०८२ कङ्काळप्रतिष्ठाविधिपटलः

कङ्कालप्रतिष्ठाविधिपटलप्रारम्भः
प्रतिष्ठाविधिमहं वक्ष्ये परं कङ्कालमूर्तिनः
सर्वलोकहितं पुण्यं सर्वपापनिकृन्तनम् ॥ १ ॥

उत्तरायणकाले तु शुक्लपक्षे शुभे दिने
शुभवारादिभिर्युक्ते स्थापनन्तु समारभेत् ॥ २ ॥

प्रागुक्तविधिना धीमान् अङ्कुराण्यर्पयेत्क्रमात्
विचित्रे मण्टपे रम्म्ये रत्नन्यासं समारभेत् ॥ ३ ॥

स्थण्डिलं शालिभिः कृत्वा तस्योर्ध्वे प्रतिमां न्यसेत्
माणिक्कं पुष्यरागञ्च वैडूर्यं नीलमेव च ॥ ४ ॥

[[५२४]]

स्फटिकं मौक्तिकं शङ्खं चन्द्रकान्तं प्रवालकम्
मद्ध्यादीशानपर्यन्तं शक्तिमन्त्रेण विन्न्यसेत् ॥ ५ ॥

तस्योपरिन्यसेद्देवं सुस्निग्धं कारयेद्बुधः
कृष्णञ्चैव तु वीरेशं बलिपात्रधरन्तथा ॥ ६ ॥

सुस्निग्धं सुदृढं स्थाप्य भद्रपीठस्य चोपरि
बलिप्रदानजायाञ्च स्थापयेदन्यपीठके ॥ ७ ॥

सुस्निग्धं सुदृढं स्थाप्य नेत्रमोक्षणमारभेत्
मण्टपे लङ्कृते मद्ध्ये स्थण्डिलं शालिभिः कुरु ॥ ८ ॥

तस्योर्ध्वे विन्न्यसेद्देव नन्दनन्दास्ववामके
हैमसूचिप्रहाराभ्यां पक्ष्मरेखां समालिखेत् ॥ ९ ॥

कृष्णमण्डलमालिख्य नेत्रमण्डलमालिखेत्
नेत्रेणैव तु मन्त्रेण लेखयेत्तु विचक्षणः ॥ १० ॥

वीरेशं हरिणीञ्जायां कुर्यान्नयनमोक्षणम्
हेमाङ्गुलीय वस्त्राद्यैस्सम्पूज्योद्वास्य शिल्पिनम् ॥ ११ ॥

तस्याग्रे स्थण्डिलं कृत्वा शालिभिर्विमलैस्ततः
तस्योर्ध्वे पूर्ववन्न्यस्त्वा प्रोक्षयेत्पुरुषेण तु ॥ १२ ॥

अभितः कलशानष्टौ ससूत्रोदकपूरितान्
सकूर्चान् सापिधानांश्च सवस्त्रानिन्द्रादिषु न्न्यसेत् ॥ १३ ॥

लोकपालान् स्वबीजैश्च कलशेषु क्रमान्न्यसेत्
नेत्रेषु नेत्रमन्त्रेण प्रोतहैमनखैरपि ॥ १४ ॥

मधुवाता ऋतायेति तर्पयेन्मधुनाक्षिषु
घृतं मिमिक्षेतिमन्त्रेण सर्पिषा तर्पयेत्ततः ॥ १५ ॥

मधुना च घृतेनैव प्रस्थसम्पूर्णपात्रके
हैमे वारजते ताम्रे ह्यथवाकांस्य पात्रके ॥ १६ ॥

अघोरवाममन्त्राभ्यां पात्र द्वयं प्रदर्शयेत्
धेनुगौर्द्धेनुहव्येति धान्यराशिन्तु वर्मणा ॥ १७ ॥

[[५२५]]

ब्रह्मजज्ञानमन्त्रेण भूसुरान्सम्प्रदर्शयेत्
अन्न्येषाञ्चैव नेत्रेषु मद्ध्वाज्याभ्यान्तु तर्पयेत् ॥ १८ ॥

प्रच्छन्नपटमावर्ज्य जनसङ्घान् प्रदर्शयेत्
अष्टमृत्सलिलैर्द्देवं पञ्चगव्येन वर्मणा ॥ १९ ॥

स्थापितैः कलशाद्भिस्तु बिम्बान् संस्थापयेत्ततः
वस्त्रैराभरणैर्माल्यैर्भूषयेद्भूषणार्हकैः ॥ २० ॥

रङ्गे वा शिबिकायां वा सर्वानारोप्य देशिकः
उक्तालङ्कारसंयुक्तं सर्वातोद्य समायुतम् ॥ २१ ॥

वितानछत्रपिञ्छैश्च नृत्तगेयसमायुलम्
चामरैश्च ध्वजोपेतं ब्रह्मघोषसमायुतम् ॥ २२ ॥

नानाभक्तजनैस्सार्द्धं कुर्याद्धामप्रदक्षिणम्
नद्यां वापि तटाके वा ह्रदे वा दीर्घिकातटे ॥ २३ ॥

गिरिप्रस्रवणे चैव वाप्यां वाथ समुद्रके
तीरे समतलं कृत्वा स्थण्डिलं कारयेद्बुधः ॥ २४ ॥

स्थण्डिले स्थाप्य देवांश्च वर्तयेत् भूषणादिकम्
नवाम्बरं ततो दत्वा लम्बकूर्चं न्यसेद्धृदा ॥ २५ ॥

सर्वालङ्कारघं युक्तं कुर्यात् ग्रामप्रदक्षिणम्
जलाशयमनुप्राप्य तत्तीरे स्थण्डिलं कुरु ॥ २६ ॥

तस्योर्ध्वे विन्न्यसेत्कुम्भान् गन्धादिभिर्यजेद्धृदा
नवेनाहतवस्त्रेण वेष्टयित्वा पृथक् पृथक् ॥ २७ ॥

जलमद्ध्ये प्रपां कृत्वा चतुर्गात्रसमन्विताम्
वितानद्ध्वजसंयुक्तां दर्भमालासमायुताम् ॥ २८ ॥

कण्ठमात्रे जले चैव प्राक् च्छिरश्चोर्ध्ववक्त्रकाम्
प्रतिमांशाययित्वा तु नन्दानन्दास्य वामके ॥ २९ ॥

अभितः कलशानष्टौ चाष्टदिक्पालकात्मकान्
सूत्रादिभिस्समायुक्तान् परितस्थाप्य पूजयेत् ॥ ३० ॥

[[५२६]]

प्रासादस्याग्रके वापि मण्टपे दक्षिणेऽपि वा
द्वादशन्दशहस्तं वा रन्ध्रहस्तमथापि वा ॥ ३१ ॥

षोडशस्तम्भसंयुक्तञ्चतुर्द्वारसमन्वितम्
तलोच्चन्तालमात्रन्तु कारयित्वा विचक्षणः ॥ ३२ ॥

कृत्वा नवपदम्मद्ध्ये पादके वेदिकां कुरु
रत्निमात्रसमुत्सेधान्दर्पणोदरसन्निभाम् ॥ ३३ ॥

परितश्चोपवेष्टन्तु वेद्याम्मूले प्रकल्पयेत्
युगाङ्गुलन्तु विस्तारमुत्सेधन्तु तदर्द्धकम् ॥ ३४ ॥

मानुषे तु पदे चैव कुण्डानि परितः कुरु
चतुरश्रं योनिखण्डे भूताश्रं वृत्तपद्मकम् ॥ ३५ ॥

अग्न्यश्रञ्चैव वस्वश्रमिन्द्रादीशादि कल्पयेत्
ईशानशक्रयोर्मद्ध्ये वृत्तं प्राधानिकं कुरु ॥ ३६ ॥

स्नानश्वभ्रं प्रकर्तव्यं मण्टपस्योत्तरे तथा
पश्चाच्छिल्पिनमुद्वास्य गोमयेनोपलेपयेत् ॥ ३७ ॥

मण्टपं कारयेद्धीमान् सर्वालङ्कारसंयुतम्
भूसुरान् भोजयेत्पश्चादुच्छिष्टन्तु विसर्जयेत् ॥ ३८ ॥

गोमयेनोपलिप्याथ शुद्धोदैः प्रोक्षयेद्धृदा
प्राक्कुण्डं वेदिकामद्ध्ये वास्तुहोमन्तु कारयेत् ॥ ३९ ॥

समन्तात् मण्टपं कुर्यात् पर्यग्निन्तेन वह्निना
पुण्याहं वाचयित्वाथ प्रोक्षयेत् पुरुषेण तु ॥ ४० ॥

द्वारपूजादिकं सर्वं स्थापनक्रमवद्बुधः
वेद्यूर्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ ४१ ॥

तदर्धैस्तण्डुलैर्भूष्य तदर्धैश्च तिलैरपि
तन्मद्ध्येब्जं समालिख्य साष्टपत्रं सकर्णिकम् ॥ ४२ ॥

दर्भैः पुष्पैश्च लाजैश्च विकिरेत् समलङ्कृतम्
स्थण्डिलं पूजयेत्तत्र वर्मणा गन्धपुष्पकैः ॥ ४३ ॥

[[५२७]]

शयनं कल्पयेन्मद्ध्ये चर्मचाद्यैरनुक्रमात्
गन्धपुष्पादिभिश्चैव पूजयेत् पुरुषेण तु ॥ ४४ ॥

अघोरेण तु मन्त्रेण वामदेवेन पूजयेत्
सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम् ॥ ४५ ॥

जलादुत्तीर्यबिम्बन्तु नन्दनाञ्चैव बुद्धिमान्
कृत्वा तु पूर्ववच्छुद्धिं प्रोक्षयेत् पुरुषेण तु ॥ ४६ ॥

कौतुकं बन्धयेद्धीमान् पूर्वोक्तविधिना हृदा
शयने शाययेद्बिम्बं प्राक् शिरश्चोर्द्ध्ववक्त्रकम् ॥ ४७ ॥

तस्य पश्चिमभागे तु नन्दनांशाययेद्बुधः
शिरो दक्षिणभागे तु ऊर्द्ध्ववक्त्रसमन्वितम् ॥ ४८ ॥

वस्त्रेण वेष्टयेद्बिम्बानीशानेनैव पूजयेत्
शक्रशाङ्करयोर्मद्ध्ये महेशाख्य घटन्न्यसेत् ॥ ४९ ॥

तस्यैवोत्तरभागे तु वर्द्धनीं विन्न्यसेत्ततः
सकूर्चौ सापिधानौ च सवस्त्रौ रत्नहेमकौ ॥ ५० ॥

चन्दनोदकसम्पूर्णौ आम्रपल्लवशोभितौ
महेशकुम्भे तन्मूर्तिरूपन्ध्यात्वा तु बीजकम् ॥ ५१ ॥

विन्यस्त्वा गन्धपुष्पाद्यैः पूजयेत् पुरुषेण तु
वर्द्धन्न्यां विन्न्यसेत् गौरीं बीजन्ध्यात्वा तु देशिकः ॥ ५२ ॥

गन्धपुष्पादिभिश्चैव ईशानेनैव पूजयेत्
वीरेशस्य शिरोभागे न्यसेद्वीरेशकुम्भकम् ॥ ५३ ॥

सूत्रावभूस्समोपेतं तन्मद्ध्ये तु —
आस्वागन्धादिभिश्चैव पूजयेत्पुरुषेण तु ॥ ५४ ॥

नन्दनाशाशिरोभागे विन्न्यसेन्नदनाघटम्
सूत्रादिभिस्समोपेतान् तत् बीजं घटमद्ध्यमे ॥ ५५ ॥

विन्न्यस्त्वा गन्धपुष्पाद्यैः पूजयेद्धृदयेन तु
सूत्रादिभिस्समोपेतानभितश्चाष्टकुम्भकान् ॥ ५६ ॥

[[५२८]]

शाकादिषु क्रमान्न्यस्त्वा विद्येशान् स्वस्वबीजकैः
विन्न्यस्त्वा तु क्रमेणैव गन्धादिभिर्यजेद्धृदा ॥ ५७ ॥

ऋगाद्यद्ध्ययनन्दिक्षुकोणे मन्त्रजपं कुरु
एव वस्त्रधरोष्णीषस्सोत्तरीयस्सुमालकः ॥ ५८ ॥

आचार्यो मूर्तिपैस्सार्द्धं होमकर्मसमारभेत्
अग्न्याधानादिकं सर्वं प्रागुक्तविधिनाचरेत् ॥ ५९ ॥

समिदाज्यचरुं लाजं सक्तुशालितिलं यवः
गुलं वापि अपूपञ्च सद्याद्यस्त्रान्तकैर्हुनेत् ॥ ६० ॥

पलाशखदिराश्वत्थ प्लक्षौ दुम्बरवञ्जुला
वारुणञ्च शमीबिल्वं समिदीशानमन्त्रकम् ॥ ६१ ॥

शतमर्द्धन्तदर्द्धं वा प्रत्येकञ्जुहुयात् क्रमात्
द्रव्यान्ते व्याहृतिं हुत्वा स्पर्शाहुतिमथाचरेत् ॥ ६२ ॥

वदनं हृदये पादं कद्रुद्रायेतिमन्त्रतः
आज्येन षोडशं हुत्वा स्पृष्ट्वास्पृष्ट्वा तु होमयेत् ॥ ६३ ॥

अथ ब्रह्मषडङ्गैश्च मूलेनैव दशाक्षरैः
बीजमुख्ये घृतेनैव प्रत्येकन्तु शताहुतिम् ॥ ६४ ॥

एवञ्जागरणं रात्रौ प्रभाते स्थापनं कुरु
कृत्वा स्नानत्रयं पश्चात् स्थापको मूर्तिपैस्सह ॥ ६५ ॥

अङ्गन्न्यासकरन्न्यासं प्रागुक्तविधिनाचरेत्
आचार्यं पूजयेद्वस्त्रहेमाङ्गुलीयकादिभिः ॥ ६६ ॥

दक्षिणान्दापयेत्तस्य प्रागुक्तविधिना सह
प्रागुक्तविधिमार्गेण मूर्तिपानथ पूजयेत् ॥ ६७ ॥

उद्धृत्य शयनात् बिम्बं स्थापयेत्प्राङ्मुखो गुरुः
वस्त्रादीनि व्यपोह्याथ गन्धादिभिर्यजेद्धृदा ॥ ६८ ॥

नन्दनाञ्च ततोद्धृत्य ईशानेन तु पूजयेत्
कुम्भान्कुण्डानि सम्पूज्य गन्धपुष्पादिभिस्सह ॥ ६९ ॥

[[५२९]]

जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिञ्च शिरसा स्विष्टमग्नेति होमयेत् ॥ ७० ॥

उद्वास्य पावकं पश्चात्स्नानश्वभ्रे नयेत्प्रभुम्
नन्दनावामभागे तु विन्न्यसेद्देशिकोत्तमः ॥ ७१ ॥

बिम्बं सम्पूजयेत्पश्चात् वर्मणा गन्धपुष्पकैः
प्रागुक्तविधिमार्गेण कुर्यात् घृतशिरोर्पणम् ॥ ७२ ॥

अष्टत्रिंशत् कलान्न्यासं मकुटादिक्रमान्न्यसेत्
भूतञ्च नन्दनायाञ्च देहे वर्णानि विन्न्यसेत् ॥ ७३ ॥

सर्वालङ्कारसंयुक्तं सर्वातोद्य समन्वितम्
नृत्तगेय समायुक्तं स्तोत्रमङ्गलवाचकैः ॥ ७४ ॥

वेद्याः कुम्भान्समुद्धृत्य बाह्यहर्म्यप्रदक्षिणम्
कृत्वा बिम्बाग्रके चैव स्थण्डिलोपरिविन्न्यसेत् ॥ ७५ ॥

कुभात् बीजं समादाय प्रतिमाहृदिविन्न्यसेत्
तद्धटस्थोदकैश्शम्भुं स्नापयित्वादिशैवकः ॥ ७६ ॥

गौरीबीजं समादाय मद्ध्यपद्म तु विन्न्यसेत्
वर्धनी स्थोदकैश्चैव तत्प्रदेशेऽभिषेचयेत् ॥ ७७ ॥

ईशानेन तु मन्त्रेण गन्धपुष्पादिभिर्यजेत्
वीरेशबीजमादाय विन्न्यसेद्धृत्प्रदेशके ॥ ७८ ॥

तत्कुम्भस्थजलैश्चैव वीरेशमभिषेचयेत्
विन्न्यसेद्धृदये मन्त्रं हरिञ्च हृत्प्रदेशके ॥ ७९ ॥

गन्धपुष्पादिभिश्चैव पूजयित्वा तु वर्मणा
नन्दनाबीजमादाय तस्याश्चैव हृदि न्यसेत् ॥ ८० ॥

तज्जलैः स्नाप्य गन्धाद्यैः पूजयेद्धृदयेन तु
अष्टविद्येशबीजानि पीठे चक्रादिषु न्यसेत् ॥ ८१ ॥

तद्धटस्थोदकैश्चैव देवेशमभिषेचयेत्
स्नपनं कारयेच्छम्भोर्यथावित्तानुसारतः ॥ ८२ ॥

[[५३०]]

अर्चनोक्तं समभ्यर्च्य फलं तत्र निवेदयेत्
आलयन्तु प्रविश्याथ प्रभूतहविषन्ददेत् ॥ ८३ ॥

उत्सवं कारयेत्पश्चात् एकाहं त्रियहन्तु वा
एवं भिक्षाटनस्योक्तं नन्दनायां विनाद्विजाः ॥ ८४ ॥

एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ८५ ॥

इति कङ्कालप्रतिष्ठापटलो द्व्यशीतितमः