दक्षिणामूर्तिस्थापनविधिपटलप्रारम्भः
अथ संस्थापनं वक्ष्ये दक्षिणा मूर्तिनः परम्
ज्ञानदं शान्तिदं नॄणां भुक्तिदं मुक्तिदं परम् ॥ १ ॥
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने
शुभवारादिभिर्युक्ते प्रतिष्ठां सम्यगाचरेत् ॥ २ ॥
प्रागुक्तविधिमार्गेण अङ्कुराणि समर्पयेत्
विचित्रे मण्टपे रम्म्ये रत्नन्यासं समारभेत् ॥ ३ ॥
शालिभिस्थण्डिलं कृत्वा पीठन्तस्योपरिन्यसेत्
माणिक्कं पुष्यरागञ्च वैडूर्यं नीलमेव च ॥ ४ ॥
स्फटिकं मौत्तिकं शङ्खं चन्द्रकान्तं प्रवालकम्
मद्ध्यादीशानपर्यन्तं विन्यसेद्धृदयेन तु ॥ ५ ॥
प्रतिमां तस्योपरिन्यस्त्वा सुस्निग्धं सुदृढं कुरु
ऋषीणां रत्नविन्यासं न कुर्यात्तु प्रजापते ॥ ६ ॥
ततोऽक्षिमोक्षणं कुर्यात् नेत्रद्वययुते दिने
मण्टपे लङ्कृते मद्ध्ये स्थण्डिलं शालिभिः कुरु ॥ ७ ॥
बिम्बं तस्योपरिन्यस्त्वा तस्य वामे न्यसेदृषीन्
पक्ष्मरेखां पुरालिख्य कृष्णमण्डलमालिखेत् ॥ ८ ॥
ज्योतिर्मण्डलमालिख्य हेमसूच्या प्रहारयुक्
नेत्रमन्त्रमनुस्मृत्य लेखयेद्देशिकोत्तमः ॥ ९ ॥
ऋषीणान्नैव नेत्रेषु नेत्रेणैव समालिखेत्
हेमाङ्गुलीय वस्त्राद्यैस्सम्पूज्यो द्वास्य शिल्पिनम् ॥ १० ॥
तस्याग्रे स्थण्डिलं कृत्वा शालिभिश्च विशेषतः
प्राङ्मुखं प्रतिमां तस्य तन्मद्ध्ये विन्न्यसेत् बुधः ॥ ११ ॥
ऋषीनुत्तरतो न्यस्त्वा प्रोक्षयेदस्त्रमन्त्रतः
नेत्रेषु नेत्रमुच्चार्य प्रोतहैमनखैरपि ॥ १२ ॥
ततो मध्वाज्यसूक्ताभ्यां मध्वाज्याभ्याञ्च तर्पयेत्
[[४७८]]
मधुना च घृतेनैव पात्रे तु प्रस्थपूरिते ॥ १३ ॥
तत्सूक्ताभ्यां क्रमेणैव दर्शयेद्देशिकोत्तमः
गौर्धेनुहव्यमन्त्रेण सवत्साङ्गां प्रदर्शयेत् ॥ १४ ॥
धान्यराशिं हृदामन्त्री ब्रंहसूक्तेन भूसुरान्
मधुना च घृतेनैव ऋषीन्नेत्रेषु तर्पयेत् ॥ १५ ॥
प्रच्छन्नपटमावर्ज्य जनसङ्घान्प्रदर्शयेत्
स्नापयेत्पञ्चगव्यैश्च अष्टमृत्सलिले हृदा ॥ १६ ॥
मालाभरणवस्त्राद्यैर्बिम्बान्सम्भूष्य देशिकः
रङ्गे वा शिबिकायां वा रथे वारोप्य भक्तितः ॥ १७ ॥
सर्वालङ्कारसंयुक्तं कृत्वा ग्रामप्रदक्षिणम्
ततो जलाशयं प्राप्य तीरे समतलं कुरु ॥ १८ ॥
स्थण्डिलं शालिभिः कृत्वा बिम्बं तत्रैव विन्न्यसेत्
हृदागन्धादिभिः पूज्य बिम्बान्वस्त्रेण वेष्टयेत् ॥ १९ ॥
जलमद्ध्ये प्रपां कृत्वा वितानध्वजसंयुताम्
दर्भमालासमायुक्तां चतुर्गात्रसमन्विताम् ॥ २० ॥
तन्मद्ध्ये कण्ठदघ्ने तु जले वै फलकोपरि
प्रतिमां शाययेद्विद्वान्प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ २१ ॥
ऋषींस्तत्रोत्तरे पार्श्वे पूर्ववच्छाययेत् बुधः
अभितः कलशानष्टौ लोकपालाधिदैवतान् ॥ २२ ॥
सूत्रादिभिस्समोपेतानीशानेन तु पूजयेत्
एकरात्रं द्विरात्रं वा त्रिरात्रं वा जलोषितम् ॥ २३ ॥
आलयस्याग्रके वापि दक्षिणे चोत्तरेऽपि वा
द्वादशं दशहस्तं वा नवहस्तमथापि वा ॥ २४ ॥
विकारस्तम्भसंयुक्तं मण्टपञ्चतुरश्रकम्
मद्ध्यमे वेदिकां कुर्यात् गुणभागैकभागया ॥ २५ ॥
रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम्
[[४७९]]
कुण्डानि कल्पयेद्धीमान्मानुषे तु पदे हितम् ॥ २६ ॥
वेदाश्रं शशिखण्डञ्च भूताश्रन्तु गुणाश्रकम्
महाशासु प्रकल्प्याथ कोणेष्वेव सरोरुहम् ॥ २७ ॥
शक्रशाङ्करयोर्मद्ध्ये वृत्तं प्राधानकं कुरु
स्थानश्वभ्रे ततः प्राग्वत्कल्पयेन्मण्टपोत्तरे ॥ २८ ॥
पश्चाच्छिल्पिनमुद्वास्य गोमयेन तु लेपयेत्
मण्टपं भूषयेद्धीमान्कृतद्वारसमन्वितम् ॥ २९ ॥
वेदतोरणसंयुक्तं गात्रवेष्टनसंयुतम्
वितानदर्भमालाभिरङ्कुरैरष्टमङ्गलैः ॥ ३० ॥
तरङ्गवेष्टनोपेतं भूसुरान्भोजयेत्ततः
उच्छिष्टन्तु ततो द्वास्य गोमयेनानुलेपयेत् ॥ ३१ ॥
वास्तुहोमं ततः कुर्यात् मण्टपन्तेन वह्निना
पुण्याहं वाचयित्वा तु द्वारपूजादिपूर्वकम् ॥ ३२ ॥
वेद्यूर्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः
तदर्द्धैस्तण्डुलैर्भूष्य तदर्द्धैश्च तिलैरपि ॥ ३३ ॥
दर्भैः पुष्पैः परिस्तीर्य यजेदीशानमन्त्रतः
तन्मद्ध्ये शयनं कुर्यात् चर्मचाद्यैरनुक्रमात् ॥ ३४ ॥
शयनं गन्धपुष्पाद्यैर्वामदेवेन पूजयेत्
सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम् ॥ ३५ ॥
जलादुत्तीर्य बिम्बांश्च स्नापयेत् ब्रंहपञ्चकैः
तस्य पञ्चमभागे तु फलकोर्ध्वे न्यसेदृषीन् ॥ ३६ ॥
वस्त्रकूर्चादिकं त्यज्य पूर्ववच्छुद्धिमाचरेत्
गन्धपुष्पादिभिस्तत्र ईशानेन तु पूजयेत् ॥ ३७ ॥
तत्पुरुषेन मन्त्रेण कौतुकं बन्धयेत्सुधीः
स्नानवेद्यास्समुद्धृत्य प्रतिमां शयनोपरि ॥ ३८ ॥
प्राक्शिरश्चोर्ध्ववक्त्रश्च शाययेत्पुरुषेण तु
[[४८०]]
वस्त्रेणैव तु संवेष्ठ्य ईशानेन तु पूजयेत् ॥ ३९ ॥
देवस्य दक्षिणे भागे अगस्त्यश्चाङ्गिरस्तथा
देवस्य वामभागे तु विश्वामित्रपुलस्त्यकौ ॥ ४० ॥
काशे तु शाययेद्धीमान्पूर्ववत्पुरुषेण तु
वस्त्रेण वेष्टयेत्सर्वान्गन्धादिभिर्यजेद्धृदा ॥ ४१ ॥
बिम्बस्यैव शिरोभागे शिवकुम्भञ्च वर्द्धनीम्
ससूत्रौ जलसम्पूर्णौ सापिधानौ सकूर्चकौ ॥ ४२ ॥
सवस्त्रौ हेमरक्ताद्यौ विन्न्यसेत्तु क्रमेण तु
ध्यात्वा मूर्त्या कृतिं कुम्भे तज्जलञ्चैव विन्न्यसेत् ॥ ४३ ॥
ईशानेन तु सम्पूज्य पद्ममुद्रां प्रदर्शयेत्
गौरीबीजन्तु वर्द्धन्न्यां ध्यात्वा गौरीं न्यसेद्धृदा ॥ ४४ ॥
दर्शयेन्मुकुली मुद्रां पद्ममुद्रां प्रदर्शयेत्
ऋषीणाञ्च शिरोभागे प्रत्येकन्तु घटान्न्यसेत् ॥ ४५ ॥
सूत्रादिभिस्समोपेतान् हैमाब्जेन समायुतान्
विन्न्यसेदृषिबीजानि ध्यात्वा कुम्भस्य मद्ध्यमे ॥ ४६ ॥
ईशानेन तु मन्त्रेण गन्धपुष्पादिभिर्यजेत्
अभितस्तु घटानष्टौ चन्दनोदकपूरितान् ॥ ४७ ॥
सूत्रादिभिस्समोपेतानिन्द्राशादिषु विन्न्यसेत्
विद्येशानां स्वबीजानि कुम्भमद्ध्ये क्रमान्न्यसेत् ॥ ४८ ॥
गन्धपुष्पादिभिस्तत्तत् हृदयेनैव पूजयेत्
नैवेद्यं दापयेत्तेषां ताम्बूलन्तु निवेदयेत् ॥ ४९ ॥
प्रागुक्तलक्षणोपेतस्सर्वाभरणभूषितः
नवाम्बरधरोष्णीषस्सोत्तरीयस्सुमालकः ॥ ५० ॥
स्थापको मूर्तिपैस्सार्द्धं होमकर्मसमारभेत्
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ५१ ॥
समिदाज्य चरून्लाजं बिल्वपत्रं यवं तिलम्
[[४८१]]
होमद्रव्याणि सप्तैते जुहुयादादिशैवकः ॥ ५२ ॥
महाशासु पलाशन्तु बिल्वञ्च विदिशासु च
प्रधानस्य पलाशन्तु सर्वेषामिध्ममेव च ॥ ५३ ॥
समिधस्सद्यमन्त्रेण घृतं मूलेन होमयेत्
चरुं वामेन जुहुयात् लाजन्तु हृदयेन तु ॥ ५४ ॥
बिल्वपत्राणि शिरसा यवन्नेत्रेण होमयेत्
पुरुषेण तिलं हुत्वा द्रव्यान्ते व्याहृतिं हुनेत् ॥ ५५ ॥
प्रत्येकं शतमर्द्धं वा तदर्द्धं वापि होमयेत्
कदुद्रायेतिमन्त्रेण हुत्वाज्येनैव षोडशम् ॥ ५६ ॥
स्पृष्ट्वा तु मस्तकं पश्चादघोरायेति मन्त्रतः
आज्येन पूर्ववद्धुत्वा स्पृशेत्तद्वत्प्रदेशतः ॥ ५७ ॥
त्रियम्बकेन मन्त्रेण प्राक् धृत्वा संस्पृशेत्कटिम्
शिवाङ्गैश्चैव विद्याङ्गैः पञ्चब्रह्मैश्च मूलकैः ॥ ५८ ॥
बीजमुख्ये घृतेनैव प्रत्येकन्तु शतं हुनेत्
नृत्तगेयञ्च विविधैरात्रिशेषं व्यपोह्य च ॥ ५९ ॥
प्रभाते विमले धीमान्स्थापनन्तु समारभेत्
देशिको मूर्तिपैस्सार्द्धं स्नानत्रयमथाचरेत् ॥ ६० ॥
अङ्गन्यासकरन्यासं पूर्वोक्तविधिना कुरु
आचार्यो मूर्तिपाश्चैव पूजयेत्तु पुरोक्तवत् ॥ ६१ ॥
उद्धृत्य शयनात् बिम्बान्वस्त्रादीनि विसर्जयेत्
गन्धपुष्पादिभिश्चैव पूजयेत्पुरुषेण तु ॥ ६२ ॥
कुम्भान्कुण्डानि सम्पूज्य गन्धपुष्पादिभिस्ततः
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ ६३ ॥
पूर्णाहुतिञ्च शिरसा हुत्वाग्निं परिवर्जयेत्
सर्वालङ्कारसंयुक्तं सर्वातोद्य समन्वितम् ॥ ६४ ॥
स्नानवेद्या नयेद्बिम्बं तत्पश्चिमे नयेदृषीन्
[[४८२]]
अष्टत्रिंशत्कलान्यासं मकुटादिक्रमान्न्यसेत् ॥ ६५ ॥
पूजयेत्पुरुषेणैव गन्धपुष्पादिभिस्सह
ऋषीणामक्षरन्यासं पूर्वोक्तविधिना कुरु ॥ ६६ ॥
घृतशिरोर्पणं देवं प्रागुक्तविधिना कुरु
कुम्भानुद्धृत्य शिरसा बाह्ये हर्म्यप्रदक्षिणम् ॥ ६७ ॥
कृत्वा बिम्बाग्रके चैव स्थण्डिलोर्ध्वे तु विन्न्यसेत्
मुहूर्ते समनुप्राप्ते स्थापनन्तु समारभेत् ॥ ६८ ॥
प्राणप्रकृतियोगन्तु ज्ञात्वा संस्थापनं कुरु
कुम्भात् बीजं समादाय प्रतिमा हृदि विन्न्यसेत् ॥ ६९ ॥
तत्कुम्भस्थजलैश्चैव स्नापयेत्परमेश्वरम्
वर्द्धन्यां बीजमादाय पीठकण्ठे तु विन्न्यसेत् ॥ ७० ॥
वर्द्धनी कुम्भतोयेन स्नापयेत्तत्प्रदेशकम्
विद्येशानान्तु बीजानि पीठे शक्रादिषु न्यसेत् ॥ ७१ ॥
तद्धटस्थोदकैर्देवं स्नाप्येशाने तु पूजयेत्
ऋषीणां हृत्प्रदेशे तु तत्तत् बीजन्तु विन्न्यसेत् ॥ ७२ ॥
गन्धपुष्पादिभिस्तत्र ईशानेन तु पूजयेत्
स्नपनं कारयेद्देवमर्चनोक्तं समर्चयेत् ॥ ७३ ॥
आलयन्तु नयेद्देवं विन्न्यसेद्दक्षिणाननम्
तस्य दक्षिणभागे तु अगस्त्यञ्चाङ्गिरन्न्यसेत् ॥ ७४ ॥
देवस्य वामभागे तु विश्वामित्रं पुलस्त्यकम्
अर्चनोक्तं समभ्यर्च्य प्रभूतहविषन्ददेत् ॥ ७५ ॥
उत्सवं कारयेत्पश्चादेकाहं त्रियहन्तु वा
ऋषिभिश्च विना ह्येवं स्थापनं गेयमूर्तिनः ॥ ७६ ॥
ग्रामस्य दक्षिणे भागे शतदण्डस्य चान्तके
तटाकतीरे वानद्यास्तीरे व्याख्यानमूर्तिनः ॥ ७७ ॥
स्थापयित्वा विधानेन पूजयेद्विधिपूर्वकम्
[[४८३]]
स्वतः प्रधानमेतत्स्यात् ज्ञानार्त्थं सम्प्रकल्पयेत् ॥ ७८ ॥
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ७९ ॥
इति दक्षिणामूर्तिस्थापनविधिपटलष्षट्सप्ततितमः