०७८ वैवाह्यस्थापनविधिपटलः

वैवाह्यस्थापनविधिपटलप्रारम्भः
अथ संस्थापनं वक्ष्ये वरं वै वाह्यमूर्तिनः

[[४८९]]

ईशानं माधवञ्चाजं गौरीञ्च जातवेदसम् ॥ १ ॥

कृवा तु विधिना सम्यक् तत्तस्थापनमारभेत्
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने ॥ २ ॥

शुभवारादिभिर्युक्ते स्थापनन्तु समारभेत्
प्रागुक्तविधिना धीमान्कारयेदङ्कुरार्पणम् ॥ ३ ॥

रत्नन्यासं ततः कुर्यात् मण्टपे समलङ्कृते
स्थण्डिलं कारयेद्धीमान्प्रत्येकं शालिभिः क्रमान् ॥ ४ ॥

तन्मद्ध्ये विन्न्यसेद्देवान्पूर्वाभिमुखसंस्थितान्
पूजयित्वा यथान्न्यायं गन्धादिभिर्यजेद्धृदा ॥ ५ ॥

पद्मे वा भद्रपीठे वा रत्नन्यासन्तु कारयेत्
इन्द्रनीलन्न्यसेदैन्द्रे वैडूर्यं वह्निगोचरे ॥ ६ ॥

याम्म्ये मरतकं प्रोक्तं स्फटिकं नैर्ऋते न्यसेत्
वारुण्ये मौक्तिकं प्रोक्तं प्रवालमनिले न्यसेत् ॥ ७ ॥

पुष्यरागन्तु सौम्म्यायामैशान्यां चन्द्रकान्तकम्
माणिक्कं मद्ध्यमे चैव न्यसेद्दिक्पालमन्त्रकैः ॥ ८ ॥

ब्रंहजज्ञानमन्त्रेण ब्रह्मस्थाने तु विन्न्यसेत्
एवमेवन्यसेद्विष्णोरन्येषां कनकं न्यसेत् ॥ ९ ॥

अक्षिद्वययुतर्क्षे तु कारयेन्नेत्रमोक्षणम्
मण्टपे स्थण्डिलं कुर्यात्प्रत्येकं खारिशालिभिः ॥ १० ॥

तदर्द्धैस्तण्डुलैर्भूष्य तदर्द्धैश्च तिलैरपि
काशैः पुष्पैस्तथा लाजैर्विकिरेत्समलङ्कृतम् ॥ ११ ॥

तन्मद्ध्ये स्थापयेद्बिम्बं पूर्वस्याभिमुखस्थितम्
देवस्य दक्षिणे भागे ब्रंहाणं हरिमुत्तरे ॥ १२ ॥

गौर्याश्च दक्षिणे भागे लक्ष्मीञ्चैव तु विन्न्यसेत्
गन्धादिभिस्समभ्यर्च्य तत्तद्धृदयमन्त्रतः ॥ १३ ॥

हेमसूचिप्रहाराभ्यां पक्ष्मरेखां समालिखेत्

[[४९०]]

असितं मण्डलं लिख्य ज्योतिर्मण्डलमालिखेत् ॥ १४ ॥

एवं क्रमेण सर्वेषां कारयेच्छिल्पवित्तमः
शिल्पिनं पूजयेत्तत्र वस्त्रहेमङ्गुलीयकैः ॥ १५ ॥

दक्षिणान्दापयित्वा तु कुर्याच्छिल्पिविसर्जनम्
वह्नेस्तु रत्नविन्न्यासं नेत्रमोक्षन्न कारयेत् ॥ १६ ॥

स्थण्डिलाग्रे विशेषेण पूर्ववत्स्थण्डिलं कुरु
स्थण्डिले तु नयेद्देवान्प्रोक्षयेत्पुरुषेण तु ॥ १७ ॥

अभितः कलशानष्टौ ससूत्रानुदकपूरितान्
सकूर्च्चान्सापिधानांश्च सवस्त्रान्स्थापयेत्क्रमात् ॥ १८ ॥

लोकपालान्समभ्यर्च्य एवं प्रत्येकमाचरेत्
नवाम्बरधरोष्णीषो हेमाङ्गुलीय शोभितः ॥ १९ ॥

दिव्यगन्धानुलिप्ताङ्गो पुष्पमालाधरो गुरुः
नेत्रमन्त्रेण नेत्रेषु प्रोतसौवर्णकैर्न्नखैः ॥ २० ॥

तर्पयेन्मधुसर्पिभ्यां सौवर्णदूर्वया ततः
मधुवाता ऋतायेति मधुना तर्पयेत् गुरुः ॥ २१ ॥

हैमे वा राजते ताम्रे अथवा कांस्य पात्रके
मधुना च घृते नैव एकैकं प्रस्थपूरितम् ॥ २२ ॥

यन्मधुनो मधव्येति मधुपात्रं प्रदर्शयेत्
घृतं दर्शयेन्मन्त्री नेष्टाविद्धमिति स्मरन् ॥ २३ ॥

गौर्द्धे तु हव्यमन्त्रेण सवत्साङ्गां प्रदर्शयेत्
ब्राह्मणान्दर्शयेत्पश्चात् ब्रह्मजज्ञानमन्त्रतः ॥ २४ ॥

दशबीजेन मन्त्रेण धान्यराशिं प्रदर्शयेत्
प्रच्छन्नपटमावर्ज्य मर्त्यसङ्घान्प्रदर्शयेत् ॥ २५ ॥

एवमेवन्तु सर्वेषां कारयेत्तु पृथक्पृथक्
स्नापयेत्पञ्चगव्यैश्च पञ्चब्रह्ममनुस्मरन् ॥ २६ ॥

मृदाम्भसा तु संस्नाप्य शुद्धैरुद्धैरिति ब्रुवन्

[[४९१]]

स्थापितैः कलशैर्देवान्स्नापयेत्पुरुषेण तु ॥ २७ ॥

तत्तदीशानमन्त्रेण गन्धपुष्पादिभिर्यजेत्
वस्त्रैराभरणैर्माल्यैर्भूषयेत्तु पृथक्पृथक् ॥ २८ ॥

रङ्गे वा शिबिकायां वा सर्वानारोप्य देशिकः
सर्वालङ्कारसंयुक्तं सर्वातोद्य समायुतम् ॥ २९ ॥

वितानछत्रपिञ्च्छैश्च नृत्तगेय समाकुलम्
चामरैश्च द्ध्वजोपेतं ब्रह्मघोषसमायुतम् ॥ ३० ॥

नानाभक्तजनैस्सार्द्धं कुर्यात् ग्रामप्रदक्षिणम्
नद्यां वापि तटाके वा ह्रदे वाप्यथ दीर्घिके ॥ ३१ ॥

तीरे समतलं कृत्वा स्थण्डिलं कारयेद्बुधः
स्थण्डिले स्थाप्य देवांश्च वर्जयेत् भूषणादिकात् ॥ ३२ ॥

नवाम्बरन्ततो दत्वा लम्बकूर्चन्न्यसेद्धृदा
वस्त्रेणैव तु देवांश्च वेष्टयेत्तु पृथक्पृथक् ॥ ३३ ॥

कारयेज्जलमद्ध्ये तु चतुर्गात्रप्रपाद्वयम्
वितानद्ध्वजसंयुक्तं दर्भमालासमायुतम् ॥ ३४ ॥

तन्मद्ध्ये फलकान्न्यस्त्वा कण्ठमात्रे जले गुरुः
शङ्करञ्चक्रपाणिञ्च ब्रह्माणमधिवासयेत् ॥ ३५ ॥

गौरी लक्ष्मी धरायाश्च पार्श्वयोश्चैव मद्ध्यमे
प्रागूर्द्ध्वे शयनाद्बिम्बान्शाययेत्फलकोपरि ॥ ३६ ॥

अभितः कलशानष्टौ सूत्रादिभिस्समन्वितान्
इन्द्रादिषु क्रमात्स्थाप्य लोकपालान्समर्चयेत् ॥ ३७ ॥

इतरायां

प्रपायान्तु एवमेवं प्रकल्पयेत्
उच्चरेद्वारुणं बीजं शतं वार्द्धार्द्धमेव वा ॥ ३८ ॥

अत्र निर्वाणदीपन्तु कल्पयेत्तु विचक्षणः
त्रिरात्रं वा द्विरात्रं वा व्योमरात्रमथापि वा ॥ ३९ ॥

जलाधिवासनं कुर्यात् द्वादशं याममेव वा

[[४९२]]

हर्म्यस्य दक्षिणे वापि उत्तरे वाग्रकेऽपि वा ॥ ४० ॥

तस्यैव दक्षिणे वाथ उत्तरे वापि शाङ्करे
द्वादशन्दशहस्तं वा कलास्तम्भसमन्वितम् ॥ ४१ ॥

मण्टपं कारयेद्धीमान्पङ्क्तिमानमथोच्छ्रयम्
द्वितालं स्तम्भनाहन्तु तालमात्रन्तलोन्नतम् ॥ ४२ ॥

मण्टपं विभजेत्तत्र नवकोष्ठसमन्वितम्
मद्ध्यमे वेदिकां कुर्यात् रत्निमात्रसमावृताम् ॥ ४३ ॥

वेद्याम्मूले तु परितः उपवेदीं प्रकल्पयेत्
वेदाङ्गुलप्रविस्तारमुत्सेधन्तु तदर्द्धकम् ॥ ४४ ॥

दर्पणोदरसङ्काशन्निम्नोन्नतमिवस्थितम्
कुण्डानि परितः कुर्यात् मानुषे तु पदे क्रमात् ॥ ४५ ॥

युगाश्रं वर्त्तुलञ्चेन्द्रखण्डं भूताश्रपङ्कजम्
मुन्न्यश्रञ्जातवेदाश्रं वस्वश्रं पूर्वकादिषु ॥ ४६ ॥

वेदाश्राष्टाश्रयोर्मद्ध्ये प्रधानं वर्त्तुलं कुरु
पूर्वोक्तजक्षणैश्चैव कुर्यात्कुण्डानि बुद्धिमान् ॥ ४७ ॥

मण्टपस्योत्तरे पार्श्वे स्नानश्वभ्रत्रयं कुरु
मद्ध्यमे तु हरस्योक्तं पश्चिमे तु हरः स्मृतम् ॥ ४८ ॥

स्नानश्वभ्रजलस्यैन्द्रे एतत्स्याच्छिवमण्टपे
तस्यैन्द्रे चोत्तरे वापि तत्समं मण्टपं कुरु ॥ ४९ ॥

तन्मद्ध्ये वेदिकां कुर्यात्पूर्वोक्तलक्षणेस्सह
मानुषे तु पदे सम्यक्कुण्डानि परितः क्रमात् ॥ ५० ॥

अष्टौ वाप्यथ चत्वारि कुण्डानि परिकल्पयेत्
दिशास्वश्वत्थपत्रन्तु विदिशासु सरोरुहम् ॥ ५१ ॥

वेदाग्न्यायतनञ्चेत्तु विदिशासु विवर्जयेत्
मण्टपस्योत्तरे पार्श्वे स्नानश्वभ्रत्रयं कुरु ॥ ५२ ॥

गौर्याश्च मद्ध्यमे चैव पङ्कजायाश्च पश्चिमे

[[४९३]]

ऐन्द्रे तु पावकस्योक्तमेतत् गौर्यास्तु मण्टपम् ॥ ५३ ॥

उद्वास्य शिल्पिनं पश्चात् गोमयेनानुलेपयेत्
मण्टपं भूषयेत्पश्चाच्चतुर्द्वारसमन्वितम् ॥ ५४ ॥

युगतोरणसंयुक्तं वितानद्ध्वजसंयुतम्
स्तम्भवेष्टनसंयुक्तं मुक्तादामैरलङ्कृतम् ॥ ५५ ॥

दर्भमालासमायुक्तं तरङ्गेणैव वेष्टयेत्
मङ्गलाष्टकसंयुक्तं मङ्गलाङ्कुरशोभितम् ॥ ५६ ॥

नालिकेरफलैः पुष्पैर्गात्रं प्रतिसुभूषितम्
उत्तरं मण्टपं ह्येवं भूष्य पुण्याहमाचरेत् ॥ ५७ ॥

भूसुरान्भोजयेत्तत्र त्रियहं वादिनद्वयम्
एकाहमथवा प्रोक्तमुच्छिष्टन्तद्विसर्जयेत् ॥ ५८ ॥

गोमयालेपनं कृत्वा प्रोक्षयेत्पुरुषेण तु
प्राक्कुण्डं वेदिका मद्ध्ये वास्तुहोमन्तु कारयेत् ॥ ५९ ॥

पर्यग्निकरणं कुर्यान्मण्टपन्तेन वह्निना
पुण्याहं वाचयित्वाथ स्वस्तिसूक्तसमन्वितम् ॥ ६० ॥

द्वारपूजादिकं सर्वं स्थापनक्रमवत् बुधः
वेद्यूर्द्ध्वे स्थण्डिलं कुर्यात् अष्टद्रोणैश्च शालिभिः ॥ ६१ ॥

तदर्द्धैस्तण्डुलैर्भूष्य तदर्द्धैश्च तिलैरपि
तन्मद्ध्ये नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ ६२ ॥

परिस्तीर्य ततो दर्भैः फलैर्लाजैस्सुपुष्पकैः
तन्मद्ध्यमे समभ्यर्च्च्य गन्धपुष्पादिभिर्हृदा ॥ ६३ ॥

शयनं मद्ध्यमे तल्पे चर्मचाद्यैरनुक्रमात्
अलाभे कम्बलैः पञ्च शयनन्तदलाभके ॥ ६४ ॥

कल्पयेत्पञ्चवस्त्रेण उपधानसमन्वितम्
कल्पयेत्तु हरेर्यामे ब्रह्मणश्चोत्तरे गुरुः ॥ ६५ ॥

गौर्याश्च मण्टपे सर्वे एवमेवं प्रकल्पयेत्

[[४९४]]

आदिशैवकुलोत्भूतस्सर्वलक्षणसंयुताः ॥ ६६ ॥

नववस्त्रधरोष्णीषश्शुक्लचन्दनलेपितः
पञ्चाङ्गभूषणैर्युक्तो हेमरत्नाङ्गुलीयकः ॥ ६७ ॥

सोत्तरीयस्सुमाली च हेमयज्ञोपवीतिनः
मन्त्रतन्त्रक्रिया मुद्रा भावनाभावगर्भितः ॥ ६८ ॥

शङ्खदुन्दुभिघोषैश्च ब्रह्मघोषसमन्वितम्
नृत्तगेयसमायुक्तं सर्वालङ्कारसंयुतम् ॥ ६९ ॥

जलादुत्तीर्य बिम्बानि स्नानश्वभ्रे नियोजयेत्
वस्त्रकूर्चादिसन्त्यज्य पूर्ववच्छुद्धिमाचरेत् ॥ ७० ॥

गन्धपुष्पादिभिः पूज्य तत्तद्धृदयमन्त्रतः
सौवर्णं रजतं वापि क्षौमं कार्पासजन्तु वा ॥ ७१ ॥

कौतुकन्दक्षिणे हस्ते तत्तद्धृदयमन्त्रतः
बन्धयित्वाथ बिम्बानि उक्तालङ्कारसंयुतम् ॥ ७२ ॥

स्नानवेद्यास्समुद्धृत्य विन्न्यसेच्छयनोपरि
शयने शाययेद्देवं प्राक्शिरश्चोर्द्ध्ववक्त्रकम् ॥ ७३ ॥

शाययेत्तु यमे विष्णुं ब्रह्माणमुत्तरे तथा
ईशानेन तु मन्त्रेण गन्धपुष्पादिभिर्यजेत् ॥ ७४ ॥

मुकुलीं पद्ममुद्राञ्च सुरभिमुद्रां प्रदर्शयेत्
रक्तवस्त्रेण संवेष्ट्य प्रत्येकं हृदयेन तु ॥ ७५ ॥

अस्त्रेणैव तु मन्त्रेण कारयेद्दिग्विरेचनम्
द्रोणतोयैश्च सम्पूर्णान्निष्कलङ्कान्घनस्ननान् ॥ ७६ ॥

सुपक्वान्दोषरहितान्पक्वबिम्बफलप्रदान्
सप्रक्षाल्याथ कुम्भांश्च त्रिवृत्सूत्रेण वेष्टयेत् ॥ ७७ ॥

शुद्धतोयैश्च सम्पूर्णान्सकूर्चान्सापिधानकान्
पञ्चरत्नसमायुक्तान्सवस्त्रान्पल्लवैर्युतान् ॥ ७८ ॥

प्रतिमायां शिरोभागे दक्षिणे विन्न्यसेत् घनान्

[[४९५]]

मद्ध्ये महेशकुम्भन्तु तस्य वामे तु वर्द्धनीम् ॥ ७९ ॥

दक्षिणे विष्णुकुम्भन्तु उत्तरे ब्रह्मकुम्भकम्
तत्तत् बिम्बाकृतिन्ध्यात्वा तत्तत् बीजं घटेन्न्यसेत् ॥ ८० ॥

गन्धपुष्पादिभिः पूज्य तत्तदीशानमन्त्रतः
ससूत्रानुदकोपेतान्सवस्त्रान्कूर्चसंयुतान् ॥ ८१ ॥

वितानैस्संयुतानष्टविद्येश्वरसमायुतान्
शातकुम्भमयेनैव टङ्कशूलेन संयुतान् ॥ ८२ ॥

अष्टकुम्भानथ स्थाप्य ऐन्द्रेशादिषु संयजेत्
नैवेद्यन्दापयित्वा तु ताम्बूलन्दापयेत्पृथक् ॥ ८३ ॥

इतरे स्थापयेत् गौरीं मण्टपे चाधिवासयेत्
गौरी गायत्रिमन्त्रेण गौरीं मद्ध्ये तु शाययेत् ॥ ८४ ॥

पङ्कजा दक्षिणे भागे वह्निं वामे तु शाययेत्
रक्ताम्बरन्तु दक्षा च पीतवस्त्रेण वेष्टयेत् ॥ ८५ ॥

गन्धपुष्पादिभिश्चैव हृदयेनैव पूजयेत्
पूर्वोक्तलक्षणोपेतान्द्रोणतोयप्रपूरितान् ॥ ८६ ॥

ससूत्रानुदकोपेतान्सवस्त्रान्कूर्चसंयुतान्
वितानैस्संयुतान्कुम्भान्तत्तच्छिरप्रदेशतः ॥ ८७ ॥

गौरीकुम्भन्न्यसेन्मद्ध्ये दक्षिणे पङ्कजाद्धटम्
उत्तरे वह्निकुम्भन्तु विन्न्यसेत्तु क्रमेण तु ॥ ८८ ॥

शातकुम्भमयं पद्मं कुम्भेषु च विनिक्षिपेत्
ध्यात्वा तत्तत्स्वरूपन्तु तद्बीजं घटमद्ध्यमे ॥ ८९ ॥

विन्न्यस्य गन्धपुष्पाद्यैर्न्नैवेद्यान्तं हृदाददेत्
ससूत्रान्शुद्धाम्बुसम्पूर्णान्सवस्त्रान्कूर्च्चसंयुतान् ॥ ९० ॥

वितानैश्च समायुक्तानभितोष्टौ घटान्न्यसेत्
वामादीनाञ्च शक्तीनां बीजानिन्द्रादिषु क्रमात् ॥ ९१ ॥

न्यस्त्वा सम्पूजयेन्मन्त्री गन्धपुष्पादिभिर्हृदा

[[४९६]]

ऋगाद्यद्ध्ययनन्दिक्षु कारयेच्छिवमण्टपे ॥ ९२ ॥

कोणे मन्त्री जपं कुर्यात् मूलमन्त्रैर्विशेषतः
आचार्यो मूर्तिपैस्सार्द्धं होमकर्मसमारभेत् ॥ ९३ ॥

प्रधानकुण्डे त्वाचार्यश्चान्यकुण्डे तु मूर्तिपाः
अग्न्याधानादिकं सर्वं पूर्वोक्तविधिनाचरेत् ॥ ९४ ॥

समिदाज्य चरून्लाजं सर्षपञ्च यवन्तिलम्
होमद्रव्याणि सप्तैते क्रमेणैव तु होमयेत् ॥ ९५ ॥

शमीबिल्वमपामार्गं खादिरं विदिशासु वै
पलाशन्तु प्रधानस्य सर्वेषामिध्ममुच्यते ॥ ९६ ॥

ईशानेन समिद्धोमं पुरुषेण घृतं हुनेत्
अघोरेण चरुं हुत्वा वामदेवेन लाजकम् ॥ ९७ ॥

सर्षपं कवचेनैव नेत्रेणैव यवं हुनेत्
अघोरेण तिलं हुत्वा द्रव्यान्ते व्याहृतिं हुनेत् ॥ ९८ ॥

शतमर्द्धं तदर्द्धं वा प्रत्येकं जुहुयात्क्रमात्
त्रियम्बकेन मन्त्रेण गुलाज्येनैव षोडशम् ॥ ९९ ॥

बिम्बस्य मस्तकं स्पृष्ट्वा तेनैव पूर्ववद्धुनेत्
हृदयेन स्पृशेदन्ते तेनैव पूर्ववद्धुनेत् १००
पादसंस्पृर्शने कृत्वा व्याहृत्याहुतिमाचरेत्
इदं विष्ण्वेतिमन्त्रेण पूर्ववद्धोममाचरेत् १०१
प्राग्वत्संस्पर्शयेद्विष्णुं ब्रंहजज्ञानमन्त्रतः
एवं हुत्वा तु ब्रंहाणं स्पर्शयेत्पूर्ववत्क्रमात् १०२
ऋगाद्यद्ध्ययनं दिक्षु कुर्याद्गौर्याश्च मण्टपे
गौर्याश्च मूलमन्त्रेण कोणमन्त्रजपं कुरु १०३
देशको मूर्तिपैश्चैव होमकर्मसमाचरेत्
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् १०४
पलाशखदिरं बिल्वं वटञ्चैव दिशासु च

[[४९७]]

वारुण्यं शम्यपामार्गं न्यग्रोधं विदिशासु च १०५
समिधा च तथैध्मानि क्रमेण परिकीर्तिता
ईशाने समिधं हुत्वा घृतं मूलेन होमयेत् १०६
अघोरेण चरुं हुत्वा लाजं वामेन होमयेत्
माषन्तु शिखयाहुत्वा शालिमीशानमन्त्रतः १०७
सर्षपं कवचेनैव तिलमस्त्रेण होमयेत्
शतमर्द्धं तदर्द्धं वा प्रत्येकं जुहुयात्क्रमात् १०८
द्रव्यान्ते व्याहृतिं हुत्वा स्पर्शाहुतिमथाचरेत्
गौरीमिमायमन्त्रेण हुत्वाज्येनैव षोडशम् १०९
तेन मन्त्रेण हृदयं स्पृष्ट्वान्ते व्याहृतिं हुनेत्
श्रिये जातेतिमन्त्रेण जुहुयात्पूर्ववत्स्पृशेत् ११०
अग्निमीलेतिमन्त्रेण हुत्वाज्येनैव षोडशम्
स्पृष्ट्वाग्निज्वलनं पश्चात् तेत्रमन्त्रेण देशिकः १११
नृत्तगेयसमायुक्तं रात्रिशेषं व्यपोह्य च
कृत्वा स्नानत्रयं पश्चात् आचार्यो मूर्तिपैस्सह ११२
अङ्गन्यासं करन्यासं कृत्वा पूर्वोक्तमार्गतः
उद्धृत्य शयनात् बिम्बान्वस्त्रादीनि व्यपोह्य च ११३
गन्धपुष्पादिभिस्तत्र ईशानेनैव पूजयेत्
कुम्भान्कुण्डानि सम्पूज्य गन्धपुष्पादिभिः क्रमात् ११४
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
हैमकैर्यज्ञसूत्रैश्च हारकुण्डलकङ्कणैः ११५
अधमं षोडशं निष्कं द्विगुणं मद्ध्यमं भवेत्
त्रिगुणञ्चोत्तमं प्रोक्तं देशिकस्य तु दक्षिणा ११६
अष्टभागैकभागन्तु मूर्तिपानान्तु दक्षिणाः
अद्ध्येतॄणान्तु जप्तॄणां तदर्द्धादक्षिणास्मृता ११७
जयादिरभ्याधानञ्च राष्ट्रभृच्चक्रमाद्धुनेत्

[[४९८]]

हृदाहुतिञ्च हुत्वा तु व्याहृतिं जुहुयात्ततः ११८
पूर्णाहुतिञ्च शिरसा हुत्वाग्निन्तु विसर्जयेत्
उद्धृत्य शयनाद्बिम्बान्स्नानश्वभ्रे न्यसेत्पृथक् ११९
घृतं शिरोर्पणं कुर्यात्प्रागुकविधिना सुधीः
देवस्यैव कलान्यासं मकुटादिक्रमान्न्यसेत् १२०
तत्तत्कुम्भस्थतोयैश्च तत्तद्देवाभिषेचनम्
अथ पुष्पादिभिर्बिम्बं पूजयेद्धृदयेन तु १२१
गौरीकलान्यसेत्गौर्यामन्येषामक्षरन्न्यसेत्
सर्वातोद्य समायुक्तं नृत्तगेय समाकुलम् १२२
सर्वालङ्कारसंयुक्तं स्थण्डिलोर्ध्वेस्त्रिभिस्सह
कुम्भानुद्धृत्य शिरसा बाह्यधामप्रदक्षिणम् १२३
कृत्वा बिम्बाग्रके चैव स्थण्डिलोपरिविन्न्यसेत्
मुहूर्ते समनुप्राप्ते गुरवे सन्निवेदयेत् १२४
प्राणप्रकृतियोगन्तु ज्ञात्वा संस्थापनं कुरु
कुम्भात् बीजं समादाय प्रतिमे हृदि विन्न्यसेत् १२५
तत्कुम्भन्तु जले चैव स्नापयेत्परमेश्वरम्
वर्द्धनी बीजमादाय पीठाब्जे मद्ध्यमे न्यसेत् १२६
तज्जलैस्नापयेत्पीठं गन्धपुष्पादिभिर्यजेत्
विष्णुमूर्तेर्हृदि न्यस्त्वा विष्णुबीजं विशेषतः १२७
ब्रह्मबीजं तथा न्यस्त्वा तत्तद्रूपन्तु भावयेत्
गौरी कुम्भान् समादाय बीजं गौरी हृदि न्यसेत् १२८
श्रीबीजं विन्न्यसेत्पश्चात्पङ्कजं हृदि देशिकः
मद्ध्यमायां शिखायान्तु वह्निबीजन्तु विन्न्यसेत् १२९
देवस्यैव तु पीठाब्जे विद्येशानां स्वबीजकैः
इन्द्रादिषु क्रमान्न्यस्त्वा कुम्भोदैस्नापयेत्परम् १३०
गौरीपीठाब्जके चैव वामादीनां स्वबीजकैः

[[४९९]]

इन्द्रादीशानपर्यन्तं क्रमेणैव तु विन्न्यसेत् १३१
तत्तत्कुम्भस्थतोयैश्च गौरीञ्चैवाभिषेचयेत्
गन्धपुष्पादिभिर्बिम्बान्पूजयेद्धृदयेन तु १३२
स्नपनं कारयेदन्ते पूर्वोक्तविधिना सह
गन्धपुष्पादिभिश्चैव पूजयेत्तु विशेषतः १३३
मण्टपे विन्न्यसेत् बिम्बात् स्थण्डिलोपरिविन्न्यसेत्
वस्त्रैराभरणैर्माल्यैर्मकुटाद्यैर्विभूषयेत् १३४
फलानि दापयित्वा तु पायसान्नं निवेदयेत्
ताम्बूलं दापयेत्पश्चात् मुखवाससमन्वितम् १३५
यागोपयोगद्रव्याणि देशिकाय प्रदापयेत्
सुमुहूर्ते सुलग्ने तु तद्दिने वापरे दिने १३६
कुर्याद्वै वाह्य कार्यन्तु दिवाकालेर्द्धरात्रिके
मण्टपे वा प्रपायां वा तन्मद्ध्ये स्थण्डिलं कुरु १३७
सर्वालङ्कारसंयुक्तं मण्टपं भूषयेत्क्रमात्
वस्त्रैराभरणैर्माल्यैरेवं सम्यक्प्रभूषयेत् १३८
सर्वातोद्य समायुक्तं नृत्तगेयसमाकुलम्
पिञ्छचामरसङ्कीर्णं धूपदीपसमाकुलम् १३९
ब्रह्मघोषसमायुक्तं ततो मङ्गलवाचकैः
रङ्गे वा शिबिकायां वारोप्यमटपमानयेत् १४०
स्थण्डिलोपरि वस्त्रेणास्तीर्य तस्यैव चोपरि
स्थापयेत्प्राङ्मुखं देवं प्रत्यग्रे स्थण्डिलं कुरु १४१
पूर्वोक्तलक्षणोपेतं वालुकैर्देशिकोत्तमः
देवस्थण्डिलयोर्मद्ध्ये स्थापयेत् वह्निमूर्तिनम् १४२
तस्यैव वामभागेजं स्थापयेदुत्तराननम्
विष्णुमुत्तरतो वह्निः स्थापयेद्दक्षिणाननम् १४३
पाद्यन्दद्याद्धृदामन्त्री सद्येनाचमनन्ददेत्

[[५००]]

सदशं वस्त्रयुग्मञ्च वामदेवेन दापयेत् १४४
एवमाच्छादनं प्रोक्तमुत्तरीयमथान्यकम्
स्थण्डिलेग्निं विनिक्षिप्य आदिशैवोत्तराननः १४५
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
ब्रह्माङ्गैर्मूलमन्त्रैश्च प्रत्र्येकं सर्पिषाहुनेत् १४६
सर्वाभरणसंयुक्तं सर्वालङ्कारसंयुतम्
गन्धपुष्पैस्तथा गौरीं भूषयेत् भूषणार्हकैः १४७
पाद्यमाचमनन्दद्यादीशानेनैव देशिकः
पुरुहूतेन मन्त्रेण ददेन्मङ्गलसूत्रकम् १४८
वस्त्रयुग्मन्ददेत्गौर्यास्त्वेकमाच्छादनं भवेत्
उत्तरीयन्तथैकन्तु वामदेवेन मन्त्रतः १४९
सर्वालङ्कारसंयुक्तं पङ्कजं भूषयेत्ततः
सर्वातोद्य समायुक्तन्नृत्तगेय समाकुलम् १५०
देवस्य दक्षिणे गौरीन्न्यसेत्तत्पार्श्वके श्रियम्
कौतुकं बन्धयेद्देवीं गौरीन्तत्पुरुषेण तु १५१
सर्वलक्षणसंयुक्तश्शिवशास्त्रपरायणः
सर्वाभरणसंयुक्तस्त्वादिशैवो दृढव्रतः १५२
आत्मानं विष्णुवत् भाव्य शिवगायत्रिमन्त्रतः
देशिकस्य कराभ्यान्तु देवं द्ध्यात्वा जलन्ददेत् १५३
हृदयेनैव मन्त्रेण भस्मनादापयेत् द्वयोः
पुण्याहं वाचयित्वाथ पलाशसमिधा ततः १५४
सद्येन षोडशं हुत्वा व्याहृतिञ्जुहुयात्ततः
हृदयेन गुलन्दुग्धं मधुपर्कन्ददेत्प्रभोः १५५
आचमनन्ततो दत्वा पुरुषेणैव देशिकः
त्र्यम्बकेनैव मन्त्रेण सर्पिषा षोडशं हुनेत् १५६
विष्णोर्णुकेन मन्त्रेण आज्येन पूर्ववद्धुनेत्

[[५०१]]

ब्रह्मजज्ञानमन्त्रे हुनेदाज्येन पूर्ववत् १५७
हृदयेन ददेच्छम्भो पात्रेन्नमुपदंशकैः
शिरसा चमनन्दत्वा ताम्बूलन्तु हृदाददेत् १५८
गौर्याश्च हृत्प्रदेशन्तु वर्मणास्पर्शयेत् गुरुः
तस्य दक्षिणकर्णे तु बीजमुख्यञ्जपेत् सुधीः १५९
अश्मानं स्थापयेद्वामे शालिस्थण्डिलकोपरि
तमास्थापितवान्देवो गौरी दक्षिणपादतः १६०
ध्यात्वा तु बीजमुख्येन मनसास्थापयेत् गुरुः
विष्णुं सम्पूजयेद्धोमभूषणैर्वस्त्रसंयुतम् १६१
देवस्यैव द्विहस्ताभ्यां मुक्तामालां क्रमेण तु
उमादेवी तु हस्ताभ्यामग्नौ हुतवती तथा १६२
ध्यात्वा तु पुरुहूतेन हुनेल्लाजाश्च देरिकः
अग्निं प्रदक्षिणं कृत्वा गौरीबीजमनुस्मरन् १६३
आस्थाभ्याश्मानमन्त्रेण लाजं हुत्वा प्रदक्षिणम्
कृत्वा ह्येवन्तृतीयन्तु व्याहृतिञ्जुहुयात्ततः १६४
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
महेशस्यैव मूलेन अष्टोत्तरशतं हुनेत् १६५
पूर्णाहुतिञ्च शिरसा यदस्येति हुनेत्ततः
पावकन्तु विसृज्याथ देवान्गन्धादिभिर्यजेत् १६६
प्रभूतहविषन्दत्वा ताम्बूलन्तु निवेदयेत्
चतुर्त्थे दिवसे चैव देवीं सम्यक् विभूषयेत् १६७
रात्रौ तु कुर्याद्धोमं तु मण्टपे समलङ्कृते
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् १६८
समिधाहुत्यास्त्रमन्त्रेण पलाशञ्चैव षोडशम्
पञ्चब्रह्मषडङ्गैश्च विद्याङ्गैर्मूलमन्त्रकैः १६९
पाशुपतेन चास्त्रेण प्रत्येकन्तु शताहुतिः

[[५०२]]

देवस्य त्वेतिमन्त्रेण जुहुयात्तु चरुन्तथा १७०
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात्
पूर्णाहुतिञ्च शिरसा हुत्वाग्निं परिवर्जयेत् १७१
शयनं कल्पयेद्धीमान् चर्मचाद्यैः क्रमाद्धृदा
शयने विन्न्यसेद्देवं गौरीयुक्तन्तु वर्मणा १७२
स्नपनं कारयेद्देवं देवीञ्चैव विशेषतः
अर्चनोक्तं समभ्यर्च्य नैवेद्यन्दापयेत्ततः १७३
आलयन्तु नयेद्देवं स्थापयेद्देशिकोत्तमः
देवं देवीं श्रियञ्चैव स्थापयेत्तु समासतः १७४
देवाग्रे स्थापयेदग्निं ब्रह्माणन्तस्य वामके
अग्नेर्दक्षिणभागे तु स्थापयेत्तु हरिन्ततः १७५
अर्चनोक्तं यजेद्देवं नैवेद्यन्दापयेत्क्रमात्
उत्सवं कारयेत्पश्चाद्यथावित्तानुसारतः १७६
एवं विन्न्यस्य कल्याणं कुर्यात् ब्रह्मादिभिर्विना
एवं यः कुरुते मत्तर्यस्सपुण्याङ्गतिमाप्नुयात् १७७
राज्यार्त्थी लभते राज्यं पुत्रार्त्थी लभते सुतम्
इहैव धनवान् श्रीमान् सोन्ते मोक्षमवाप्नुयात् १७८
इति वैवाह्यस्थापनविधिपटल अष्टसप्ततितमः