इन्द्रशेखरस्थापनविधिपटलप्रारम्भः
प्रतिष्ठाविधिमहं वक्ष्ये चन्द्रशेखरमूर्तिनः
सर्वशान्तिकरं पुण्यं ग्रामऋद्धिकरं शुभम् ॥ १ ॥
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने
सुमुहूर्ते सुलग्ने च सुवारे करणान्विते ॥ २ ॥
स्थापयेद्देवदेवेशं विधिना देशिकोत्तमः
प्रतिष्ठादिनपूर्वे तु कारयेदङ्कुरार्पणम् ॥ ३ ॥
रत्नन्यासं ततः कुर्यात् मण्टपे स्थण्डिलोपरि
अम्बुजे मद्ध्यदेशे तु नवकोष्ठानि कल्पयेत् ॥ ४ ॥
ऐन्द्रे मरतकं न्यस्त्वा याम्यायां पुष्यरागकम्
वारुणे स्फटिकन्न्यस्त्वा चन्द्रकान्तन्तु सौम्यके ॥ ५ ॥
प्रवालं वह्निदेशे तु वज्रन्निर्ऋतिगोचरे
मौक्तिकं वायुदेशे तु शङ्खमीशे तु विन्न्यसेत् ॥ ६ ॥
माणिक्कं मद्ध्यमे न्यस्त्वा हृदयेन तु मन्त्रतः
उक्तस्थाने तु तत् द्रव्यमलाभे काञ्चनं क्षिपेत् ॥ ७ ॥
सुस्निग्धं कारयेद्धीमान्निर्वृणं सुदृढं क्रमात्
नयनं मोक्षणं कुर्यात् नेत्रद्वययुते दिने ॥ ८ ॥
उदयादिसमारभ्य मद्ध्याह्नान्तं समाचरेत्
स्थण्डिलं कारयेत्तत्र अष्टद्रोणैश्च शालिभिः ॥ ९ ॥
तदर्द्धं तण्डुलैर्भूष्य तदर्द्धैश्च तिलैरपि
दर्भैः पुष्पैः परिस्तीर्य देवेशं तत्र विन्न्यसेत् ॥ १० ॥
परितो मण्टपस्यैव तरङ्गेणैव वेष्टयेत्
[[४८४]]
हेमसूचिप्रहाराभ्यां नेत्रोन्मीलनमाचरेत् ॥ ११ ॥
पक्ष्मरेखां समालिख्य कृष्णमण्डलमालिखेत्
ज्योतिर्मण्डलमालिख्य नेत्रमन्त्रेण बुद्धिमान् ॥ १२ ॥
नेत्रेषु नेत्रमन्त्रेण प्रोतसौवर्णकैर्नखैः
मधुवाता ऋतायेति मधुनातर्पयेद्गुरुः ॥ १३ ॥
घृतं मिमीक्षेतिमन्त्रेण सौवर्णं दूर्वया सुधीः
गौर्धेनुहव्यमन्त्रेण सवत्साङ्गां प्रदर्शयेत् ॥ १४ ॥
ब्रह्मजज्ञानमन्त्रेण ब्राह्मणानपि दर्शयेत्
प्रच्छन्नपटमावर्ज्य जनान्सर्वान्प्रदर्शयेत् ॥ १५ ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
शिल्पिनं पूजयेत्पश्चात् वस्त्राङ्गुलीयकादिभिः ॥ १६ ॥
अष्टमृत्सलिलेनैव संस्कुर्यादभिषेचनम्
अर्चयेत् गन्धपुष्पाद्यैर्हॄदयेन विचक्षणः ॥ १७ ॥
पुण्याहं वाचयेत्तत्र स्वस्तिमङ्गलवाचकैः
सर्वालङ्कारसंयुक्तं सर्वातोद्य समायुतम् ॥ १८ ॥
नानाभक्तजनैस्सार्द्धं कुर्यात् ग्रामप्रदक्षिणम्
ततोजलाशयं प्राप्य जलमद्ध्ये प्रपां कुरु ॥ १९ ॥
वितानध्वजसंयुक्तं दर्भमालाभिरावृतम्
वस्त्रेण वेष्टयेद्देवं लम्बकूर्चसमन्वितम् ॥ २० ॥
प्रतिमां कण्ठदघ्ने तु जले चैवाधिवासयेत्
शाययेद्देवदेवेशं प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ २१ ॥
अभितः कलशानष्टौ चाष्टविद्येश्वरात्मकान्
पूजयेत्तु विशेषेण गन्धपुष्पादिभिर्बुधः ॥ २२ ॥
एकरात्रं द्विरात्रं वा त्रिरात्रं वाजलोषितम्
प्रासादस्याग्रके वापि दक्षिणे चोत्तरेऽपि वा ॥ २३ ॥
द्वादशं दशहस्तं वा नवहस्ताष्टहस्तकम्
[[४८५]]
षोडशस्तम्भसंयुक्तं मण्टपं कारयेत्क्रमात् ॥ २४ ॥
मण्टपन्तु त्रिधाभज्य मद्ध्यभागे तु वेदिका
रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥ २५ ॥
मानुषे तु पदे कुर्यात्कुण्डानि हस्तमात्रकम्
वेदाश्रञ्चैव चापाश्रं वर्त्तुलञ्चकुशेशयम् ॥ २६ ॥
दिशासु कल्पयेद्देवमनलेश्वत्थपत्रवत्
पञ्चाश्रन्नैर्ऋते कुर्यादग्न्यश्रं वायुदेशतः ॥ २७ ॥
ऐशान्न्ये चैव वस्वश्रं कुर्यात्कुण्डानि लक्षणैः
इन्द्रईशानयोर्मद्ध्ये वृत्तं प्रधानकं कुरु ॥ २८ ॥
गोमयालेपनं कृत्वा पञ्चपूर्णैरलङ्कृतम्
स्तम्भानि वेष्टयेत्तत्र नानावस्त्रेण बुद्धिमान् ॥ २९ ॥
वितानद्ध्वजसंयुक्तं मुक्तदामैरलङ्कृतम्
दर्भमालासमायुक्तं चतुस्तोरणभूषितम् ॥ ३० ॥
अष्टमङ्गलसंयुक्तमङ्कुरैरपि शोभितम्
मण्टपस्योत्तरे भागे स्नानश्वभ्रं प्रकल्पयेत् ॥ ३१ ॥
रत्निद्वयप्रविस्तारं द्विमेखलसमायुतम्
नालावटसमायुक्तं कल्पयेत्कल्पवित्तमः ॥ ३२ ॥
ब्राह्मणान्भोजयेत्तत्र ततोच्छिष्टं विवर्जयेत्
गोमयालेपनं कृत्वा पुनः पुण्याहमाचरेत् ॥ ३३ ॥
समरीय पदे चैव वास्तुहोमन्ततः कुरु
पर्यग्निकरणं तत्र कुर्यात्तेनैव वह्निना ॥ ३४ ॥
द्वारपूजादिकं सर्वं स्थापनक्रमवद्बुधः
जलादुत्तीर्य देवेशं स्नानश्वभ्रे तु विन्न्यसेत् ॥ ३५ ॥
वस्त्रकूर्च्चान्व्यपोह्यात्र स्नापयेत्पञ्चगव्यकैः
पाशुपतेन चास्त्रेण शुद्धाद्भिरभिषेचयेत् ॥ ३६ ॥
गन्धपुष्पादिभिः पूज्य हृदयेन तु देशिकः
[[४८६]]
वामदेवेन मन्त्रेण दापयेत्तु नवाम्बरम् ॥ ३७ ॥
कौतुकं बन्धयेद्धीमान्पूर्वोक्तविधिना सह
वेदिकोपरिसंशुद्धे चाष्टद्रोणेन शालिना ॥ ३८ ॥
तदर्द्धैस्तण्डुलैर्भूष्य तदर्द्धैश्च तिलैरपि
स्थण्डिलं कारयेत्काशैः पुष्पैश्चैव परिस्तरेत् ॥ ३९ ॥
शयनं कल्पयेन्मद्ध्ये चर्मचाद्यैरनुक्रमात्
वामदेवेन मन्त्रेण पूजयेच्छयनोपरि ॥ ४० ॥
तन्मद्ध्ये शाययेद्देवं प्राक्शिरश्चोर्द्ध्ववक्त्रकम्
रक्तवस्त्रेण संवेष्ट्य गन्धादिभिर्यजेद्धृदा ॥ ४१ ॥
प्रधानकुम्भन्तस्यैव शिरो भागे तु विन्न्यसेत्
तस्यैव वामभागे तु वर्द्धनीञ्चैव विन्न्यसेत् ॥ ४२ ॥
अभितः कलशानष्टौ चाष्टविद्येश्वरात्मकान्
ससूत्रान्सापिधानांश्च सवस्त्रान्वारिपूरितान् ॥ ४३ ॥
सकूर्चान्हेमसंयुक्तान्फलपल्लवशोभितान्
शिवाख्यं पञ्चरत्नाम्बु उमाख्यं हेमसंयुतम् ॥ ४४ ॥
तत्तन्मूत्तर्यात्मकैर्बीजैर्वर्णा कृतिसचिह्नकैः
कुम्भेष्वेवं विशेषेण द्ध्यात्वा सम्पूजयेत्क्रमात् ॥ ४५ ॥
नैवेद्यन्दापयेत्पश्चात्ताम्बूलन्दापयेत्ततः
पद्ममुद्रां प्रदर्श्याथ होमकर्मसमाचरेत् ॥ ४६ ॥
शिवाग्निं कल्पयेत्तत्र अग्निकार्योक्तमार्गतः
समिदाज्य चरून्लाजान्सर्षपञ्च यवांस्तिलान् ॥ ४७ ॥
होमद्रव्याणि सप्तैते जुहुयात्क्रमशः क्रमम्
अश्वत्थोदुम्बरप्लक्षवटं पूर्वादिदिक्षु च ॥ ४८ ॥
शमीखदिरबिल्वञ्च मयूरञ्च विदिक्षु च
पलाशञ्च प्रधानस्य सर्वेषामिद्ध्ममुच्यते ॥ ४९ ॥
समिधं सद्यमन्त्रेण मूलेनैव घृतं हुनेत्
[[४८७]]
अघोरेण चरुं हुत्वा वामदेवेन लाजकम् ॥ ५० ॥
सर्षपं कवचेनैव यवमस्त्रेण होमयेत्
तिलं नेत्रेण मन्त्रेण होमयेद्देशिकोत्तमः ॥ ५१ ॥
शतमर्द्धन्तदर्द्धं वा प्रत्येकञ्जुहुयात्क्रमात्
घृतं मिमिक्षेति घृतं हुत्वा देवस्य त्वाचरुं हुनेत् ॥ ५२ ॥
एषामीशेति वैलाजम् अग्निं कुर्या हि सर्षपम्
यवञ्च शन्नो देवीति कद्रुद्रायेति वैतिलम् ॥ ५३ ॥
प्रत्येकं षोडशं हुत्वा उपाहुति समिद्विना
द्रव्यान्ते व्याहृतिं हुत्वा स्पर्शाहुतिन्ततः कुरु ॥ ५४ ॥
मकुटं वदनञ्चैव हृदयन्नाभिगुह्यकौ
पदे चैव तु तद्द्रव्यं हुत्वा तेनैव मन्त्रतः ॥ ५५ ॥
मौल्यादिपादपर्यन्तं हुत्वान्ते तु तथा स्पृशेत्
एवं जागरणं रात्रौ प्रभाते स्थापनं कुरु ॥ ५६ ॥
आचार्यो मूर्तिपैस्सार्द्धं स्नानत्रयमथाचरेत्
अङ्गन्यासकरन्यासं पूर्वोक्तविधिनाचरेत् ॥ ५७ ॥
प्रतिमां शयनोर्ध्वे तु उद्धृत्य प्राङ्मुखं कुरु
पर्युषितानि सन्त्यज्य गन्धपुष्पादिभिर्यजेत् ॥ ५८ ॥
पूजयित्वा ततः कुम्भान्कुण्डेषु पावकं यजेत्
आचार्यं पूजयेत्पश्चात् वस्त्रहेमाङ्गुलीयकैः ॥ ५९ ॥
दक्षिणान्दापयेद्धीमान्प्रागुक्तविधिना सह
अद्ध्येतृमूर्तिपांश्चैव परिचारांश्च पूजयेत् ॥ ६० ॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात्
पूर्णाहुतिञ्च शिरसा पूजयेद्देशिकोत्तमः ॥ ६१ ॥
स्विष्टमग्नेति मन्त्रेण हुत्वाग्निन्तु विसर्जयेत्
मुहूर्ते समनुप्राप्ते स्नानश्वभ्रं न्यसेत्प्रभुम् ॥ ६२ ॥
घृतं शिरोर्पणं कुर्यात् हेमदूर्वाङ्कुराक्षतैः
[[४८८]]
घृतेनैव क्षिपेद्धीमान्मूर्तिपांश्चैव दापयेत् ॥ ६३ ॥
अष्टत्रिंशत्कलान्न्यासं क्रमेणैव तु विन्न्यसेत्
सर्वालङ्कारसंयुक्तं सर्वातोद्य समायुतम् ॥ ६४ ॥
प्रधानकुम्भमुद्धृत्य वर्द्धनीं मूर्तिकुम्भकान्
शिरसा वाचयित्वा तु कृत्वा सम्यक्प्रदक्षिणम् ॥ ६५ ॥
बिम्बाग्रे स्थण्डिलं कृत्वा स्थापयेत्स्थापनं क्रमात्
मुहूर्ते समनुप्राप्ते गुरवे सन्निवेदयेत् ॥ ६६ ॥
कुम्भात् बीजं सदादाय प्रतिमा हृदि विन्न्यसेत्
वर्द्धनीबीजमादाय पीठाब्जे मद्ध्यमे न्यसेत् ॥ ६७ ॥
विद्येशान्स्वस्वबीजेन इन्द्रादिष्वम्बुजं न्यसेत्
तन्मद्ध्ये स्थापयेद्देवमिन्दुशेखरमूर्तिनम् ॥ ६८ ॥
स्वपनं कारयेद्धीमान् पूजयेद्विधिपूर्वकम्
फलान्यत्रैव दत्वा तु पायसान्नं निवेदयेत् ॥ ६९ ॥
ताम्बूलं दापयेत्तत्र मुखवाससमन्वितम्
वस्त्राभरणमाल्याद्यैर्भूषयेत्परमेश्वरम् ॥ ७० ॥
उत्सवं कारयेद्धीमान्भवनं भौतिकन्तु वा
गौणवाप्यथ शैवं वा यथावित्तानुसारतः ॥ ७१ ॥
एवं संस्थापनं प्रोक्तं चन्द्रशेखरमूर्तिनः
सुखासनपुरार्योश्च एवमेवं विधीयते ॥ ७२ ॥
ध्यानभेदो भवेन्मन्त्री क्रियाभेदो न चैव हि
एवं यः कुरुते मर्त्यस्सपुत्रः पौत्रयुक्सुखम् ॥ ७३ ॥
सोन्ते शिवपुरं याति सर्वैश्वर्यसुखावहम् ॥ ७४ ॥
इति चन्द्रशेखरस्थापनविधिपटलस्सप्तसप्ततितमः