गङ्गाधरप्रतिष्ठाविधिपटलप्रारम्भः
प्रतिष्ठाविधिमहं वक्ष्ये जाह्नवी धरमूर्त्तिनः
सर्वपापहरं पुण्यं सर्वसिद्धिकरं परम् ॥ १ ॥
देवानान्तु दिवाकाले सितपक्षे शुभे दिने
शुभवारादिभिर्युक्ते स्थापनन्तु समारभेत् ॥ २ ॥
पूर्वोक्तविधिनाधीमान्न्यङ्कुराण्यर्पयेत्ततः
मण्टपे स्थण्डिलं कृत्वा शालिभिस्तिलदर्भकैः ॥ ३ ॥
पद्मे वा भद्रपीठे वा रत्नन्यासं समारभेत्
माणिक्कमिन्द्रनीलञ्च वैडूर्यं नीलमेव च ॥ ४ ॥
शङ्खं वै स्फटिकञ्चेन्द्रं कान्तं वैडूर्यकान्तकम्
पुष्यरागं क्रमेणैव मद्ध्यादीशानमन्त्रकम् ॥ ५ ॥
रत्नादिविन्न्यसेद्धीमान्हृदयेन तु मन्त्रतः
[[५१७]]
तस्योपरिन्न्यसेद्देवं सुस्निग्धं सुदृढं कुरु ॥ ६ ॥
लोचनद्वयनक्षत्रे चाक्षिमोक्षणमारभेत्
मण्डिते मण्टपे चैव शालिभिस्थण्डिलं कुरु ॥ ७ ॥
तस्योर्ध्वे विन्न्यसेद्देवं प्राङ्मुखं हृदयेन तु
तस्य दक्षिणभागे तु स्थापयित्वा भगीरथम् ॥ ८ ॥
हेमसूचिप्रहाराभ्यां पक्ष्मरेखां समालिखेत्
असितं मण्डलं लिख्य नेत्रमण्डलमालिखेत् ॥ ९ ॥
नयनं मोक्षणं कुर्यात् जाह्नवीन्तु भगीरथम्
हेमाङ्गुलीय वस्त्रैश्च सम्पूज्यो द्वास्य शिल्पिनम् ॥ १० ॥
तस्याग्रे स्थण्डिलं कृत्वा बिम्बं तस्योपरिन्यसेत्
अभितः कलशानष्टौ सूत्रादिभिस्समन्वितान् ॥ ११ ॥
संस्थाप्य लोकपालांश्च यजेद्गन्धादिभिर्हृदा
हिरण्यनखयुक्ताभिरङ्गुलीभिः क्रमेण तु ॥ १२ ॥
हृदयेन तु मन्त्रेण प्रोतनेत्रत्रयेषु च
सुवर्णदूर्वयाधीमान् मध्वाज्याभ्यान्तु तर्पयेत् ॥ १३ ॥
यन्मधुनो मधव्येति तर्पयेन्मधुना बुधः
घृतं घृतेतिमन्त्रेण तर्पयेत्तु घृतेन तु ॥ १४ ॥
मधुनापूरितं पात्रमाज्यप्रत्यस्त्रपूरितम्
नेत्रमन्त्रेण दृश्याथ धान्यराशिं प्रदर्शयेत् ॥ १५ ॥
गौर्धेनुहव्यमन्त्रेण सवत्साङ्गां प्रदर्शयेत्
ब्रह्मजज्ञानमन्त्रेण ब्रांहणान्सम्प्रदर्शयेत् ॥ १६ ॥
प्रच्छन्नपटमावर्ज्य सर्वान्मर्त्यान्प्रदर्शयेत्
पञ्चमृत्पञ्चगव्यैश्च स्नापयेत्तु दशाक्षरैः ॥ १७ ॥
शुद्धतोयेन संस्नाप्य पूजयेद्धृदयेन तु
वस्त्राभरणमालाभिर्भूषयेत्तु विशेषतः ॥ १८ ॥
सर्वातोद्य समायुक्तं रथे वा रोप्य भक्तितः
[[५१८]]
ग्रामप्रदक्षिणं कुर्यात् उक्तालङ्कारसंयुतम् ॥ १९ ॥
ततो जलाशयं प्राप्य तीरे समतलं कुरु
स्थण्डिलं शालिभिः कुर्यात् बिम्बं तस्योपरिन्यसेत् ॥ २० ॥
नववस्त्रेण संवेष्ट्य देवञ्चैव भगीरथम्
कण्ठदघ्ने जले चैव प्रपां कृत्वा तु सुन्दराम् ॥ २१ ॥
चतुर्गात्रसमायुक्तां दर्भमालादिभिर्युताम्
तन्मद्ध्ये शाययेद्बिम्बं प्राक् शिरश्चोर्द्ध्ववक्त्रकम् ॥ २२ ॥
देवस्य वामभागे तु शाययेत्तु भगीरथम्
अभितः कलशानष्टौ सूत्रादिभिस्समन्वितान् ॥ २३ ॥
इन्द्रादिषु क्रमात्स्थाप्य लोकपालान्यसेद्धृदा
त्रिरात्रं वा द्विरात्रं वा एकरात्रमथापि वा ॥ २४ ॥
याममात्रं तदर्द्धं वा घटिकैकामथापि वा
आलयस्याग्रतो वापि दक्षिणे चोत्तरेऽपि वा ॥ २५ ॥
द्वादशन्दशहस्तं वा नवहस्तमथापि वा
षोडशस्तम्भसंयुक्तं मण्टपं कारयेद्बुधः ॥ २६ ॥
तन्मद्ध्ये वेदिकां कुर्यात्तत्रिभागैकभागया
रत्निमात्रसमुत्सेधन्दर्पणोदरसन्निभम् ॥ २७ ॥
कुण्डानि परितः कल्प्य दिशासु विदिशासु च
युगाश्रं शशिखण्डन्तु भूताश्रन्तु कुशेशयम् ॥ २८ ॥
महाशासु प्रकल्प्येवं वृत्तादिविदिशासु च
शक्रशाङ्करयोर्मद्ध्ये वृत्तं प्रधानकं कुरु ॥ २९ ॥
मण्टपस्योत्तरे पार्श्वे स्नानश्वभ्रं प्रकल्पयेत्
उद्वास्य शिल्पिनं पश्चात् गोमयेनोपलेपयेत् ॥ ३० ॥
मण्टपं मण्डयित्वा तु सर्वालङ्कारसंयुतम्
भूसुरान्भोजयित्वा तु उच्छिष्टो द्वासनं कुरु ॥ ३१ ॥
गोमयालेपनं कृत्वा पुण्याहं वाचयेत्ततः
[[५१९]]
वास्तुहोमन्ततः कुर्यात्समरीयपदे बुधः ॥ ३२ ॥
पर्यग्निकरणं कुर्यात्मण्टपन्तेन वह्निना
जलभाण्डस्थतोयैश्च प्रोक्षयेत्पुरुषेण तु ॥ ३३ ॥
स्थण्डिलं कारयेद्वेद्यामष्टद्रोणैश्च शालिभिः
तदर्द्धैस्तण्डुलैश्चैव तदर्द्धैश्च तिलैरपि ॥ ३४ ॥
तन्मद्ध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम्
कुशैस्सुमनसैर्ल्लाजैः परिस्तीर्य ततोपरि ॥ ३५ ॥
स्थण्डिलं पूजयेत्तत्र गन्धपुष्पादिभिर्हृदा
शयनं कल्पयेन्मद्ध्ये चर्मचाद्यैरनुक्रमात् ॥ ३६ ॥
द्वारपूजादिकं सर्वं स्थापनक्रमवत् बुधः
जलादुत्तीर्य बिम्बन्तु भगीरथ समन्वितम् ॥ ३७ ॥
स्नानश्वभ्रे नयेद्देवं तस्याग्रे तु भगीरथम्
व्यपोह्य वस्त्रकूर्च्चादीन् पूर्ववच्छुद्धिमाचरेत् ॥ ३८ ॥
ईशानेन तु मन्त्रेण गन्धपुष्पादिभिर्यजेत्
त्रियम्बकेन मन्त्रेण कौतुकं बन्धयेत्सुधीः ॥ ३९ ॥
कृत्वा भगीरथस्यैवं भस्मानन्दापयेत्तयोः
स्नानवेद्यास्समुद्धृत्य शाययेच्छयनोपरि ॥ ४० ॥
वामदेवेन मन्त्रेण प्राक्छिरश्चोर्द्ध्ववक्त्रकम्
रक्ताम्बरेण सञ्छाद्य सितवस्त्रेण वेष्टयेत् ॥ ४१ ॥
ईशानेन तु मन्त्रेण गन्धपुष्पादिभिर्यजेत्
महेशाख्याञ्च शान्ताख्यान्नालमुद्रां प्रदर्शयेत् ॥ ४२ ॥
अस्त्रेणैव तु मन्त्रेण दिग्विरेचनमारभेत्
प्रागुक्तलक्षणोपेतान् घटान्सङ्ग्राह्य देशिकः ॥ ४३ ॥
सूत्रेण वेष्टयित्वा तु शुद्धतोयैस्सुपूरयेत्
शिवकुम्भन्न्यसेदीशे सकूर्च्चं सापिधानकम् ॥ ४४ ॥
सवस्त्रां रत्नसंयुक्तां वर्द्धनीन्तस्य वामके
[[५२०]]
वस्त्रकूर्च्चसमायुक्तां सापिधानान्तु विन्न्यसेत् ॥ ४५ ॥
पद्मं हैमेन कृत्वा तु वर्द्धन्न्याञ्चैव विन्न्यसेत्
कुम्भे महेशबीजन्तु ध्यात्वा रूपन्तु विन्न्यसेत् ॥ ४६ ॥
गन्धपुष्पादिभिश्चैव पूजयेद्धृदयेन तु
सुरभिन्नालमुद्राञ्च महेशाख्यां प्रदर्शयेत् ॥ ४७ ॥
गौरी बीजन्तु वर्द्धन्न्यां ध्यात्वा रूपन्तु विन्न्यसेत्
गन्धपुष्पादिभिश्चैव हृदयेन तु पूजयेत् ॥ ४८ ॥
शक्तिमुद्रां प्रदर्श्याथ शान्तमुद्रां प्रदर्शयेत्
दक्षिणे शिवकुम्भस्य गङ्गा कुम्भन्तु विन्न्यसेत् ॥ ४९ ॥
सकूर्च्चान्सापिधानाञ्च वस्त्रेणैव तु वेष्टितान्
पद्मं कृत्वा तु तारेण कुम्भमद्ध्ये तु विन्न्यसेत् ॥ ५० ॥
कुम्भस्य मद्ध्यमे ध्यात्वा गङ्गाबीजन्तु विन्न्यसेत्
गन्धपुस्पादिभिश्चैव पूजयेत्पुरुषेण तु ॥ ५१ ॥
ततः सूत्रादिभिर्युक्तानिन्द्रादिष्वष्ट कुम्भकान्
हैमेन टङ्कशूलाभ्यां संयुक्तञ्चैव न्न्यसेत् ॥ ५२ ॥
विद्येशान्स्वस्वबीजैश्च न्यस्त्वासम्पूजयेद्धृदा
नैवेद्यन्दापयित्वा तु ताम्बूलन्दापयेत्पृथक् ॥ ५३ ॥
पश्चिमे वेदिकापार्श्वे शालीभिस्थण्डिलं कुरु
दर्भैश्चैव परिस्तीर्य वस्त्रेणैव परिस्तरेत् ॥ ५४ ॥
भगीरथन्तु तस्योर्द्ध्वे शाययेद्दक्षिणोत्तरम्
दक्षिणे तु शिरश्चोर्द्ध्ववक्त्रं वस्त्रेण वेष्टयेत् ॥ ५५ ॥
गन्धपुष्पादिभिस्तस्य ईशाने नैवपूजयेत्
शिरः प्रदेशकस्यैव कुम्भं विन्न्यस्य देशिकः ॥ ५६ ॥
ससूत्रं सापिधानञ्च सवस्त्रं कूर्चसंयुतम्
कुम्भमद्ध्ये न्यसेत्तस्य बीजन्ध्यात्वा स्वरूपकः ॥ ५७ ॥
गन्धपुष्पादिभिस्तस्य ईशानेनैव पूजयेत्
[[५२१]]
दिशास्वद्ध्ययनं कुर्यात्कोणे मन्त्रजपं कुरु ॥ ५८ ॥
नववस्त्रधरोष्णीषस्सर्वाभरणभूषितः
देशिको मूर्त्तिपैस्सार्द्धं होमकर्मसमारभेत् ॥ ५९ ॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
पलाशं वैकताशोकन्न्यग्रोधं खादिरं शमी ॥ ६० ॥
बिल्वोदुम्बरमायूरं समिधस्सम्प्रकीर्तिताः
प्रधानादीशपर्यन्तं कल्पयेत्तु क्रमेण तु ॥ ६१ ॥
ईशाने समिधं हुत्वा घृतम्मूलेन होमयेत्
चरुं हुत्वा तु शिखया धान्न्यकं कवचेन तु ॥ ६२ ॥
हृदयेन गुलं हुत्वा क्षीरं सद्येन होमयेत्
सर्षपं पुषेणैव द्रव्यान्ते व्याहृतिं हुनेत् ॥ ६३ ॥
प्रत्येकं शतमर्द्धं वा तदर्द्धं वापि होमयेत्
मकुटं वदनं ग्रीवां हृदयन्नाभिगुह्यकम् ॥ ६४ ॥
पादन्तेनैव मन्त्रेण हुत्वान्ते तु स्पृशेत्क्रमात्
पञ्चब्रह्मषडङ्गैश्च विद्याङ्गैश्च दशाक्षरैः ॥ ६५ ॥
आज्येन जुहुयाद्धीमान् प्रत्येकं शतसङ्ख्यया
क्द्रुद्रायेति मन्त्रेण सर्पिषापूर्ववद्धुनेत् ॥ ६६ ॥
कृत्वा तु स्पर्शयेत् गङ्गां व्याहृतिञ्जुहुयात्ततः
एवं जागरणं कृत्वा प्रभाते स्थापनं कुरु ॥ ६७ ॥
देशिको मूर्तिपैस्सार्द्धं विधिनास्नानमाचरेत्
अङ्गन्यासकरन्यासं पूर्वोक्तविधिना कुरु ॥ ६८ ॥
देशिकं पूर्जयेत्तत्र वस्त्राङ्गुलीयकादिभिः
दक्षिणान्दापयेत्तत्र पूर्वोक्तविधिना सह ॥ ६९ ॥
प्रागुक्तविधिमार्गेण मूर्तिपादीन् प्रपूजयेत्
शयनादेवमुद्धृत्य वस्त्रादीनि विसर्जयेत् ॥ ७० ॥
गन्धपुष्पादिभिश्चैव ईशानेनैव पूजयेत्
[[५२२]]
कुम्भान् कुण्डानि सम्पूज्य गन्धपुष्पादिभिस्सह ॥ ७१ ॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिञ्च शिरसा स्विष्टमग्नेति होमयेत् ॥ ७२ ॥
पावकन्तु विसृज्याथ स्नानश्वभ्रे नयेत्प्रभुम्
देवस्य पश्चिमे भागे स्थापयेत्तु भगीरथम् ॥ ७३ ॥
गन्धपुष्पादिभिश्चैव ईशानेन तु पूजयेत्
कुम्भान् कुण्डानि सम्पूज्य गन्धपुष्पादिभिस्सह ॥ ७४ ॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्वाहुतिञ्च शिरसा स्विष्टमग्नेति होमयेत् ॥ ७५ ॥
पावकन्तु विसृज्याथ स्नानश्वभ्रे नयेत्प्रभुम्
देवस्य पश्चिमे भागे स्थापयेत्तु भगीरथम् ॥ ७६ ॥
गन्धपुष्पादिभिर्देवं पूजयेत्पुरुषेण तु
आवाहनादिमुद्रांश्च दर्शयेदीशमन्त्रकैः ॥ ७७ ॥
घृतं शिरोर्पणं कुर्यात् प्रागुक्तविधिना सह
अष्टत्रिंशत्कलान्यासं मकुटादि क्रमान्न्यसेत् ॥ ७८ ॥
गन्धाद्यैश्चैव सद्येन पूजयेत्तु भगीरथम्
अक्षराणि ततो न्यस्त्वा प्रागुक्तविधिना सह ॥ ७९ ॥
ब्रंहघोषसमायुक्तं स्वस्तिमङ्गलवाचकैः
कुम्भानुद्धृत्य शिरसा बाह्यधामप्रदक्षिणम् ॥ ८० ॥
कृत्वा बिम्बस्य चाग्रे तु स्थण्डिलोपरिविन्न्यसेत्
कुम्भात् बीजं समादाय प्रतिमा हृदिविन्न्यसेत् ॥ ८१ ॥
तत्कुम्भस्थोदकैश्चैव स्नापयेत् परमेश्वरम्
गौरी बीजं समादाय न्यस्त्वा पद्मस्य मद्ध्यमे ॥ ८२ ॥
तज्जलैस्तत्प्रदेशे तु स्नापयेत्तु विचक्षणः
जाह्नवी बीजमादाय गङ्गाया हृदिविन्न्यसेत् ॥ ८३ ॥
तत्कुम्भस्थोदकैश्चैव जाह्नवीमभिषेचयेत्
[[५२३]]
अष्टविद्येश्वरांश्चैव पद्मे चक्रादिषु न्यसेत् ॥ ८४ ॥
तत्कुम्भस्थोदकैश्चैव देवेशमभिषेचयेत्
गन्धपुष्पादिभिश्चैव पूजयेत्तु हरं हृदा ॥ ८५ ॥
भगीरथस्य बीजन्तु न्यसेत् तद्धृत् प्रदेशके
तत्कुम्भस्थजलैश्चैव स्नापयेत्तु भगीरथम् ॥ ८६ ॥
गन्धपुष्पादिभिश्चैव ईशानेनैव पूजयेत्
स्नपनं कारयेदेवं यथा बीजानुसारतः ॥ ८७ ॥
अर्चनोक्तं समारभ्य प्रभूतहविषं ददेत्
उत्सवं कारयेत्पश्चात् एकाहं त्रियहन्तु वा ॥ ८८ ॥
गङ्गाभगीरथाभ्याञ्च विनोक्षारूढमूर्तिनः
कुर्यात् स्थापनमेवन्तु विशेषं किञ्चिदस्ति हि ॥ ८९ ॥
भगीरथस्य वत्सर्वं कुर्यात्तु वृषभस्य तु
मन्त्रभेदो भवेत्तत्र क्रिया भेदो न विद्यते ॥ ९० ॥
एवं यः क्रियते मर्त्यः पुत्रपौत्रयुतस्सुखम्
सोन्ते शिवपदं यान्ति सर्वैश्वर्य सुखावहम् ॥ ९१ ॥
इति गङ्गाधरप्रतिष्ठाविधिपटल एकाशीतितमः