अर्द्धनारीस्थापनविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि नार्यर्द्धस्थापनं परम्
श्रीकरञ्जयदं पुण्यं प्रजावृद्धिकरन्नृणाम् ॥ १ ॥
सुराणान्तु दिवाकाले सितपक्षे शुभे दिने
शुभवारादिभिर्युक्ते प्रतिष्ठां सम्यगारभेत् ॥ २ ॥
प्रागुक्तविधिना पश्चादङ्कुराण्यर्पयेत् बुधः
मण्डिते मण्टपे चैव रत्नन्न्यासं समारभेत् ॥ ३ ॥
तन्मद्ध्ये स्थण्डिलं कृत्वा शालिभिर्विमलैस्ततः
पीठन्तस्योपरिन्न्यस्त्वा माणिक्यं मद्ध्यमे न्यसेत् ॥ ४ ॥
इन्द्रनीलन्न्यसेदैन्द्रे वैडूर्यं वह्निगोचरे
याम्ये चैव महानीलं मौक्तिकञ्चैव नैर्ऋते ॥ ५ ॥
स्फटिकं वरुणे देशे वायव्ये पुष्यरागकम्
सौम्ये चैव प्रवालन्तु ईशाभ्याञ्चैव वज्रकम् ॥ ६ ॥
दिक्पालानाञ्च मन्त्रैश्च क्रमेणैव तु विन्न्यसेत्
तस्योपरिन्यसेत् बिम्बं सुस्निग्धं सुदृढं कुरु ॥ ७ ॥
ततोक्षिमोक्षणं कुर्यात् नेत्रयुग्मयुते दिने
मण्डिते मण्टपे मद्ध्ये स्थण्डिलं शालिभिः कुरु ॥ ८ ॥
तन्मद्ध्ये विन्न्यसेत् बिम्बं प्राङ्मुखं हृदयेन तु
हेमसूचिप्रहाराभ्यां पक्ष्मरेखां समालिखेत् ॥ ९ ॥
[[५१२]]
असितं मण्डलं लिख्य दृष्टिमण्डलमालिखेत्
नेत्रेणैव तु मन्त्रेण लेखयेत्स्थापकोत्तमः ॥ १० ॥
वस्त्रहेमाङ्गुलीयाद्यैः सम्पूज्योद्वास्य शिल्पिनम्
तदग्रे स्थण्डिलं कृत्वा प्रतिमान्तत्र विन्न्यसेत् ॥ ११ ॥
प्रोक्षयेत्पुरुषेणैव अभितश्चाष्टकुम्भकान्
सूत्रादिभिस्समोपेतान् इन्द्राशादिषु विन्न्यसेत् ॥ १२ ॥
लोकपलान्क्रमात्तेषु संस्थाप्याभ्यर्च्चयेद्धृदा
तर्जन्न्यनामिकामद्ध्ये सूर्यसोमाग्निदैवतैः ॥ १३ ॥
हिरण्यनखसंयुक्तां गुलिभिर्द्देशिकोत्तमः
नेत्रमन्त्रमनुस्मृत्य प्रोतनेत्रत्रयेषु च ॥ १४ ॥
हिरण्यदूर्वया विद्वान्मध्वाज्याभ्यान्तु तर्पयेत्
यन्मधुनो मधव्येति तर्पयेन्मधुना पुनः ॥ १५ ॥
घृतं स्रवेतिमन्त्रेण तर्पयेत्तु घृतेन तु
मधुना च घृतेनैव पात्रे तु प्रस्थपूरिते ॥ १६ ॥
पूर्वोदिताभ्यां मन्त्राभ्यां क्रमेणैव प्रदर्शयेत्
गौर्धेनुहव्यमन्त्रेण सवत्साङ्गां प्रदर्शयेत् ॥ १७ ॥
ब्रह्मजज्ञानमन्त्रेण भूसुरान्सम्प्रदर्शयेत्
प्रच्छन्नपटमावर्ज्य जनसङ्घान्प्रदर्शयेत् ॥ १८ ॥
व्योमव्यापिपदे चैव कुर्यात् गव्याभिषेचनम्
मृदाम्भसा तु संस्नाप्य कलशाद्भिस्तथैव च ॥ १९ ॥
माल्याभरणवस्त्रैश्च प्रतिमाम्भूषयेत्ततः
उक्तालङ्कारसंयुक्तं कृत्वा ग्रामप्रदक्षिणम् ॥ २० ॥
जलाशयं ततः प्राप्य तत्तीरे स्थण्डिलं कुरु
प्रतिमां स्थण्डिले स्थाप्य गन्धादिभिर्यजेद्धृदा ॥ २१ ॥
नववस्त्रेण संवेष्ट्य लम्बकूर्चसमन्वितम्
कण्ठदघ्नजले चैव प्रपां कृत्वा तु सुन्दराम् ॥ २२ ॥
[[५१३]]
वितानध्वजसंयुक्तां दर्भमालाभिरावृताम्
प्रतिमांशाययेन्मद्ध्ये प्राक्शिरश्चोर्ध्ववक्त्रकाम् ॥ २३ ॥
अभितः कलशानष्टौ सूत्रादिभिस्समन्वितान्
पूर्वादिषु न्यसेत्स्थित्वा इन्द्रादीन्संयजेद्धृदा ॥ २४ ॥
एकरात्रं द्विरात्रं वा त्रिरात्रं वा जलोषितम्
मन्दिरस्याग्रके वापि दक्षिणे चोत्तरेऽपि वा ॥ २५ ॥
भानुरुद्राष्टहस्तैर्वा रन्ध्रहस्तेन वा सुधीः
कलास्तम्भसमायुक्तं युगाश्रं मण्टपं कुरु ॥ २६ ॥
मद्ध्यमे वेदिकां कुर्यात्तत्रिभागैकभागया
रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥ २७ ॥
मानुषे च पदे चैव कुण्डानि परितः कुरु
वेदाश्रञ्चेन्दुखण्डं तु भूताश्रन्तु सरोरुहम् ॥ २८ ॥
एतानि कारयेद्दिक्षु कोणेष्वश्वत्थपत्रवत्
शक्रशाङ्करयोर्मद्ध्ये प्रधानं वर्तुलं कुरु ॥ २९ ॥
स्नानश्वभ्रं ततः कुर्यात् मण्टपस्यैव चोत्तरे
उद्वास्य तक्षकं पश्चात् गोमयेनानुलेपयेत् ॥ ३० ॥
मण्टपं मण्डयित्वा तु भूसुरान्भोजयेत्ततः
उच्छिष्टन्तु ततो द्वास्य गोमयेनोपलेपयेत् ॥ ३१ ॥
प्राक्कुण्डं वेदिकामद्ध्ये वास्तुहोमकन्तु कारयेत्
पर्यग्निकरणन्तेन वह्निना मण्टपं कुरु ॥ ३२ ॥
पुण्याहं वाचयित्वा तु प्रोक्षयेत्पञ्चगव्यकैः
वेद्यूर्ध्वे स्थण्डिलं कृत्वा चाष्टद्रोणैश्च शालिभिः ॥ ३३ ॥
तदर्द्धैस्तण्डुलैश्चैव तदर्धैश्च तिलैरपि
तन्मद्ध्येब्जं समालिख्य साष्टपत्रं सकर्णिकम् ॥ ३४ ॥
लाजैर्दर्भैश्च पुष्पैश्च विकिरेत्समलङ्कृतम्
स्थण्डिले तु यजेद्गन्धं पुष्पैस्तत्पुरुषेण तु ॥ ३५ ॥
[[५१४]]
द्वारपूजादिकं सर्वं स्थापनक्रमवद्बुधः
तन्मद्ध्ये शयनं कल्प्य चर्मचाद्यैरनुक्रमात् ॥ ३६ ॥
शयनं गन्धपुष्पाद्यैर्वामदेवेन पूजयेत्
जलादुत्तीर्य बिम्बन्तु स्नानश्वभ्रे तु विन्न्यसेत् ॥ ३७ ॥
वस्त्रादीनि व्यपोह्याथ पूर्ववच्छुद्धिमाचरेत्
गन्धपुष्पादिभिश्चैव ईशानेन तु पूजयेत् ॥ ३८ ॥
अस्त्रेणैव तु मन्त्रेण कौतुकं बन्धयेत्सुधीः
आरोप्य सुमुहूर्ते तु शयने हृदयेन तु ॥ ३९ ॥
तत्रैव शालयेद्बिम्बं प्राक्शिरश्चोर्ध्ववक्त्रकम्
वस्त्रेणैव तु संवेष्ट्य गन्धपुष्पैर्यजेद्धृदा ॥ ४० ॥
प्रधानकुम्भबिम्बस्य शिरोभागे तु विन्न्यसेत्
ससूत्रं सापिधानञ्च सवस्त्रं वारिपूरितम् ॥ ४१ ॥
सरत्नकूर्चसंयुक्तं पल्लवैरुपशोभितम्
तत्तन्मूर्त्याकृतिं ध्यात्वा कुम्भे माहेशबीजकम् ॥ ४२ ॥
विन्न्यस्य गन्धपुष्पाद्यैरीशानेन तु पूजयेत्
ससूत्रां सापिधानाञ्च सवस्त्रान्तोय पूरिताम् ॥ ४३ ॥
सकूर्चां हेमपुष्पाढ्यां वर्द्धनीं तस्य चोत्तरे
विन्न्यस्य तु भवान्याश्च बीजं तस्यैव मद्ध्यमे ॥ ४४ ॥
धात्वा तु विन्न्यसेत् गन्धं पुष्पाद्यैरर्चयेद्धृदा
अभितस्तु घटानष्टौ सूत्रादिभिस्समन्वितान् ॥ ४५ ॥
इन्द्रादिषु न्यसित्वा तु अष्टविद्येश्वरान्न्यसेत्
गन्धपुष्पादिभिस्तत्र ईशानेनैव पूजयेत् ॥ ४६ ॥
नैवेद्यन्दापयेद्धीमान्ताम्बूलन्दापयेत्पृथक्
दिशास्वद्ध्ययनं कुर्यात् चतुरो वेदपारगान् ॥ ४७ ॥
कोणे मन्त्रजपं कुर्यात् मूलमन्त्रैर्विशेषतः
वस्त्राभरणमालाद्यैः भूषितस्त्वादिशैवकः ॥ ४८ ॥
[[५१५]]
देशिको मूर्त्तिपैस्सार्द्धं होमकर्मसमारभेत्
अग्न्याधानादिकं सर्वं प्रागुक्तविधिनाचरेत् ॥ ४९ ॥
समिदाज्य चरून्लाजं सक्तुमाषतिलानपि
सिद्धार्द्धं यवशाली च होमयेत्तु विशेषतः ॥ ५० ॥
पलाशखदिराश्वत्थ वटाः पूर्वादिदिक्षु च
शम्यर्कौ दुम्बराप्लक्षा विदिक्षु परिकीर्तिताः ॥ ५१ ॥
प्रधानस्य पलाशन्तु सर्वेषामिद्ध्ममेव च
सद्यादिनेत्रपर्यन्तं मन्त्रैश्चैव क्रमाद्धुनेत् ॥ ५२ ॥
प्रत्येकं शतमर्द्धं वा तदर्द्धं वापि होमयेत्
द्रव्यान्ते व्याहृतिं हुत्वा स्पर्शाहुतिमथाचरेत् ॥ ५३ ॥
मकुटं वदनं कुण्डं बाहू चैवस्तनद्वयम्
पादौ चैव क्रमोक्तेषु मन्त्रैर्हुत्वा क्रमात्स्पृशेत् ॥ ५४ ॥
महेशस्यैव मूलेन अष्टोत्तरशतं हुनेत्
आज्येन जुहुयात्प्राग्वत् गौरीबीजेन सुव्रत ॥ ५५ ॥
स्तुत्वास्तोत्रैरनेकैश्च रात्रिशेषं व्यपोह्य च
देशिकोमूर्त्तिपैस्सार्द्धं विधिनास्नानमाचरेत् ॥ ५६ ॥
अङ्गन्यासकरन्न्यासं प्रागुक्तविधिनाचरेत्
अष्टत्रिंशत्कलान्न्यासं मकुटादिक्रमान्न्यसेत् ॥ ५७ ॥
गन्धपुष्पादिभिश्चैव हृदयेनैव पूजयेत्
सर्वातोद्य समायुक्तं मुक्तालङ्कारशोभितम् ॥ ५८ ॥
पूजयेद्देशिकं सम्यक्पूर्वोक्तविधिना सह
शिरसा वाहयित्वा तु कुम्भानुद्धृत्य मूर्त्तिपैः ॥ ५९ ॥
कृत्वा प्रदक्षिणं हर्म्यं बिम्बाग्रे स्थापयेत् घटान्
मुहूर्त्ते समनुप्राप्ते मन्त्रन्न्यासं समारभेत् ॥ ६० ॥
कुम्भाद्बीजं समादाय महेशांशे हृदिन्न्यसेत्
वर्द्धन्न्यं बीजमादाय उमांशे हृदि विन्न्यसेत् ॥ ६१ ॥
[[५१६]]
ताभ्यां संस्नापयेद्देवमष्टविद्येश्वरान्क्रमात्
पीठेशक्रादिषुन्न्यस्त्वा तज्जलैः स्नापयेत्प्रभुम् ॥ ६२ ॥
गन्धपुष्पादिभिश्चैव पूजयेद्धृदयेन तु
स्नपनं कारयेत्पश्चादर्च्चनोक्तं समर्चयेत् ॥ ६३ ॥
फलानि दापयित्वा तु आलयं प्रविशेत्ततः
प्रभूतहविषन्दत्वा ताम्बूलन्तु निवेदयेत् ॥ ६४ ॥
उत्सवं कारयेत्पश्चादेकाहं त्रियहन्तु वा
हर्यर्द्धस्थापनं ह्येवं कारयेद्देशिकोत्तमः ॥ ६५ ॥
ध्यानभेदो भवेदत्र मन्त्रभेदो न विद्यते
तथा चैव त्रियाभेदो पूजा प्रस्तार एव च ॥ ६६ ॥
वित्तार्त्थी लभते वित्तं भोगार्त्थी भोगमाप्नुयात्
अन्न्यार्त्थी लभते कन्न्यां जयार्त्थी लभते जयम् ॥ ६७ ॥
इति अर्द्धनारी स्थापनविधिपटल अशीतितमः