०७४ लिङ्गोद्भवविधिपटलः

लिङ्गोद्भवविधिपटलप्रारम्भः
स्थापनं सम्प्रवक्ष्यामि परं लिङ्गोद्भवस्य तु
यत्नदं श्रीकरं पुण्यं राजराष्ट्रविवर्द्धनम् ॥ १ ॥

उत्तरायणकाले तु शुक्लपक्षे शुभे दिने

[[४६०]]

शुभवारादिभिर्युक्ते प्रतिष्ठां सम्यगाचरेत् ॥ २ ॥

रत्नन्यासं प्रकर्तव्यं पूर्वोक्तविधिना बुधः
अतः परं विशेषेण कुर्यान्नयनमोक्षणम् ॥ ३ ॥

नेत्रद्वययुतर्क्षेषु सुमुहूर्ते सुलग्नके
विचित्रमण्टपे मद्ध्ये स्थण्डिलं शालिभिः कुरु ॥ ४ ॥

तस्योर्ध्वे विन्यसेत् बिम्बं वामे वामे त्वजं हरिम्
हेमसूचिप्रहाराभ्यां पक्ष्मरेखां समालिखेत् ॥ ५ ॥

असितं मण्डलं लिख्य दृष्टिमण्डलमालिखेत्
नेत्रमन्त्रं समुच्चार्य लेपयेद्देशिकोत्तमः ॥ ६ ॥

ब्रंहाणञ्च हरिञ्चैव हंसवाराहरूपकान्
नयनोन्मीलनं ह्येवं कारयेच्छिल्पवित्तमः ॥ ७ ॥

हेमाङ्गुलीयवस्त्राद्यैस्सम्पूज्यो द्वास्य शिल्पिनम्
तदग्रे स्थण्डिलं कृत्वा बिम्बं तस्योपरिन्यसेत् ॥ ८ ॥

अभितः कलशानष्टौ ससूत्रान् शुद्धोदपूरितान्
सकूर्चान्सापिधानांश्च सवस्त्रानिन्द्रादिषु न्यसेत् ॥ ९ ॥

इन्द्रादीन्लोकपालांश्च कलशेषु यजेत्तदा
तर्जन्यनामिका मद्ध्यां गुलिभिस्सौवर्णकैर्नखैः ॥ १० ॥

सूर्यसोमाग्निदेवत्यैः प्रोक्तं नेत्रत्रयेषु च
नेत्रं मध्वाज्यसूक्ताभ्यां मध्वाज्याभ्यान्तु तर्पयेत् ॥ ११ ॥

मधुना च घृतेनैव पात्रेः प्रस्थप्रपूरिते
तत्सूत्राभ्यां क्रमेणैव दर्शयेत्तु विचक्षणः ॥ १२ ॥

गौर्धेनुभाव्यमन्त्रेण सवत्सां गां प्रदर्शयेत्
धान्यराशिमघोरेण ब्रह्मसूक्तेन भूसुरान् ॥ १३ ॥

ब्रह्मणश्च हरेरेवं कारयेत्तु विचक्षणः
प्रच्छन्नपटमावर्ज्य जनसङ्घान्प्रदर्शयेत् ॥ १४ ॥

स्नापयेत्पञ्चगव्यैश्च अष्टमृत्सलिलैर्हृदा

[[४६१]]

स्नापितैः कलशाद्भिस्तु प्रतिमां स्थापयेत्ततः ॥ १५ ॥

अष्टमृत्सलिलैर्विष्णुं ब्रंहाणमभिषेचयेत्
गन्धपुष्पादिभिर्बिम्बानीशानेन तु पूजयेत् ॥ १६ ॥

आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
वस्त्रैराभरणैर्माल्यैर्बिम्बान्सम्पूजयेत्ततः ॥ १७ ॥

रम्भे वा शिबिकायां वा रथे वा रोपयेत्ततः
सर्वालङ्कारसंयुक्तं सर्वातोद्य समायुतम् ॥ १८ ॥

ग्रामप्रदक्षिणं कृत्वा प्रविश्याथ जलाशयम्
तीरे तु स्थण्डिलं कृत्वा शालिभिर्विमलैर्बुधः ॥ १९ ॥

तस्योर्ध्वे तु न्यसेद्बिम्बान्गन्धादिभिर्यजेद्धृदा
नचानाहतवस्त्रेण वेष्टयेत्तु पृथक्पृथक् ॥ २० ॥

कण्ठदघ्ने जले मद्ध्ये प्रपां कृत्वा तु सुन्दराम्
चतुर्गात्रसमायुक्तं वितानध्वजसंयुतम् ॥ २१ ॥

दर्भमालासमायुक्तं तन्मद्ध्ये फलकोपरि
शाययेत्प्रतिमाञ्चैव प्राक्शिरश्चोर्ध्ववक्त्रकम् ॥ २२ ॥

उभयोः पार्श्वयोर्विष्णुं ब्रंहाणं वा यजेद्बुधः
अभितः कलशानष्टौ सूत्रादिभिस्समन्वितान् ॥ २३ ॥

इन्द्रादिषु च विन्न्यस्य लोकपालान्न्यजेद्धृदा
एकरात्रं द्विरात्रं वा त्रिरात्रं वा जलोषितम् ॥ २४ ॥

आलयस्याग्रके वापि दक्षिणे चोत्तरेऽपि वा
द्वादशं दशहस्तं वा नवहस्तमथापि वा ॥ २५ ॥

कलास्तम्भैर्युगाश्रन्तु कारयेन्मण्टपं बुधः
तत्त्रिभागैकभागेन तन्मद्ध्ये वेदिकां कुरु ॥ २६ ॥

कला द्वयसमुत्सेधा दर्पणोदरसन्निभा
मानुषे तु पदे चैव कुण्डानि परितः कुरु ॥ २७ ॥

युगाश्वञ्चेन्दुखण्डञ्च भूताश्रन्तु गुणाश्रकम्

[[४६२]]

इन्द्रादिषु महाशासु कोणेष्वेव कुशेशयम् ॥ २८ ॥

ईशानचक्रयोर्मद्ध्ये प्रधानं वर्तुलं कुरु
तस्यपश्चिमभागे तु विष्णोस्तु परिकल्पयेत् ॥ २९ ॥

ब्रंहणः पूर्वभागे तु स्नानश्वभ्रं प्रकल्पयेत्
पश्चाच्छिल्पिनमुद्वास्य गोमयेनानुलेपयेत् ॥ ३० ॥

मण्टपं भूषयेत्पश्चात् युगद्वारस्य तोरणम्
वितानध्वजसंयुक्तं गात्रवेष्टनसंयुतम् ॥ ३१ ॥

मुक्तादामैश्च विविधैर्दर्भमाला समावृतम्
मङ्गलाङ्कुरसंयुक्तमष्टमङ्गलसंयुतम् ॥ ३२ ॥

ब्रांहणान्भोजयित्वा तु उच्छिष्टो द्वासनं कुरु
गोमया लेपनं कुर्यात् प्रोक्षयेत्पुरुषेण तु ॥ ३३ ॥

समरीय पदे धीमान्वास्तुहोमं ततः कुरु
पर्यग्निकरणं कुर्यात् मण्टपन्तेन वह्निना ॥ ३४ ॥

द्वारपूजादिकं सर्वं स्थापनक्रमवत् बुधः
स्थण्डिलं कारयेद्वेद्याम् अष्टद्रोणैश्च शालिभिः ॥ ३५ ॥

तदर्द्धैस्थण्डिलोपेतं तदर्द्धैस्तु तिलैरपि
दर्भैः पुष्पैः परिस्तीर्य स्थण्डिलं पूजयेद्धृदा ॥ ३६ ॥

सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम्
कलादुत्तीर्य बिम्बांश्च स्नानश्वभ्रोपरिन्यसेत् ॥ ३७ ॥

परितः कलशस्थांश्च लोकपालान्विसर्जयेत्
वस्त्रादीनि विसृज्याथ पूर्ववच्छुद्धिमाचरेत् ॥ ३८ ॥

गन्धपुष्पादिभिर्बिम्बानीशानेन तु पूजयेत्
कौतुकं बन्धयेद्धीमान्बिम्बान्प्रागुक्तमार्गतः ॥ ३९ ॥

शयनं कल्पयेत्पञ्च चर्मजाद्यैरनुक्रमात्
स्नानवेद्यां समुद्धृत्य विन्यसेच्छयनोपरि ॥ ४० ॥

गन्धपुष्पादिभिर्बिम्बं पूजयेद्धृदयेन तु

[[४६३]]

शयने शाययेद्बिम्बं प्राक्शिरश्चोर्द्ध्ववक्त्रकम् ॥ ४१ ॥

ब्रंहाणं दक्षिणे चैव विष्णुं वामेन शाययेत्
वस्त्रेण वेष्टयेद्बिम्बान्गन्धादिभिर्यजेद्धृदा ॥ ४२ ॥

प्रधानकुम्भान्तेषां च शिरोभागेषु विन्यसेत्
वर्द्धनीं विन्यसेद्धीमान् शिवकुम्भस्य चोत्तरे ॥ ४३ ॥

ससूत्रानुदकोपेतान्सकूर्चान्सापिधानकान्
सवस्त्रान्नृत्तसंयुक्तान्कुम्भान्सम्प्रोक्ष्य वर्मणा ॥ ४४ ॥

तत्तन्मूर्त्या कृतिं ध्यात्वा तत्तत् बीजं घटेषु च
विन्यसेत्तु क्रमेणैव ईशानेन तु पूजयेत् ॥ ४५ ॥

पञ्चवक्त्रीञ्च पद्माख्यां शान्तमुद्राञ्च निष्ठुराम्
दर्शयेत्तु क्रमात्कुर्यात् दिग्बन्धञ्चास्त्रमन्त्रतः ॥ ४६ ॥

अभितस्तु घटानष्टौ ससूत्रान्वस्त्रयुग्मकान्
इन्द्राशादिषु संस्थाप्य विद्येशानां स्वबीजकैः ॥ ४७ ॥

त्यस्त्वासम्पूजयेत् गन्धपुषाद्यैर्हृदयेन तु
नैवेद्यं दापयित्वा तु ताम्बूलन्दापयेत्पृथक् ॥ ४८ ॥

नववस्त्रधरोष्णीषस्सोत्तरीयस्सुमालकः
प्रागुक्तलक्षणोपेतस्सर्वाभरणभूषितः ॥ ४९ ॥

देशिको मूर्तिपैस्सार्द्धं होमकर्मसमारभेत्
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ५० ॥

समिदाज्य चरून्लाजं यवञ्च तिलसर्षपम्
होमद्रव्याणि सप्तैते जुहुयात्तु क्रमेण तु ॥ ५१ ॥

पलाशौ दुम्बराश्वत्थप्लक्षाः पूर्वादिदिक्षु च
सम्यक् बिल्वञ्च माधूकं विदिक्षु परिकल्पयेत् ॥ ५२ ॥

प्रधानस्य पलाशन्तु सर्वेषामिद्ध्ममुच्यते
ईशानेन समिद्धुत्वा आज्यं मूलेन होमयेत् ॥ ५३ ॥

शिरसा तु चरुं हुत्वा लाजं वामेन होमयेत्

[[४६४]]

यवन्नेत्रेण हुत्व तु तिलमस्त्रेण होमयेत् ॥ ५४ ॥

सर्षपं कवचेनैव द्रव्यान्ते व्याहृतिं हुनेत्
प्रत्येकं शतमर्द्धं वा तदर्द्धं वापि होमयेत् ॥ ५५ ॥

त्र्ययम्बकेनैव मन्त्रेण हुत्वाज्येनैव षोडश
वदनं हृत्प्रदेशन्तु नाभिञ्चैव क्रमेण तु ॥ ५६ ॥

प्रत्येकन्तु तथा कृत्वा हुत्वान्ते तु विशेषतः
ब्रह्मजज्ञानमन्त्रेण हुत्वाज्येनैव पूर्ववत् ॥ ५७ ॥

ब्रह्माणन्तु स्पृशेत्पश्चात् इदं विष्ण्वेति मन्त्रतः
आज्येन पूर्ववद्धुत्वा स्पृशेद्विष्णुं क्रमेण तु ॥ ५८ ॥

अथ ब्रंहषडङ्गैश्च मूलमन्त्रैर्दशाक्षरैः
बीजमुख्यैर्घृतेनैव प्रत्येकन्तु शतं हुनेत् ॥ ५९ ॥

नृत्तगेयैश्च विविधैरात्रिशेषं व्यपोह्य च
देशिको मूर्तिपैस्सार्द्धं स्नानत्रयमथाचरेत् ॥ ६० ॥

अङ्गन्यासकरन्यासं प्रागुक्तविधिना कुरु
पूर्वोक्तविधिमार्गेण देशिकादीन्प्रपूजयेत् ॥ ६१ ॥

उद्धृत्य शयनात् बिम्बान् वस्त्रादीनि विवर्जयेत्
गन्धपुष्पादिभिश्चैव ईशानेन तु पूजयेत् ॥ ६२ ॥

कुम्भान्कुण्डानि सम्पूज्य गन्धपुष्पादिभिस्सह
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ ६३ ॥

पूर्णाहुतिञ्च शिरसा यदस्येति च होमयेत्
उद्धृत्य शयनात् बिम्बं स्नानश्वभ्रे तु विन्न्यसेत् ॥ ६४ ॥

घृतं शिरोर्पणं कुर्यात्प्रागुक्तविधिना सह
अष्टत्रिंशत्कलान्यासं मकुटादिक्रमान्न्यसेत् ॥ ६५ ॥

ब्रह्माणञ्च हरिञ्चैव अक्षरन्न्यासमाचरेत्
अङ्गेष्वङ्गानि विन्न्यस्य ईशानेनैव पूजयेत् ॥ ६६ ॥

सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम्

[[४६५]]

कुम्भानुद्धृत्य शिरसा बाह्यधामप्रदक्षिणम् ॥ ६७ ॥

कृत्वा बिम्बाग्रके चैव स्थण्डिलोपरिविन्यसेत्
मुहूर्त्ते समनुप्रोक्ते स्थापनन्तु समारभेत् ॥ ६८ ॥

यथोत्कृष्टक्रमं ज्ञात्वा तथा संस्थापनं कुरु
कुम्भाद्बीजं समादाय ध्यात्वा बिम्बं हृदिन्न्यसेत् ॥ ६९ ॥

तत्कुम्भस्थजलेनैव देवेशमभिषेचयेत्
वर्द्धन्न्यां बीजमादाय अथोभागे तु विन्यसेत् ॥ ७० ॥

वर्द्धनीस्थोदकैस्तत्र स्नाप्य सम्पूजयेद्धृदा
विद्येश्वरघटैर्द्देवं स्नाप्येशानेन पूजयेत् ॥ ७१ ॥

विष्णुबीजं समादाय प्रतिमाहृदिविन्यसेत्
गन्धपुष्पादिभिश्चैव ईशानेन तु पूजयेत् ॥ ७२ ॥

ब्रह्मबीजं समादाय न्यसेत्तत्तत्प्रदेशके
गन्धपुष्पादिभिश्चैव पूजयेद्धृदयेन तु ॥ ७३ ॥

प्रत्येकं स्नपनं कृत्वा अर्चनोक्तं समाचरेत्
आलयन्तु नयेत्पश्चात् बिम्बान्संस्थापयेद्बुधः ॥ ७४ ॥

ब्रह्माणन्दक्षिणे भागे विष्णुं वामे तु विन्न्यसेत्
गन्धपुष्पादिभिः पूज्य प्रभूतहविषन्ददेत् ॥ ७५ ॥

उत्सवं कारयेत्पश्चादेकाहं त्रियहन्तु वा
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ७६ ॥

इति लिङ्गोद्भवविधिपटलश्चतुस्सप्ततितमः