नृत्तमूर्त्तिस्थापनविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण स्थापनन्नृत्तमूर्तिनः
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने ॥ १ ॥
सुतिथौ सुष्ठुवारे च सुयोगकरणान्विते
सुमुहूर्त्ते सुलग्ने च प्रतिमां कारयेत्ततः ॥ २ ॥
[[४६६]]
चलानामचलानाञ्च मासपक्षर्क्षकादिकाः
लिङ्गसंस्थापनस्योक्तमार्गेणैव समाचरेत् ॥ ३ ॥
परिग्रहेत्प्रतिष्ठादि कारयेदङ्कुरार्पणम्
रत्नन्न्यासन्ततः कुर्यादम्बुजे तु विशेषतः ॥ ४ ॥
इन्द्रनीलन्तु पूर्वस्यां पुष्यरागन्तु पावके
मौक्तिकं याम्यदेशे वा नैर्ऋतौ मरतकं न्यसेत् ॥ ५ ॥
नीलन्तु वारुणे देशे वायव्ये पद्मरागकम्
वैडूर्यं सौम्यदिग्भागे ईशाने तु प्रवालकम् ॥ ६ ॥
माणिक्कम्मद्ध्यमे स्थाप्य वारादीनां स्वबीजकैः
पूर्वादिमद्ध्यदेशान्तं क्रमेणैव तु विन्न्यसेत् ॥ ७ ॥
यथा स्निग्धन्तथात्रैव बन्धयेत्तु विशेषतः
शैलञ्चेत्स्थापनात्वूर्वं रत्नानि विन्यसेद्बुधः ॥ ८ ॥
शूलस्थापनकाले तु न्यसेत्स्वयादिमूर्तिकाः
अन्येषां रत्नविन्यासं वर्जयेत्तु प्रयत्नतः ॥ ९ ॥
नेत्रद्वययुतर्क्षे तु कारयेन्नेत्रमोक्षणम्
सुगुप्ते मण्टपे रम्ये गोमयेनानुलेपिते ॥ १० ॥
प्रच्छन्नपटसंयुक्ते सर्वालङ्कारसंयुते
स्थण्डिलन्तस्य मद्ध्ये तु युगाङ्गुलसमुच्छ्रयम् ॥ ११ ॥
या तु तालप्रविस्तारं युगास्त्रं शालिभिः कुरु
तदूर्द्ध्वेष्टदलं पद्मं तण्डुलैश्चैव कारयेत् ॥ १२ ॥
तस्य मद्ध्ये न्यसेद्देवं प्राङ्मुखन्देशिकोत्तमः
हेमसूचिप्रहाराभ्याम् आचार्यश्शिल्पिभिस्सह ॥ १३ ॥
पक्ष्मरेखां पुरा कृत्वा ततो वै दृष्टिमण्डलम्
ज्योतिर्मण्डलमालिख्य नेत्रमन्त्रसमायुतम् ॥ १४ ॥
उच्चरेन्मन्त्रमाचार्यः स्थपतिः कर्मकारयेत्
अपस्मारस्य गङ्गायां कुर्यान्नयनमोक्षणम् ॥ १५ ॥
[[४६७]]
आलिख्य प्रतिमानान्तु तत्तद्वर्णैस्तु तत्र वै
तदाक्षिमोचनं कुर्यात् हेमसूचिक्रिया सुधीः ॥ १६ ॥
वस्त्रहेमाङ्गुलीयाद्यैस्सम्पूज्योद्वास्य शिल्पिनम्
तस्याग्रे स्थण्डिलं कृत्वा बिम्बन्तस्योपरिन्न्यसेत् ॥ १७ ॥
सूत्रोदकादिभिश्चाष्टौ कलशानष्टदिक्षु च
स्वनामैरभितस्थाप्य लोकेशान्सम्प्रपूजयेत् ॥ १८ ॥
सुवर्णदूर्वया नेत्रे मद्ध्वाज्याभ्यान्तु लेपयेत्
यन्मधूनोमधव्येति मधुना तर्पयेद्गुरुः ॥ १९ ॥
घृतं घृतेतिमन्त्रेण तर्पयेत्तु घृतेन तु
लोहजे शैलजे दार्वे नेत्रेष्वेवन्तु लेपयेत् ॥ २० ॥
अन्येषाञ्चैव सर्वेषां भावयेल्लेपनक्रियाः
तर्ज्जन्न्यानामिकामद्ध्ये सूर्यसोमाग्निकाधिपैः ॥ २१ ॥
हिरण्यनखसम्प्रोक्तैर्न्यसेत्तम्बीजसंयुतम्
सौवर्णे रजते ताम्रे कांस्ये वाथ शरावके ॥ २२ ॥
घृतेन मधुना चैव प्रत्येकं प्रस्थपूरितम्
घृतं प्रदर्शयेन्मन्त्री नेत्रमन्त्रमनुस्मरन् ॥ २३ ॥
दर्शयेन्मधुपात्रन्तु दशाक्षरमनुस्मरन्
गौर्द्धेनुभव्यमन्त्रेण सवत्साङ्गां प्रदर्शयेत् ॥ २४ ॥
ब्रह्मजज्ञानमन्त्रेण ब्राह्मणान्दर्शयेत्ततः
क्षुरिकाबीजमुख्यैश्च धान्यराशीन्प्रदर्शयेत् ॥ २५ ॥
अपोहिष्ठेतिमन्त्रेण स्नापयेत्तु नटेश्वरम्
प्रच्छन्नपटमावर्ज्य जनान्सर्वान्प्रदर्शयेत् ॥ २६ ॥
मृण्मये चैव कर्त्तव्यं गर्भगेहे विशेषतः
प्रतिमा शुद्धिन्ततः कुर्यात् मृण्मये कुशमार्जनम् ॥ २७ ॥
मूर्द्धादिपादपर्यन्तं त्रिः कृत्वा तु दशाक्षरैः
लोहजञ्चाष्टमृद्भिस्तु मर्दयेदाज्यसंयुतम् ॥ २८ ॥
[[४६८]]
कुशाशकृत् भस्ममृद्भिः कलशैश्चाभिषेचयेत्
आपोहिष्ठेति मन्त्रेण स्नापयेत्पञ्चगव्यकैः ॥ २९ ॥
पाशुपतेन चास्त्रेण स्नापयेत् गन्धतोयकैः
गन्धाद्यैरर्च्चयित्वा तु सर्वालङ्कारसंयुतम् ॥ ३० ॥
सर्वातोद्य समायुक्तं कुर्यात् ग्रामप्रदक्षिणम्
जलमद्ध्ये प्रपां कृत्वा चतुर्गात्रसमन्वितम् ॥ ३१ ॥
दर्भमालासमायुक्तं वितानद्ध्वजसंयुतम्
लम्बकूर्चसमायुक्तं बिम्बं वस्त्रेण वेष्टयेत् ॥ ३२ ॥
पीठे वा फलके वापि कण्ठमात्रे जले गुरुः
प्रतिमां शाययेत्तत्र प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ ३३ ॥
त्रिरात्रं वा द्विरात्रं वा व्योमरात्रमथापि वा
जलाधिवासनं कुर्यात् वेदायाममथापि वा ॥ ३४ ॥
जलाधिवासनारम्भं रात्रौ चैवन्नकारयेत्
नकुर्याच्छयनारम्भं दिवाकाले विशेषतः ॥ ३५ ॥
मृण्मये त्वर्द्धचित्रे च भित्तिचित्रे पटे तथा
ग्रामप्रदक्षिणेनोक्तमेतेषान्तु प्रजापते ॥ ३६ ॥
जलाधिवासनञ्चैषामग्रे तु शालिभिः कुरु
वेदतालप्रविस्तारमुत्सेधन्तु युगाङ्गुलम् ॥ ३७ ॥
स्थण्डिलञ्चतुरश्रन्तु तन्मद्ध्ये नलिनं लिखेत्
तस्योर्ध्वे जलभाण्डन्तु विन्न्यसेत्सूत्रवेष्टितम् ॥ ३८ ॥
वस्त्रेणास्तीर्य तस्योर्ध्वे दर्पणं विन्यसेत्ततः
प्रतिबिम्बयुतं तत्र स्थापयेद्दर्पणं हृदा ॥ ३९ ॥
त्रिंशत्कांशैस्समायुक्तमग्रन्तु चतुरङ्गुलम्
ग्रन्धिव्योमाङ्गुलं दैर्घ्यं प्रतिमाजानुमात्रकम् ॥ ४० ॥
तत्कूर्चं हृदयेनैव विन्यसेद्दर्पणोपरि
चतुष्पादं न्यसेत्तत्र याज्ञिकैर्वृक्षसम्भवैः ॥ ४१ ॥
[[४६९]]
रत्निमात्राधिकं बिम्बं मानं गात्रस्य दैर्घ्यकम्
युगाश्रं वाथ वृत्तं वा द्वादशाङ्गुलनाहकम् ॥ ४२ ॥
पक्षतालप्रमाणेन तदूर्ध्वे फलकां कुरु
अब्ध्यङ्गुलेन सुषिरं वृत्तमद्ध्ये प्रकल्पयेत् ॥ ४३ ॥
द्वात्रिंशत्प्रस्थसम्पूर्णं कुम्भबिम्बसमप्रभम्
सूत्रेण वेष्टयेत्कुम्भं यवान्तरक्रमेण तु ॥ ४४ ॥
एवमेवोपकुम्भन्तु कल्पयेत्कल्पवित्तमः
चतुष्पाद्युपरिन्न्यस्त्वा पृष्ठे तु सुषिरं कुरु ॥ ४५ ॥
वेदतारप्रमाणेन नालं हैमेन संयुतम्
तन्नालं तत्र तोयैश्च स्नापयेद्दर्पणोपरि ॥ ४६ ॥
कुम्भाम्भश्शोषणात्पूर्वे उपकुम्भन्तु पूरयेत्
जलाधिवासनं ह्येवं मण्टपं कारयेत्ततः ॥ ४७ ॥
प्रासादस्याग्रतो वापि दक्षिणे चोत्तरेऽपि वा
धर्मरन्ध्राष्टहस्ताश्च मण्टपानाञ्च विस्तरम् ॥ ४८ ॥
कलास्तम्भसमायुक्तं स्तम्भनाहं द्वितालकम्
पङ्क्तित्रयसमायुक्तम् उच्छ्रयं पङ्क्तिमानकम् ॥ ४९ ॥
मण्टपं रन्ध्रयाभज्य मद्ध्ये व्योमन्तु वेदिका
रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥ ५० ॥
परितो वेदिकामूले उपवेदीं प्रकल्पयेत्
युगाङ्गुलप्रविस्तारमुत्सेधञ्चाङ्गुलद्वयम् ॥ ५१ ॥
मानुषे तु पदे कुर्यात्कुण्डानि लक्षणैस्सह
श्रुत्यश्रञ्चैव पूर्वायामग्नौ चाश्वत्थपत्रवत् ॥ ५२ ॥
याम्ये तु धनुषाकारं नैर्ऋत्यान्तु गुणाश्रकम्
पर्जन्न्ये वर्तुलं कुण्डं वायव्यान्तु षडश्रकम् ॥ ५३ ॥
सौम्म्ये कुशेशयं प्रोक्तमीशे तु पर्वताश्रकम्
ईशानचक्रयोर्मद्ध्ये वृत्तं प्राधानकमं कुरु ॥ ५४ ॥
[[४७०]]
तस्योत्तरे वा पाशिन्न्यां स्नानश्वभ्रं प्रकल्पयेत्
त्रितालमात्रविस्तारं चतुरश्रं द्विमेखलम् ॥ ५५ ॥
मेखलाभ्यान्तु विस्तारं प्रत्येकञ्चतुरङ्गुलम्
उत्सेधं तत्समं ज्ञेयम् उत्तरे नालनिर्गमम् ॥ ५६ ॥
द्वादशाङ्गुलमायामं मद्ध्ये रन्ध्रं युगाङ्गुलम्
तस्योर्ध्वोत्तरभागे तु जलावर्तन्तु कारयेत् ॥ ५७ ॥
उद्वास्य शिल्पिनं पश्चात् गोमयेनानुलेपयेत्
प्रोक्षयेद्धृदयेनैव मण्टपं भूषयेत्ततः ॥ ५८ ॥
युगद्वारसमायुक्तं वेदतोरणसंयुतम्
वितानेनोर्ध्वमाच्छाद्यमुक्तादामैरलङ्कृतम् ॥ ५९ ॥
दिक् ध्वजैश्च समायुक्तं दर्भमालासमावृतम्
जगलाष्टकसंयुक्तं तरङ्गेणैव वेष्टितम् ॥ ६० ॥
पुण्याहं वाचयेत्तत्र भूसुरान्पूजयेत्ततः
समरीयपदे सम्यक् वास्तुहोमन्तु कारयेत् ॥ ६१ ॥
आषाढपत्रदर्भैश्च पर्यग्निन्तेन वह्निना
कृत्वाशिवाम्भसा प्रोक्ष्य पुनः पुण्याहमाचरेत् ॥ ६२ ॥
द्वारपूजादिसम्पूज्य स्थापनक्रमवद्बुधः
स्थण्डिलं वेदिकोर्ध्वे तु निर्मलैरत्नशालिभिः ॥ ६३ ॥
दशद्रोणैस्समायुक्तन्तदर्द्धन्तण्डुलैरपि
तन्मद्ध्ये पङ्कजं कृत्वा साष्टपत्रं सकर्णिकम् ॥ ६४ ॥
तिलैर्ल्लाजैश्च दर्भैश्च पुष्पैश्चैव परिस्तरेत्
शयनं कल्पयेत्तत्र चर्मचाद्यैरनुक्रमात् ॥ ६५ ॥
चर्मजं रोमजञ्चैव मुण्डजञ्चाण्डजन्तथा
उपरिस्तरणेनैव उपधानैस्समन्वितम् ॥ ६६ ॥
उपर्युपरिकञ्चैव पञ्चधाशयनन्तथा
परिस्तरणदर्भैश्च पवमानमुदीरयन् ॥ ६७ ॥
[[४७१]]
प्रोक्षयेत्पुरुषेणैव हृदागन्धादिभिर्यजेत्
सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम् ॥ ६८ ॥
जलादुत्तीर्यदेवेशं स्नानश्वभ्रे तु विन्न्यसेत्
व्यपोह्य वस्त्रकूर्चादीन्पूजयेत् गन्धपुष्पकैः ॥ ६९ ॥
अष्टमृत्सलिलेनैव क्षालयित्वा तु निर्म्मलम्
स्नापयेत्पञ्चगव्यैश्च शुद्धैरुत्थैरिति ब्रुवन् ॥ ७० ॥
संस्नाप्य गन्धतोयैश्च वस्त्रेणैव तु वेष्टयेत्
पूजयेद्धृदयेनैव कौतुकं बन्धयेत्ततः ॥ ७१ ॥
सौवर्णं रजतं सूत्रं क्षौमं कार्पासजन्तु वा
कौतुकन्तु हृदाबध्वा दक्षिणे तु करे बुधः ॥ ७२ ॥
गन्धादिभिर्यजेन्मुद्रां महाशक्त्यां प्रदर्शयेत्
आदिशैवान्वयोद्भूतस्सर्वलक्षणसंयुतः ॥ ७३ ॥
नववस्त्रधरोष्णीषस्सोत्तरीयस्सुमाल्यकः
हेमाङ्गुलीयकटककुण्डलाभ्यामलङ्कृतः ॥ ७४ ॥
दिव्यगन्धानुलिप्ताङ्गस्सौम्म्याभिमुखमास्थितः
शयनेशाशयेद्देवं प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ ७५ ॥
शाययित्वा हृदा कुर्यात् दिग्बन्धं चास्त्रमन्त्रतः
छादयेद्वस्त्रदर्भैश्च गन्धादिभिर्यजेद्धृदा ॥ ७६ ॥
शैलजे लोहजे चैव कुर्याद्देवं क्रमेण तु
मृण्मये त्वर्द्धचित्रे च आभासे च पटेऽपि च ॥ ७७ ॥
व्यपोह्य दर्पणं कूर्चं सङ्गृह्य शयनोपरि
संस्थाप्य पूज्य गन्धाद्यैः बन्धयेत्कौतुकं बुधः ॥ ७८ ॥
मृण्मये त्वर्द्धचित्रे च तद्धस्ते च प्रबद्धयेत्
आभासे च पटे चैव कौतुकं भावयेद्बुधः ॥ ७९ ॥
दर्पणं वापि कूर्चं वा पूर्वोक्तं शाययेद्बुधः
कुम्भान्संस्थापते पश्चात्सर्वलक्षणसंयुतान् ॥ ८० ॥
[[४७२]]
ससूत्रान्सापिधानांश्च सवस्त्रान्कूर्चसंयुतान्
गन्धोदकेन सम्पूर्णानाम्रपल्लवशोभितान् ॥ ८१ ॥
शिरः प्रदेशे देवस्य शिवकुम्भन्तु विन्न्यसेत्
तस्यैवोत्तरदिग्भागे विन्न्यसेद्वर्द्धनीं ततः ॥ ८२ ॥
शिवाख्यं पञ्चरत्नाम्बु हेमाब्जं वर्द्धनीं न्यसेत्
कुम्भमद्ध्ये न्यसेद्बीजं महेशाख्यं जगत्पतिम् ॥ ८३ ॥
चतुर्भुजं त्रिणेत्रञ्च जटामकुटसंयुतम्
शशिपन्नगधुत्तूरदिव्यपुष्पैरलङ्कृतम् ॥ ८४ ॥
सर्वलक्षणसंयुक्तं रक्तवस्त्रोपशोभितम्
गोक्षीरधवलप्रख्यं किञ्चित्प्रहसिताननम् ॥ ८५ ॥
एवं महेशरूपन्तु तत्तद्रूपोक्तचिह्नधृक्
तद्रूपन्तु ततो ध्यात्वा पूजयेत्तु विशेषतः ॥ ८६ ॥
वर्द्धन्न्यां विन्न्यसेत्पश्चात् गौरीबीजन्तु देशिकः
द्विभुजाञ्चारुवदनां नेत्रद्वयसमन्विताम् ॥ ८७ ॥
करण्डमकुटोपेतां श्यामनीलालकान्विताम्
नितम्बस्तनविस्तीर्णां प्रसार्यचरणान्विताम् ॥ ८८ ॥
दक्षिणेब्जकरां देवीं सर्वाभरणभूषिताम्
दुकूलवसनाङ्गौरीं द्ध्यात्वा गन्धादिभिर्यजेत् ॥ ८९ ॥
मुकुलीं पद्ममुद्राञ्च दर्शयेदुभयोरपि
अभितः कलशानष्टौ चाष्टविद्येश्वरैर्युतान् ॥ ९० ॥
इन्द्रादीशानपर्यन्तं स्वैस्वैर्मन्त्रैस्वरूपकैः
हेमेन टङ्कशूलन्तु न्यसेदष्टघटेषु च ॥ ९१ ॥
अर्पयेत् गन्धपुष्पाद्यैर्नैवेद्यान्तं पृथक्पृथक्
आसनञ्चैव नृत्तञ्च स्थितमारूढमेव च ॥ ९२ ॥
यावत्सङ्कल्पमाचार्यं यथादेवोपरूपधृक्
शयनाधिवासनं ह्येवं पश्चाद्धोमं समारभेत् ॥ ९३ ॥
[[४७३]]
पूर्वोक्तलक्षणोपेतान्मूर्त्तिपान्संवरेत्सुधीः
ऋगाद्यद्ध्ययनं कुर्यात् चतुर्द्दिक्षु क्रमेण तु ॥ ९४ ॥
मूलं पाशुपतास्त्रञ्च अघोरास्त्रक्षशाक्षरम्
आग्नेयादिषु कोणेषु कुर्यान्मन्त्रजपेद्विजः ॥ ९५ ॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
भवश्चोग्रश्च शर्वश्च महादेवश्च रुद्रकः ॥ ९६ ॥
भीमः पशुपतिश्चैव ईशानश्चाष्टमूर्त्तयः
इन्द्राद्यैशानपर्यन्तं स्वस्वमन्त्रैर्विशेषतः ॥ ९७ ॥
संयजेयुः क्रमान्मूर्त्तीन्कुण्डानाञ्चैव दक्षिणे
समिदाज्य चरून्लाजं सर्षपञ्च यवन्तिलम् ॥ ९८ ॥
प्रियङ्गुशालिमुद्गाञ्च अपूपञ्जुहुयात्क्रमात्
न्यग्रोधञ्च शमीबील्वम् अर्क्कं पूर्वादिदिक्षु च ॥ ९९ ॥
उदुम्बरञ्च मायूरं पिप्पलं खादिरन्तथा
अग्न्यादिविदिशासूक्ताः प्रथानस्य पलाशकम् १००
सद्यादिचास्त्रपर्यन्तं मन्त्रैस्तु समिदादिभिः
शतमर्द्धन्तदर्द्धं वा प्रत्येकञ्जुहुयात्क्रमात् १०१
व्याहृतिञ्जुहुयाद्धीमान्द्रव्यान्ते तु पृथक्पृथक्
द्रव्यान्ते तु स्पृशेद्बिम्बमचलञ्चलमेव वा १०२
मकुटञ्च शिरश्चैव नेत्रं श्रोत्रञ्च नासिका
आस्यं बाहुहृदिस्थाने जठरं गुह्यदेशके १०३
पादौ चैव तु तद्द्रव्यं हुत्वा तेनैव मन्त्रतः
मौल्यादिपादपर्यन्तं हुत्वा ते तु तथा स्पृशेत् १०४
आज्येन मूलमन्त्रेण जुहुयात्तु शताहुतिम्
ब्रह्मजज्ञानमन्त्रेण इदं विष्ण्विति मन्त्रतः १०५
त्रियम्बकेन मन्त्रेण पञ्चविंशद्धुनेत्पृथक्
नृत्तं गेयञ्चविविधैस्तुत्यैस्तोत्रैर्विशेषतः १०६
[[४७४]]
रात्रिशेषं व्यपोह्याथ प्रभाते विमले ततः
देशिको मूर्तिपैस्सार्द्धं स्नानन्तु विधिना कुरु १०७
अङ्गन्यासकरन्यासं पूर्वोक्तविधिना कुरु
उद्धृत्य प्रतिमां कुर्यात्प्राङ्मुखं शयनोपरि १०८
व्यपोह्य वस्त्रपुष्पाणि गग्धादिभिर्यजेद्धृदा
कुम्भान्सम्पूजयेत्पश्चात् वह्निकुण्डेषु पूजयेत् १०९
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात्
पूर्णाहुतिञ्च शिरसा जुहुयाद्देशिकोत्तमः ११०
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
कटकैः कुण्डलैश्चैव यज्ञसूत्रैश्च हेमकैः १११
अधमन्दशनिष्कं स्याद्विगुणं मद्ध्यमं भवेत्
त्रिगुणञ्चोत्तमा प्रोक्ता दक्षिणा देशिकस्य तु ११२
अष्टभागैकभागन्तु मूर्तिपानान्तु दक्षिणा
अद्ध्येतॄणां तदर्धन्तु जप्तॄणान्तु तदर्द्धकम् ११३
भक्तानां परिचाराणां यथाश्रद्धानुदक्षिणाः
स्विष्टमग्नेतिमन्त्रेण हुत्वाग्धिन्तु विसर्जयेत् ११४
मुहूर्त्तनाडिकान्पूर्वे स्थापनन्तु समारभेत्
शैलजं प्रतिमाञ्चेत्तु दैविकं मद्ध्यमे पदे ११५
स्थापयेत्तु विशेषेण कूर्मशैलोपरिक्रमात्
बिम्बायामं त्रिभागैकं कूर्मोपलकविस्तृतम् ११६
घनन्तत्पञ्चभागैकं तन्मद्ध्ये त्ववटं घनेत्
नवरत्नानि बीजानि धातूंश्चैवोषधीन्क्रमात् ११७
लिङ्गस्थापनवत्प्रोक्तम् आलयं सप्रदक्षिणम्
कूर्मपीठं तु पीठं वा ब्राह्मिके कल्पयेद्बुधः ११८
उद्धरेद्देवदेवेशं शयनाद्धोतृभिस्सह
मूर्तिपांश्च नयेद्देवमद्ध्येतृभिस्समन्वितम् ११९
[[४७५]]
आचार्योर्घ्यं गृहीत्वा तु नयेदग्रे विशेषतः
पुत्रभ्रातृकलत्रैश्च यजमानो व्रजेदनु १२०
चलञ्चेत्स्नानवेद्यान्तु अचलञ्चालयेन्नयेत्
प्रविश्यद्वारदेशन्तु दद्यादर्घ्यं हृदा सुधीः १२१
नीत्वागर्भगृहं पश्चात्प्रोक्षयेत्कुशवारिणा
स्थापयेद्देवदेवेशमीशानेन तु देशिकः १२२
सुस्निग्धं कारयित्वा तु कुर्यात् घृतशिरोर्प्पणम्
अष्टत्रिंशत्कलान्यासं मकुटादिक्रमान्न्यसेत् १२३
अद्ध्वोक्ताङ्गं समापूर्य भुवनाद्ध्वोत्तरोमधृक्
वर्णाद्ध्वैवत्वचोपेतो मन्त्राद्ध्वारुधिरान्वितम् १२४
शिरोमांसपदाद्ध्वाच शुक्लमज्जास्थितत्वकः
महेशस्य षडद्ध्वात्मा तस्य प्राणस्सदाशिवः १२५
पूजयेद्देवदेवेशं गन्धपुष्पादिभिर्हृदा
मुहूर्त्ते समनुप्राप्ते गुरवे सन्निवेदयेत् १२६
उद्धृत्य शिवकुम्भन्तु वर्द्धन्न्यासह बुद्धिमान्
सर्वातोद्य समायुक्तं स्तोत्रमङ्गलवाचकैः १२७
वितानध्वजसंयुक्तं पिञ्छचामरसंयुतम्
शिरसा वाहयित्वा तु विद्येश्वरघटैर्युतम् १२८
हर्म्यप्रदक्षिणं कृत्वा प्रतिमाग्रन्नयेत् बुधः
प्राणप्रकृतियोगन्तु ज्ञात्वा संस्थापनं कुरु १२९
कुम्भात् बीजं समादाय प्रतिमा हृदि विन्न्यसेत्
तत्कुम्भस्थजलैश्चैव स्नापयेत्परमेश्वरम् १३०
वर्द्धन्या बीजमादाय पीठाब्जं विन्न्यसेत् बुधः
अम्बुजे वर्द्धनी तोयैः स्नापयेत्तु विशेषतः १३१
विद्येशान्परितः स्थाप्य देवेशं स्नाप्य तज्जलैः
गन्धपुष्पादिनाभ्यर्च्य दशमुद्रां प्रदर्शयेत् १३२
[[४७६]]
स्नपनं कारयेदन्ते यथा शक्तिविशेषतः
लोहजे शैलजे त्वेव मृण्मये त्वर्द्धचित्रके १३३
आभासे च पटे चैव विशेषोस्ति श्रुणुष्वथ
शयनात्कूर्च्चमुत्तीर्य प्रतिमां हृदि विन्न्यसेत् १३४
बिम्बं पूर्वं प्रतिष्ठाप्य कूर्मार्च्चां स्नापयेज्जलैः
कूर्मार्च्चयास्वभावे तु पीठञ्चैवाभिषेचयेत् १३५
अर्चनोक्तं समभ्यर्च्य वस्त्राभरणपुष्पकैः
भस्मदत्वा हृदामन्त्री दर्पणन्दर्शयेत्ततः १३६
पायसन्दापयेत्तत्र ताम्बूलन्दापयेत्ततः
चलाचलविभागन्तु ज्ञात्वा पूर्वोक्तवत्क्रिया १३७
तत्तत्संस्थापनोक्तञ्च मार्गेणैव समाचरेत्
भवानी स्थापनं वक्ष्ये सहितं भिन्नमेव वा १३८
सहितं स्थापनं पूर्वमेकदेशिकमारभेत्
अन्न्ये चैवन्नकर्तव्यं राजाराष्ट्रं विनश्यति १३९
प्रमादात्स्थापनं यत्र पुनः स्थापनमारभेत्
तस्मात्सर्वप्रयत्नेन चान्येन देशिकं कुरु १४०
कल्याणसुन्दरस्योक्तं वैवाह्यं कर्ममाचरेत्
उत्सवं कारयेत्पश्चाद्यावत्सप्तदिनान्तकम् १४१
एकाहमुत्सवं वापि कारयेद्देशिकोत्तमः
आरम्भाच्चान्तमेवन्तु एकदेशिकमारभेत् १४२
आचार्यस्य ह्यभावे तु मूर्तिपेन तु कारयेत्
यागोपकरणं सर्वं देशिकाय प्रदापयेत् १४३
एवं यः कुरुते मर्त्यस्सपुण्यं गतिमाप्नुयात्
इहैव धनवान्पुत्रान्सोन्तेसायुज्यमाप्नुयात् १४४
इति नृत्तमूर्त्तिस्थापनविधिपटलपञ्चसप्ततितमः
[[४७७]]