०७९ सोमास्कन्दस्थापनविधिपटलः

सोमास्कन्दस्थापनविधिपटलप्रारम्भः
सम्प्रवक्ष्ये उमास्कदं सहितस्थापनं परम्
देवानान्तु दिवाकाले सितपक्षे शुभे दिने ॥ १ ॥

शुभवारादिभिर्युक्ते प्रतिष्ठां सम्यगाचरेत्
अयने चोत्तरं श्रेष्ठं दक्षिणे तु त्वरान्विते ॥ २ ॥

मार्गशीर्षञ्च माघञ्च वर्जयेत्तु प्रयत्नतः
तयोरपि च कर्त्तव्यं त्वरिते तु प्रजापते ॥ ३ ॥

[[५०३]]

सर्वमासेषु सङ्ग्राह्यं शिवेन परिभाषितम्
सकलानान्तु सर्वेषामेवमेवं विधीयते ॥ ४ ॥

अङ्कुराण्यर्पयेत्पश्चात्पूर्वोक्तविधिना सह
सर्वालङ्कारसंयुक्ते मण्डले स्थण्डिलोपरि ॥ ५ ॥

भद्रपीठे समारोप्य रत्नादिविधिवन्न्यसेत्
पद्मेनैव युतञ्चेत्तु पद्मे रत्नानि विन्न्यसेत् ॥ ६ ॥

केवलं भद्रपीठञ्च तत्तत्पीठन्न्यसेद्बुधः
पङ्कजे पद्मबीठे वा नवकोष्ठा निकल्पयेत् ॥ ७ ॥

माणिक्कं पद्मरागञ्च वैडूर्यञ्च प्रवालकम्
महादिक्षु क्रमान्त्यस्त्वा पुष्यरागञ्च मौक्तिकम् ॥ ८ ॥

नीलञ्च स्फटिकन्न्यस्त्वा कोणेष्वाशापमन्त्रकैः
देव्याश्च नवकोष्ठेषु सौवर्णाब्जादिविन्न्यसेत् ॥ ९ ॥

गौरीगायत्रिमन्त्रेण क्रमेणैव तु विन्न्यसेत्
सौवर्णं रत्नविन्न्यासं न कर्त्तव्यं गुहस्य तु ॥ १० ॥

तदूर्द्ध्वे प्राङ्मुखन्देवं देवीं स्कन्दन्न्यसेत्ततः
सुस्निग्धं सुदृढं सम्यक्कारयेच्छिल्पवित्तमः ॥ ११ ॥

नेत्रद्वययुतर्क्षे तु कारयेदक्षिमोक्षणम्
मण्टपस्य तु तन्मद्ध्ये अष्टद्रोणैश्च शालिभिः ॥ १२ ॥

स्थण्डिलद्वितयं कुर्यात्साष्टपत्रं सकर्णिकम्
तदूर्द्ध्वे तु न्यसेद्देवं प्रागाशाश्रृतवक्त्रकम् ॥ १३ ॥

हाटके नैव सूच्याथ पक्ष्मरेखां समालिखेत्
कृष्णमण्डलमालिख्य ज्योतिर्मण्डलमालिखेत् ॥ १४ ॥

नेत्रमन्त्रमनुस्मृत्य लेखयेद्देशिकोत्तमः
पूजयित्वाङ्गुलीयाद्यैश्शिल्पिनं परिवर्जयेत् ॥ १५ ॥

उत्तरे स्थण्डिलन्न्यस्त्वा प्रोक्षयेत्पुरुषेण तु
ससूत्रान्सापिधानांश्च स्कूर्चान्वारिपूरितान् ॥ १६ ॥

[[५०४]]

सवस्त्रानष्टकलशान्लोकपालाधिपान्क्रमात्
अभितः स्वस्वमन्त्रैश्च गन्धपुष्पादिभिर्यजेत् ॥ १७ ॥

देशिकं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
तर्जन्न्यनामिकामद्ध्ये सूर्यहोमाग्निकाधिपैः ॥ १८ ॥

हिरण्यनखसम्प्रोक्तैर्न्यसेत्तद्बीजसंयुतम्
सौवर्णदूर्वया नेत्रं मध्वाज्याभ्यान्तु तर्पयेत् ॥ १९ ॥

मधुवाता ऋतायेति मधुना तर्पयेत् गुरुः
घृतमिमीक्षेतिमन्त्रेण तर्पयेत्तु घृतेन तु ॥ २० ॥

स्वर्णपात्रे तु तारे वा ताम्रे वा कांस्य पात्रके
सर्पिषा मधुना चैव प्रत्येकं प्रस्थपूरितम् ॥ २१ ॥

यन्मधुनो मधव्येति मधुपात्रं प्रदर्शयेत्
घृतं घृतेतिमन्त्रेण घनपात्रं प्रदर्शयेत् ॥ २२ ॥

गोर्द्धेनुहव्यमन्त्रेण सवत्साङ्गां प्रदर्शयेत्
ब्राह्मणान्दर्शयेत्पश्चात् ब्रह्मजज्ञानमन्त्रतः ॥ २३ ॥

दशबीजैर्विशेषेण धान्यराशिं प्रदर्शयेत्
कारयेद्देवदेवन्तु गौर्याश्चैव गुहस्य तु ॥ २४ ॥

प्रच्छन्नपटमावर्ज्य जनसङ्घान्प्रदर्शयेत्
मण्टपस्योत्तरे भागे देवं काशोपरिन्न्यसेत् ॥ २५ ॥

पञ्चगव्येन संस्नाप्य पञ्चब्रह्ममनुस्मरन्
अष्टमृत्सलिलेनैव स्नापयेत्तु दशाक्षरैः ॥ २६ ॥

स्नापयेत्कलशाद्भिस्तु ईशानेनाभिषेचयेत्
गन्धपुष्पादिभिश्चैव पूजयेद्धृदयेन तु ॥ २७ ॥

सर्वालङ्कारसंयुक्तं सर्वातोद्य समायुतम्
नृत्तगेय समायुक्तं च्छत्रपिञ्छसमायुतम् ॥ २८ ॥

मयूरव्यञ्ज नैर्युक्तं दुकूलव्यञ्जनैर्युतम्
वितानद्ध्वजसंयुक्तं नानाभक्तजनैर्युतम् ॥ २९ ॥

[[५०५]]

रथे वा शिबिकायां वा नीत्वा देवमलङ्कृतम्
धूपदीपसमायुक्तं कुर्यात् ग्रामप्रदक्षिणम् ॥ ३० ॥

जलाशयमनुप्राप्य तत्तीरे स्थण्डिलं कुरु
तस्योर्द्ध्वे तु न्यसेद्बिम्बं वस्त्रादीनि व्यपोह्य च ॥ ३१ ॥

पूजयेत्पुरुषेणैव पृथक् वस्त्रेण वेष्टयेत्
जलमद्ध्ये प्रपां कृत्वा वेदिकात्रसमन्विताम् ॥ ३२ ॥

वितानध्वजसंयुक्तान्दर्भमालासमन्विताम्
आचार्यः कण्ठमग्नाप्सुप्रपायाश्चैव मद्ध्यमे ॥ ३३ ॥

शाययेत्फलकोर्द्ध्वे तु बिम्बं प्रागूर्द्ध्ववक्त्रकम्
अभितः कलशानष्टौ लोकपालाधिदैवतान् ॥ ३४ ॥

सूत्रादिभिस्समोपेतान्स्थाप्य सम्पूजयेद्धृदा
त्रिरात्रं वा द्विरात्रं वा व्योमरात्रञ्जलोषितम् ॥ ३५ ॥

हर्म्यस्य दक्षिणे वापि सौम्ये वाप्यग्रकेऽपिवा
तस्यैव दक्षिणे वाथ उत्तरे मण्टपं कुरु ॥ ३६ ॥

द्वादशन्दशहस्तं वा नवहस्तमथापि वा
विकारस्तम्भसंयुक्तं पङ्क्तिमानमथोच्छ्रयम् ॥ ३७ ॥

सकण्ठं कतरून् त्यक्त्वा गात्राणि च परिग्रहेत्
विभजेन्मण्टपं धीमान्नवकोष्ठसमन्वितम् ॥ ३८ ॥

मद्ध्यैकवेदिका प्रोक्ता तद्युगांशैकमुच्छ्रयम्
तदधश्चोपवेदीन्तु परितस्सम्प्रकल्पयेत् ॥ ३९ ॥

युगाङ्गुलप्रविस्तारमुत्सेधन्तु तदर्द्धकम्
दर्पणोदरसङ्काशं समन्निम्नोन्नतन्न च ॥ ४० ॥

मानुषे तु पदे कुर्यात्पावकायतनानि च
हस्तमात्रप्रविस्तारं प्रागुक्तलक्षणैस्सह ॥ ४१ ॥

युगाश्रञ्चेन्दुखण्डञ्च वर्त्तुलञ्च सरोरुहम्
महाशासुप्रकल्प्याथ योनिं कोणेषु कल्पयेत् ॥ ४२ ॥

[[५०६]]

शक्रशाङ्करयोर्मद्ध्ये वृत्तं प्राधानिकं कुरु
प्राक्कुण्डं वेदिकामद्ध्ये वेदाश्रन्तु गुहस्य तु ॥ ४३ ॥

मण्टपस्योत्तरे पार्श्वे स्नानश्वभ्रं प्रकल्पयेत्
तत्पीठान्तरं द्विगुणं विस्तारं समुदाहृतम् ॥ ४४ ॥

आयामस्यार्द्धमानेन श्वभ्रायामं प्रकल्पयेत्
उत्तरे जलमार्गं स्यात्पीठविस्तारमायतम् ॥ ४५ ॥

युगाङ्गुलप्रविस्तारं जलनिर्गमनस्य तु
मेखला द्वयसंयुक्तमेकैकञ्चतुरङ्गुलम् ॥ ४६ ॥

उत्सेधं तत्समं प्रोक्तं नालाग्रेप्यवटं कुरु
बाहुमात्रप्रविस्तारं तत्समञ्चावटं भवेत् ॥ ४७ ॥

मण्टपं भूषयेत्पश्चात् चतुर्द्वारसमन्वितम्
युगतोरणसंयुक्तं गात्रवेष्टनसंयुतम् ॥ ४८ ॥

वितानध्वजसंयुक्तं मुक्तादामैरलङ्कृतम्
मङ्गलाष्टकसंयुक्तं मङ्गलाङ्कुरशोभितम् ॥ ४९ ॥

दर्भमालासमायुक्तं तरङ्गेणैव वेष्टयेत्
पञ्चगव्येन सम्प्रोक्ष्य पुण्याहं वाचयेत्ततः ॥ ५० ॥

भूसुरान्भोजयेत्पश्चादुच्छिष्टन्तु विसर्जयेत्
गोमया लेपनं कृत्वा पुण्याहं वाचयेत्ततः ॥ ५१ ॥

वास्तुहोमन्ततः कुर्यात्समरीयपदे बुधः
पर्यग्निकरणन्तेन वह्निनात्रैव कारयेत् ॥ ५२ ॥

द्वारपूजादिकं सर्वं स्थापनक्रमवद्बुधः
वेद्यूर्द्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ ५३ ॥

तदर्द्धैश्चाक्षतैश्चैव तदर्द्धैश्च तिलैरपि
तन्मद्ध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ ५४ ॥

दर्भैश्चैव परिस्तीर्य लाजपुष्पैस्समायुतम्
शयनं कल्पयेन्मद्ध्ये चर्मचाद्यैरनुक्रमात् ॥ ५५ ॥

[[५०७]]

जलादुत्तीर्य देवेशं स्नानश्वभ्रोपरिन्यसेत्
व्यपोह्य वस्त्रकूर्चादीन्गव्यैश्चैवाभिषेचयेत् ॥ ५६ ॥

शुद्धाम्भसा तु संस्नाप्य हृदयेनैव मन्त्रतः
सम्पूज्य गन्धपुष्पाद्यैरीशानेन तु मन्त्रतः ॥ ५७ ॥

शयनं गन्धपुष्पाद्यैर्वामदेवेन पूजयेत्
कौतुकं बन्धयेत्तत्र देवदेवीं गुहं तथा ॥ ५८ ॥

महेशमुद्रां नालाख्यां पद्ममुद्रां प्रदर्शयेत्
शयनोर्ध्वेनयेद्देवं गन्धादिभिर्यजेद्धृदा ॥ ५९ ॥

आदिशैवान्वयोद्भूतः पूर्वोक्तलक्षणैर्युतः
नववस्त्रधरोष्णीषस्सोत्तरीयस्सुमालकः ॥ ६० ॥

सर्वाभरणसंयुक्तस्सर्वगन्धानुलेपयेत्
उत्तराभिमुखो भूत्वा शयनस्य तु मद्ध्यमे ॥ ६१ ॥

शाययित्वा तु देवेशं प्रागूर्ध्ववदनं हृदा
वस्त्रेणैव समावेष्ट्य देवदेवीं गुहं क्रमात् ॥ ६२ ॥

सम्पूज्य गन्धपुष्पाद्यैरीशानेन तु मन्त्रतः
सर्वलक्षणसंयुक्तान्कुम्भान्सङ्ग्राह्य देशिकः ॥ ६३ ॥

ससूत्रानुदकोपेतान्सकूर्चान्सापिधानकान्
सवस्त्रान्पल्लवोपेतान्महेशोमागुहाधिपान् ॥ ६४ ॥

तत्तच्छिरप्रदेशे तु तत्तत्कुम्भान्न्यसेत्सुधीः
पञ्चरत्नप्रधाने तु वर्द्धन्यां हाटकाब्जकान् ॥ ६५ ॥

तथैव स्कन्दकुम्भे तु विन्न्यसेद्देशिकोत्तमः
यादृशं प्रतिमाकारं तादृशं भाव्यबुद्धिमान् ॥ ६६ ॥

महेशाख्यञ्च गौर्याश्च स्कन्दस्यैव तु बीजकम्
तत्कुम्भस्य च मद्ध्येषु न्यस्त्वा गन्धादिभिर्यजेत् ॥ ६७ ॥

अभितस्तु घटानष्टौ सूत्रानुदकपूरितान्
सकूर्चान्सापिधानां च ससूत्रान्पल्लवैर्युतान् ॥ ६८ ॥

[[५०८]]

विन्यस्यैन्द्रादिदिक्ष्वष्टविद्येशान्स्वस्वबीजकैः
विन्न्यस्य गन्धपुष्पाद्यैर्हृदयेनैव पूजयेत् ॥ ६९ ॥

शातकुम्भमयेनैव टङ्कशूलन्न्यसेत्पृथक्
नैवेद्यं दापयित्वा तु ताम्बूलन्तु निवेदयेत् ॥ ७० ॥

ऋगाद्यद्ध्ययनं कुर्यात्पूर्वादीनि क्रमेण तु
कोणे मन्त्रजपं कुर्यात्प्रागुक्तविधिना सह ॥ ७१ ॥

स्थापको मूर्त्तिपैस्सार्द्धं होमकर्मसमारभेत्
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ७२ ॥

वेदाग्निं जनयेद्धीमानन्योन्यायतनेषु च
प्राक्कुण्डं वेदिकामद्ध्ये कुण्डसंस्कारमन्त्रतः ॥ ७३ ॥

पलाशोदुम्बराश्वत्थप्लक्षञ्चेति दिशासु वै
शम्यर्कबिल्वमायूरार्विदिक्षुसमिधः स्मृताः ॥ ७४ ॥

पलाशन्तु प्रधानस्य स्कन्दाग्ने तु तथैव च
सद्यादिभिश्चतुर्दिक्षु ईशानेन प्रधानके ॥ ७५ ॥

गौरीगायत्रिमन्त्रेण कोणेषु समिधा हुनेत्
हृदयेनैव मन्त्रेण स्कन्दाग्नौ जुहुयात्ततः ॥ ७६ ॥

आज्यं मूलेन हुत्वा तु अन्नं वामेन होमयेत्
माषन्तु शिखयाहुत्वा लाजमस्त्रेण होमयेत् ॥ ७७ ॥

सर्षपं कवचेनैव तिलन्नेत्रेण होमयेत्
शतमर्द्धन्तदर्द्धं वा प्रत्येकञ्जुहुयात्ततः ॥ ७८ ॥

द्रव्यान्ते व्याहृतिं हुत्वा मूलैश्च षोडशं हुनेत्
बिम्बानां हृदयं स्पृष्ट्वा व्याहृतिञ्च हुनेत्ततः ॥ ७९ ॥

त्रियम्बकेन मन्त्रेण घृतेन जुहुयाच्छतम्
ऐन्द्राशासु महाशासु प्रधानेप्येवमाचरेत् ॥ ८० ॥

गौरीमिमायमन्त्रेण आज्येन जुहुयाच्छतम्
कोणेषु जुहुयात्तत्र स्कन्दाग्नौ तु घृतं हुनेत् ॥ ८१ ॥

[[५०९]]

अयं कुमारेतिमन्त्रेण जुहुयाच्छतसङ्ख्यया
स्तुत्यैस्तोत्रैश्च विविधैरात्रिशेषं व्यपोह्य च ॥ ८२ ॥

देशिको मूर्तिपैस्सार्द्धं विधिनास्नानमाचरेत्
अङ्गन्यासकरन्यासं पूर्वोक्तविधिना कुरु ॥ ८३ ॥

उद्धृत्य शयनाद्देवं पूर्वाभिमुखसंस्थितम्
व्यपोह्य वस्त्रकूर्चादि त्यजेत् गन्धादिभिर्हृदा ॥ ८४ ॥

कुम्भान्कुण्डानि तत्रैव गन्धपुष्पादिभिर्यजेत्
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ८५ ॥

दक्षिणान्दापयेत्तत्र पूर्वोक्तविधिना सह
प्रागुक्तविधिमार्गेण मूर्तिपादीन्प्रपूजयेत् ॥ ८६ ॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिञ्च शिरसा स्विष्टमग्नेति होमयेत् ॥ ८७ ॥

सर्वालङ्कारसंयुक्तं नृत्तगेय समन्वितम्
वेद्यांश्च प्रतिमा स्नानं श्वभ्रे तु छलकोपरि ॥ ८८ ॥

विन्यस्य पुरुषेणैव गन्धपुष्पादिभिर्यजेत्
घृतं शिरोर्पणं कुर्यात्पूर्वोक्तविधिना सह ॥ ८९ ॥

अष्टत्रिंशत्कलान्यासं मकुटादिक्रमान्न्यसेत्
गौरीकलान्न्यसेद्धीमान्गौरीदेहे विशेषतः ॥ ९० ॥

वर्णानि विन्यसेत्स्कन्ददेहे वै देशिकोत्तमः
उक्तालङ्कारसंयुक्तमुद्धृत्यात्रैव कुम्भकान् ॥ ९१ ॥

शिरसावाहयित्वा तु कुर्यात् हर्म्यप्रदक्षिणम्
देवस्याग्रे क्रमेणैव स्थण्डिलोपरिविन्न्यसेत् ॥ ९२ ॥

मुहूर्ते समनुप्राप्ते गुरवे सन्निवेशयेत्
प्राणप्रकृतियोगन्तु ज्ञात्वा स्थापनमारभेत् ॥ ९३ ॥

यथाकृष्टक्रमं ज्ञात्वा तथासंस्थापयेत् गुरुः
कुम्भात् बीजं समादाय प्रतिमे हृदिविन्न्यसेत् ॥ ९४ ॥

[[५१०]]

तत्कुम्भस्थजलैर्देवं स्नापयित्वा विशेषतः
वर्द्धन्यां बीजमादाय उमाया हृदिविन्न्यसेत् ॥ ९५ ॥

वर्द्धन्याश्च जलैश्चैव गौरीं तत्राभिषेचयेत्
स्कन्दकुम्भान्समादाय स्कन्दबीजं हृदिन्यसेत् ॥ ९६ ॥

तत्कुम्भस्थजलेनैव कुमारमभिषेचयेत्
मूर्तिकुम्भान्समादाय अभितामूर्तिपान्न्यसेत् ॥ ९७ ॥

तत्तत्कुम्भस्थतोयैश्च स्नापयेत्परमेश्वरम्
गन्धादिभिर्हृदायष्ट्वा दशमुद्रां प्रदर्शयेत् ॥ ९८ ॥

स्नपनं कारयेदन्ते पूजयेद्विधिपूर्वकम्
वस्त्राभरणमालाञ्च भस्मनादापयेद्धृदा ॥ ९९ ॥

फलानि विविधानीह पायसान्नन्ददेत्पृथक्
ताम्बूलन्दापयित्वा तु मुखवाससमन्वितम् १००
उत्सवं कारयेत्पश्चाद्यथावित्तानुसारतः
यागोपयोगद्रव्याणि देशिकाय प्रदापयेत् १०१
स्थापनञ्चेत्समाख्यातमुमयासहितं कुरु
स्कन्दकुम्भादिनं स्कन्दं वर्जितमस्त्रबुद्धिमान् १०२
कुमारेण विना विप्र चण्डानुग्रहमूर्तिनः
कुर्यात्स्थापनमेवन्तु विशेषमधुनोच्यते १०३
चण्डे दृङ्मोक्षणं कृत्वा नेत्रमन्त्रेण देशिकः
देवस्य वामभागे तु जलेनैवाधिवासयेत् १०४
देवस्य वामभागे तु चण्डेशं शाययेद्धृदा
तस्य दक्षिणपार्श्वे तु चण्डकुम्भन्तु विन्न्यसेत् १०५
सूत्रादिभिस्समोपेतं हैमटङ्कसमायुतम्
चण्डबीजन्न्यसेत्तत्र गन्धपुष्पादिभिर्यजेत् १०६
स्नानश्वभ्रस्य पूर्वे तु चण्डेशं विन्न्यसेद्बुधः
वर्णानि विन्न्यसेद्देहे प्रागुक्तविधिना सह १०७

[[५११]]

चण्डबीजं समादाय प्रतिमे हृदि विन्न्यसेत्
गन्धपुष्पादिभिश्चैव ईशानेनैव पूजयेत् १०८
देवस्य मालानैवेद्यं दापयेच्चण्डमूर्तिनः
एवं यः कुरुते मत्तर्यस्सपुण्याङ्गतिमाप्नुयात् १०९
कुलैकविंशदुत्तार्य शिवलोके महीयते ११०
इति सोमास्कन्दस्थापनविधिपटल एकोनाशीतितमः