०८३ गजसंहारप्रतिष्ठा विधिपटलः

गजसंहारप्रतिष्ठा विधिपटलप्रारम्भः
प्रणम्यशिरसा देवं पर्यपृच्छत्पितामहम्
कोवासं हारमूर्त्तीनां स्थापनं परमेश्वर ॥ १ ॥

ईश्वरः तत्सर्वमखिलं वक्ष्ये श्रुणुष्वकमलासन
नृत्तञ्चैव तु कामारीं कालन्दहनमेव च ॥ २ ॥

गजघ्नं त्रिपुरघ्नञ्च जलन्धरवधन्तथा
षष्ठे संहारमूर्त्तीनां स्थापनं त्विह चोच्यते ॥ ३ ॥

रोहिणी च पुनर्वस्व पुष्ये मृगशिरस्तथा
हस्ते च रेवती चैव स्वाती चैव त्रिरुत्तरा ॥ ४ ॥

स्थापयेत्स्थिरराशौ तु अष्टमग्रहवर्जितम्
अङ्कुराण्यर्प्पयेत्पूर्वं नवाहे सप्तमे हनि ॥ ५ ॥

मण्टपं कारयेत्सम्यक् प्रासादस्याग्रके ततः
दक्षिणे चोत्तरे वापि कारयेल्लक्षणान्वितम् ॥ ६ ॥

कूटं वापि प्रपां वापि कारयेदथवा पुनः
मण्टपञ्चैव विप्रेन्द्र एकाशीति पदं कुरु ॥ ७ ॥

मद्ध्ये नवपदञ्चैव वेदिका रत्निरुच्छ्रयम्
तस्य बाह्ये तु परितः मानुष्ये कुण्डमुच्यते ॥ ८ ॥

चतुरश्रञ्च योनिञ्च अर्द्धचन्द्रं त्रिकोणकम्
वृत्तञ्चैव षडश्रञ्च पद्मं सप्ताश्रमेव च ॥ ९ ॥

[[५३१]]

पूर्वादीनि च विप्रेन्द्र अष्टदिक्षु क्रमान्न्यसेत्
ईशान इन्द्रयोर्मद्ध्ये सप्तकोणन्तु कारयेत् ॥ १० ॥

एवन्तु नृत्तरूपं स्यात्कामहारिन्ततः श्रुणु
चतुरश्रञ्च षट्कोणं त्रिकोणं पञ्चकोणकम् ॥ ११ ॥

एतानि च महादिक्षु वृत्तं श्रेष्ठं प्रकल्पयेत्
ईशान इन्द्रयोर्मद्ध्ये सप्तकोणन्तु कारयेत् ॥ १२ ॥

गजघ्नस्य चतुर्दिक्षु वेदाश्रं कुण्डमुच्यते
त्रिपुरघ्नन्तथादिक्षु चतुष्कोणं त्रिकोणकम् ॥ १३ ॥

जलन्धरवधञ्चैव एवमेव क्रमेण तु
ईशान इन्द्रयोर्मद्ध्ये सप्ताश्रं कारयेत्ततः ॥ १४ ॥

एवमेव क्रमेणैव कुण्डं कुर्यात्तु देशिकः
सत्यकस्य पदे चैव रत्नन्यासन्तु कारयेत् ॥ १५ ॥

शालिना विकिरेत्तत्र विन्त्यसेत् तण्डुलं तिलं
तस्योपरि न्यसेद्देवं षण्णवत्यभिधीयते ॥ १६ ॥

वज्रं मरतकञ्चैव वैडूर्यञ्च प्रवालकम्
स्फटिकं पद्मरागञ्च पुष्यरागन्तथैव च ॥ १७ ॥

माणिक्कं मद्ध्यमे स्थाप्य शिवमन्त्रेण देशिकः
गन्धपुष्पादिनाभ्यर्च्य प्रतिमां तत्र विन्न्यसेत् ॥ १८ ॥

सुस्निग्धं शिल्पिनं कुर्यात् पुण्याहं वाचयेत्ततः
आचार्यं पूजयेत्पश्चात् शिल्पिनं पूजयेत्ततः ॥ १९ ॥

रत्नन्यासमिदं प्रोक्तं नेत्रमोक्षणमुच्यते
आदित्यस्य पदे चैव नेत्रमोक्षणमाचरेत् ॥ २० ॥

नयनद्वययुक्ते तु दिनलग्ने शुभे तथा
शालिना विकिरेत्तत्र दर्भैश्चैव परिस्तरेत् ॥ २१ ॥

नृत्तरूपं तदूर्ध्वे तु विन्न्यसेच्छिवमन्त्रकैः
प्रच्छन्नपटसंयुक्तं पूर्वाभिमुखमेव च ॥ २२ ॥

[[५३२]]

स्थापयेत्कलशानष्टौ लोकपालाधिदैवतान्
सकूर्चान्सापिधानांश्च वस्त्रेणैव समायुतान् ॥ २३ ॥

सुवर्णसूचिना विप्र शिल्पिना प्रहरेत्ततः
पक्ष्मरेखाप्रकर्तव्या कृष्णमण्डलमेव च ॥ २४ ॥

ज्योतिर्मण्डलमालिख्य नेत्रमन्त्रसमायुतम्
अक्षिहोमन्ततः कुर्यात् आज्येन चरुणा तथा ॥ २५ ॥

नेत्रमन्त्रेण विप्रेन्द्र अष्टोत्तरशतं पृथक्
तत्काले दक्षिणान्दत्वा पुण्याहं वाचयेत्ततः ॥ २६ ॥

सर्वालङ्कारसंयुक्तं कुर्यात् ग्रामप्रदक्षिणम्
प्रतिमां कण्ठमग्ने च जले चैवाधिवासयेत् ॥ २७ ॥

प्रपां कृत्वा विशेषेण देशिको विन्न्यसेत्ततः
सवस्त्रान् सापिधानांश्च ससूत्रानष्टदिक्षु च ॥ २८ ॥

एकरात्रं त्रिरात्रं वा पञ्च वा सप्तरात्रकम्
ततो मण्डलसंस्कारा रभवेन समन्वितम् ॥ २९ ॥

वास्तुहोमन्दशा कुर्यात् लक्षणेन समन्वितम्
दर्भमालाभिरावेष्ट्य चतुस्तोरणसंयुतम् ॥ ३० ॥

अष्टदिक्षु ध्वजान्न्यस्य वितानैरुपशोभितम्
मुक्तादामैरलङ्कृत्य पुष्पमालोपशोभितम् ॥ ३१ ॥

वेदिकारत्निचोत्सेधं दर्पणोदरवत्कृतम्
अष्टद्रोणैश्च शालीभिस्तन्मद्ध्ये विन्न्यसेत्ततः ॥ ३२ ॥

शाल्यर्द्धं तण्डुलन्न्यस्य तण्डुलार्द्धं तिलं न्यसेत्
पद्ममष्टदलं लिख्य दर्भैश्चैव परिस्तरेत् ॥ ३३ ॥

शयनं कल्पयेत्तत्र अण्डजाद्यैस्ततो बुधः
जलादुत्तीर्य देवेशं शुद्धिं कृत्वा विशेषतः ॥ ३४ ॥

प्रासादं प्रविशेत्तत्र पुष्पदन्तपदे स्थितः
आचार्योऽपि शुचिर्भूत्वा नववस्त्रेण वेष्टयेत् ॥ ३५ ॥

[[५३३]]

सोष्णीषञ्चोत्तरीयञ्च वस्त्राभरणभूषितम्
आचार्यमपि बीजेन सर्वाङ्गेषु च विन्न्यसेत् ॥ ३६ ॥

उपदेष्टृसमायुक्तं युक्तमाचार्यमुच्यते
उपदेष्टाशरीरन्तत् आचार्यो जीवमुच्यते ॥ ३७ ॥

संहितस्तु भवेद्विप्र सर्वसम्पत्कराय च
मन्त्रन्यासं प्रकर्तव्यं लक्षणेन समन्वितम् ॥ ३८ ॥

हस्ताभ्यां स्पर्शयेत्तत्र कादिपादान्तमेव च
अङ्गुष्ठादिकनिष्ठान्तं पञ्चब्रंहक्रमान्न्यसेत् ॥ ३९ ॥

मद्ध्यमादितर्जन्यन्तं षडङ्गं विन्यसेत्क्रमात्
अस्त्रं हस्ततले चैव विन्यसेत्तु विशेषतः ॥ ४० ॥

अष्टत्रिंशत्कलां चैव विन्यसेद्देशिकोत्तमः
प्राकृतं भावमुत्सृज्य शिवोहमिति भावयेत् ॥ ४१ ॥

प्रतिमां पञ्चगव्येन स्थापयेच्छिवमन्ततः
स्वर्णसूत्रसमायुक्तं कौतुकं बन्धयेद्धृदा ॥ ४२ ॥

फलत्रयञ्च कर्पूरं कुङ्कुमञ्चन्दनेन च
समालोड्य च सर्वन्तु लेपयेत्तु समन्ततः ॥ ४३ ॥

सुमुहूर्ते सुलग्ने वा शयने शाययेच्छिवम्
प्रतिमां नववस्त्रेण पिधाय सकलन्ततः ॥ ४४ ॥

प्रासादेन तु मन्त्रेण गन्धपुष्पादिनार्चयेत्
नवकुम्भं समादाय सूत्रेणैव तु वेष्टयेत् ॥ ४५ ॥

शुद्धोदकेन सम्पूर्य सकूर्चं सापिधानकम्
सवस्त्रं सहिरण्यञ्च पञ्चरत्नसमायुतम् ॥ ४६ ॥

द्रव्येणैव समायुक्तं वर्णकादीनि विन्न्यसेत्
प्रतिमस्यैशदिग्भागे स्थापयेच्छिवकुम्भकम् ॥ ४७ ॥

शिवकुम्भे शिवं पूज्य पञ्चब्रंहषडङ्गकैः
वर्द्धनीं तस्य वामे तु गौरी बीजेन स्थापयेत् ॥ ४८ ॥

[[५३४]]

पूर्वादीशानपर्यन्तमष्टविद्येश्वरैर्युतम्
ताम्बूलं दापयेत्तत्र सद्योजातेन मन्त्रतः ॥ ४९ ॥

ततो होमं दिवा कुर्यात् भ्रंशमद्ध्ये पदे तथा
ततो होमं प्रकुर्वीत लक्षणेन समन्वितम् ॥ ५० ॥

पालाशाश्वत्थ बिल्वञ्च प्लक्षोदुम्बरमेव च
खादिरञ्च शमीञ्चैव वटापामार्गमेव च ॥ ५१ ॥

पूर्वादीनि क्रमान्येतान् मद्ध्ये पालाशमेव च
सर्वेषामेव होमानामिध्मम्पालाशमुच्यते ॥ ५२ ॥

समिदाज्य चरून् लाजान् सर्षपांश्च यवास्तिलान्
मुद्गमाषञ्च विप्रेन्द्र नवद्रव्यमिहोच्यते ॥ ५३ ॥

समिधं हृदयेनैव आज्यञ्च शिर उच्यते
चरुहोमं शिखा चैव लाजं वै कवचेन तु ॥ ५४ ॥

नेत्रेण सर्षपञ्चैव अस्त्रेणैव यवन्तथा
ईशानेन तिलं हुत्वा मुद्गं सद्येन हूयते ॥ ५५ ॥

माषं वामेन होतव्यमेवमेव क्रमेण तु
सहस्रं वा तदर्द्धं वा तदर्द्धार्द्धमथापि वा ॥ ५६ ॥

शतमष्टोत्तरं वापि पञ्चाशत्पञ्चविंशतिम्
षोडशद्वादशं वापि दशसङ्ख्याविशेषतः ॥ ५७ ॥

द्रव्यान्ते चैव द्रव्यन्ते व्याहृतिं जुहुयात्ततः
भवश्शर्वः पशुपतिरीशोपि विजयस्तथा ॥ ५८ ॥

उग्रोरुद्रस्तथा भीमो ह्येते होमस्य देवताः
वामाज्येष्ठारौद्रकाबी कलविकरणी तथा ॥ ५९ ॥

बलविकरणी बलप्रमथिनी सर्वभूतमनोन्मनी
क्रमात्कुण्डेषु विप्रेन्द्र शक्तीनामिह चोच्यते ॥ ६० ॥

द्रव्यान्ते प्रतिमां स्पृष्ट्वा पञ्चब्रंहषडङ्गकैः
चतुर्दिक्षु चतुर्वेदैः कुर्यादद्ध्ययनं ततः ॥ ६१ ॥

[[५३५]]

व्योमं प्रासादमन्त्रञ्च ब्रंहाङ्गञ्च तथैव च
दीक्षितैर्ब्रांहणैश्चैव चतुर्दिक्षुजपेत्ततः ॥ ६२ ॥

तानि सर्वाणि स्तोत्राणि गेयनृत्तसमाकुलैः
सर्वद्रव्यसमायुक्तं हव्यवाहं समुच्चरन् ॥ ६३ ॥

स्विष्टमग्नेति मन्त्रेण जुहुयात्तदनन्तरम्
चित्तादींश्च जयादींश्च राष्ट्रभृच्चावहूयते ॥ ६४ ॥

हूयते क्रमशो विप्र व्याहृतिं जुहुयात्ततः
शिवदीक्षेण होतव्यं लक्षणेन समन्वितम् ॥ ६५ ॥

पर्यष्टिपरिचाराणां शिवदीक्षाविदो विदुः
एवं कृते तु विप्रेन्द्रराजराष्ट्रसुखावहम् ॥ ६६ ॥

अधिवासनहोमन्तु प्रधानाग्नौ तु होमयेत्
यदस्य कर्मणस्येति स्विष्टकृद्धूयते क्रमात् ॥ ६७ ॥

प्रभाते दक्षिणान्दद्यादाचार्यादिषु सर्वशः
आचार्यं पूजयेत्पूर्वं वस्त्राङ्गुलीयकादिभिः ॥ ६८ ॥

पञ्चाङ्गभूषणन्दद्यादाचार्यस्य विशेषतः
अधमन्दशनिष्कञ्च मद्ध्यमं द्विगुणं भवेत् ॥ ६९ ॥

उत्तमं त्रिगुणं प्रोक्तमाचार्यस्य तु दक्षिणा
स्तोत्राद्यद्ध्ययनादीनान्तदर्द्धं दक्षिणान्ददेत् ॥ ७० ॥

साधकानां त्रिनिष्कन्तु शैविकानान्ददेत्पुनः ॥ ७१ ॥

इति गजसंहारप्रतिष्ठाविधिपटलः त्र्यशीतितमः