६ ॥

वस्त्रादीनि व्यपोह्याथ पूर्ववच्छुद्धिमाचरेत्
ईशानेन तु सम्पूज्य कौतुकं बन्धयेत्ततः ॥ ३७ ॥

स्नानवेद्यां समुद्धृत्य विन्न्यसेच्छयनोपरि
शयने शाययेत् बिम्बं प्राक् च्छिरश्चोर्द्ध्ववक्त्रकम् ॥ ३८ ॥

वस्त्रेणैव तु संवेष्ट्य पूजयेत्पुरुषेण तु
दशमुद्रां प्रदर्श्याथ महेशाख्यां प्रदर्शयेत् ॥ ३९ ॥

बिम्बस्य पश्चिमे भागे रक्तवस्त्रे वेष्टयेत्
दक्षिणोत्तरमार्गेण शाययेत्स्थण्डिलोपरि ॥ ४० ॥

पाशुपतेन चास्त्रेण प्रोक्षयेच्छुद्धवारिणा
महेशकुम्भं बिम्बस्य शिरोभागे तु विन्न्यसेत् ॥ ४१ ॥

[[५३९]]

वर्द्धनीं विन्न्यसेत्सौम्म्ये तस्य भागे तु विन्न्यसेत्
ससूत्रं सापिधानञ्च सवस्त्रं गन्धपूरितम् ॥ ४२ ॥

रत्नहेमसमायुक्तं सकूर्चं पल्लवैर्युतम्
तन्मूर्धा कृतिकं ध्यात्वा कुम्भन्तस्यैव बीजकम् ॥ ४३ ॥

न्यस्त्वा गन्धादिभिश्चैव ईशानेनैव पूजयेत्
शरमुद्रां महेशाख्यां निष्ठुराञ्च प्रदर्शयेत् ॥ ४४ ॥

गौरी बीजन्तु वर्द्धन्यां ध्यात्वा न्यस्त्वा यजेद्धृदा
मुकुली पद्ममुद्राञ्च शक्तिमुद्रां प्रदर्शयेत् ॥ ४५ ॥

अभितस्तु घटानष्टौ शुद्धोदकप्रपूरितान्
सूत्रादिभिस्समोपेतानिन्द्रादिषु क्रमान्न्यसेत् ॥ ४६ ॥

अनन्तादिशिखण्ड्यान्तानिन्द्रादिदिक्षु विन्न्यसेत्
गन्धपुष्पादिभिस्तत्र ईशानेनैव पूजयेत् ॥ ४७ ॥

नैवेद्यं दापयेत्पश्चात्ताम्बूलं दापयेत्पृथक्
नवाम्बरधरोष्णीषश्शुक्लवस्त्रोत्तरीयकः ॥ ४८ ॥

सर्वाभरणसंयुक्तैर्गन्धमाल्यैरलङ्कृतः
स्थापको मूर्तिपैस्सार्द्धं होमकर्म समाचरेत् ॥ ४९ ॥

अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
दिशास्वद्ध्ययनं कुर्यात्कोणे मन्त्रजपं कुरु ॥ ५० ॥

समिदाज्य चरून्लाजान्यवसिद्धार्त्थमाषकान्
मधुघृतसमायुक्तं गुलखण्डञ्च होमयेत् ॥ ५१ ॥

अश्वत्थो दुम्बरप्लक्षवटं पूर्वादिदिक्षु च
खादिरञ्च शमी बिल्वं मायूरं पावकादिषु ॥ ५२ ॥

प्रधानस्य पलाशन्तु सर्वेषामिध्ममेव च
ईशानेन समिद्धोमं पुरुषेण घृतं हुनेत् ॥ ५३ ॥

अघोरेण चरुं हुत्वा वामेनैव तु लाजकम्
सद्येनैव यवं हुत्वा सर्षपं कवचेन तु ॥ ५४ ॥

[[५४०]]

अस्त्रेण जुहुयान्माषं नेत्रेण मधुरं हुनेत्
प्रत्येकं शतमर्द्धं वा तदर्द्धं वापि होमयेत् ॥ ५५ ॥

द्रव्यान्ते व्याहृतिं हुत्वा तन्मन्त्रैस्तु स्पृशेत्प्रभुः
पञ्चब्रह्मषडङ्गैश्च मूलमन्त्रैर्दशाक्षरैः ॥ ५६ ॥

बीजमुख्यैर्घृतेनैव प्रत्येकन्तु शताहुतिः
एवञ्जागरणं रात्रौ प्रभाते विमले ततः ॥ ५७ ॥

देशिको मूर्त्तिपैस्सार्द्धं स्नानत्रयमथाचरेत्
अङ्गन्न्यासकरन्न्यासं प्रागुक्तविधिनाचरेत् ॥ ५८ ॥

प्रागुक्तविधिमार्गेण देशिकादीन् प्रपूजयेत्
उद्धृत्य शयनाद्बिम्बं वस्त्रादीनि व्यपोह्य च ॥ ५९ ॥

गन्धपुष्पादिभिश्चैव ईशानेनैव पूजयेत्
कुम्भान्कुण्डानि सम्प्रोक्ष्य पूज्य गन्धादिभिः क्रमात् ॥ ६० ॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिञ्च शिरसा स्विष्टमग्नेति होमयेत् ॥ ६१ ॥

पावकन्तु ततो द्वास्य स्नानवेद्यान्नयेत्प्रभुः
कालबिम्बं समुद्धृत्य देवस्याग्रे न्यसेत्ततः ॥ ६२ ॥

अष्टत्रिंशत्कलान्न्यासं मकुटादिक्रमान्न्यसेत्
गन्धपुष्पादिभिश्चैव ईशानेनैव पूजयेत् ॥ ६३ ॥

घृतं शिरोर्पणं कुर्यात्प्रागुक्तविधिना सह
मुहूर्त्ते समनुप्राप्ते स्थापनन्तु समारभेत् ॥ ६४ ॥

सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम्
वेद्याः कुम्भान् समुद्धृत्य बाह्य हर्म्यप्रदक्षिणम् ॥ ६५ ॥

कृत्वा बिम्बस्य चाग्रे तु स्थण्डिले तु न्यसेत्ततः
प्राणप्रकृतियोगन्तु ज्ञात्वा स्थापनमारभेत् ॥ ६६ ॥

कुम्भात् बीजं समादाय प्रतिमा हृदि विन्यसेत्
तत्कुम्भस्थजलैर्देवं स्नापयेत्तु विशेषतः ॥ ६७ ॥

[[५४१]]

गौरी बीजं समादाय पद्मपीठस्य मद्ध्यमे
विन्न्यस्त्वा तज्जलैः स्नाप्य पीठे विद्येश्वरान्न्यसेत् ॥ ६८ ॥

तत्कुम्भस्थजलैर्देवं स्नापयेत्कालहारिणम्
कर्चनोक्तं समभ्यर्च्य स्नपनं कारयेत्ततः ॥ ६९ ॥

पूजयित्वा विशेषेण गन्धपुष्पादिभिस्ततः
आपोहिष्ठेतिमन्त्रेण प्रोक्षयेत्कालदेहकम् ॥ ७० ॥

आलयन्तु न्यसेदेवमग्रे कालन्तु विन्न्यसेत्
अर्चनोक्तं समभ्यर्च्य प्रभूतहविषन्ददेत् ॥ ७१ ॥

उत्सवं कारयेत्पश्चाद्यथावित्तानुसारतः
कामारिस्थापनं ह्येवं कारयेत्तु विचक्षणः ॥ ७२ ॥

एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ७३ ॥

इति कालनिग्रहस्थापनविधिपटलश्चतुरशीतितमः