०७३ सकळप्रोक्षणविधिपटलः

सकलप्रोक्षणविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण सकलप्रोक्षणं परम्
आयुः श्रीकीर्तिपुष्टिञ्च धनधान्यविवर्द्धनम् ॥ १ ॥

प्रासादभिन्ने छिन्ने वा पतिते चाङ्गहीनके
प्रमादाद्बुद्धिवैषम्ये दुर्जनस्पर्शने तथा ॥ २ ॥

अङ्गहीनेषु कार्येषु पुनस्सन्धानकर्मणि
प्रभाहीने चाङ्गच्छन्ने उपाङ्गहीने तथैव च ॥ ३ ॥

अङ्गभेदमिदं प्रोक्तन्तच्चतुर्विधमुच्यते
अङ्गप्रत्यङ्गसाङ्गञ्च उपाङ्गञ्चतुरो भवेत् ॥ ४ ॥

शिरो वक्त्रञ्च हृदयमङ्गञ्चेति प्रकीर्तितम्
कुक्षिकण्ठस्तनौ बाहूनाभि गुह्योदरस्तथा ॥ ५ ॥

ऊरुजानुद्वयञ्चैव प्रत्यङ्गञ्चेति कीर्तितम्
नेत्रनासाग्रकर्णौ च पाणिपादौ तलाङ्गुली ॥ ६ ॥

जटामकुटसंयुक्तं साङ्गञ्चेति प्रकीर्तितम्
वस्तोपवीतमाला च आयुधाभरणन्तथा ॥ ७ ॥

गङ्गादिचन्द्रं भस्मारन्नागकूर्मन्तथैव च
प्रभासहितसंयुक्तं पद्मबन्धन्तथैव च ॥ ८ ॥

आसनावरणञ्चैव उपाङ्गञ्चैव कीर्तितम्
शिल्पिस्पर्शे तु कार्येषु पूजाहीने तथैव च ॥ ९ ॥

तस्करस्पर्शने वापि चोरेणोत्थापने तथा
प्रमादात्पतिते भूमौ उत्सवे पतिते तथा ॥ १० ॥

[[४५८]]

पूजाहीने तथा मासे स्नपनं शान्तिहोमकम्
षाण्मासादूर्ध्वहीने तु पूजायास्तु प्रजापते ॥ ११ ॥

प्रोक्षणन्तु प्रकर्तव्यं कुर्याज्जलाधिवासनम्
उत्सवादूर्द्ध्वहीनेन कुर्यात्सम्प्रोक्षणन्तथा ॥ १२ ॥

तिथिवारञ्च नक्षत्रन्निरपेक्षन्तु कारयेत्
रत्नादिशयनान्तञ्च कुर्यात्सकलकर्मणि ॥ १३ ॥

पूजाहीनं त्रिवर्षोर्द्ध्वं प्रतिष्ठायां प्रचक्षते
रत्नन्यासाक्षिमोक्षञ्च जलाधिवासनं विना ॥ १४ ॥

अन्यानि सर्वकार्याणि पूर्वोक्तलक्षणैर्युतम्
माघप्रोष्ठपदे चैव आषाढे मार्गशीर्षके ॥ १५ ॥

पूजयित्वा विशेषेण शेषाणां प्रोक्षणेऽपि च
पूर्वपक्षे तु पुष्यर्क्षे यजमानानुकूलके ॥ १६ ॥

अङ्कुराण्यर्पयेत्पूर्वं प्रोक्षणादिविशेषतः
प्रासादस्याग्रके वापि याम्ये वा पावके तथा ॥ १७ ॥

ऐशान्यां पश्चिमे वापि मण्टपन्तु युगाश्रकम्
नवहस्तं पञ्चहस्तम् उत्तमं मद्ध्यमाधमम् ॥ १८ ॥

षोडशस्तम्भसंयुक्तं युगद्वारसमायुतम्
पूर्वोक्तलक्षणैर्युक्तं चतुस्तोरणभूषितम् ॥ १९ ॥

मण्टपन्नवभागन्तु मद्ध्ये वेदीं प्रकल्पयेत्
रत्निमात्रोच्छ्रियं कुर्यात् षोडशाङ्गुलमेव वा ॥ २० ॥

गोमया लेपनं कृत्वा दर्पणोदरसन्निभम्
कुण्डानि परितः कुर्यान्मानुषे तु पदे क्रमात् ॥ २१ ॥

नवाग्निं वाथ पञ्चाग्निमेकाग्निं वा विशेषतः
दिशासु चतुरश्राणि विदिशास्वब्जकुण्डकम् ॥ २२ ॥

शक्रशाङ्करयोर्मद्ध्ये वृत्तं प्राधानकं कुरु
पञ्चाग्न्यायतनं चेत्तु अब्जकुण्डानि वर्जयेत् ॥ २३ ॥

[[४५९]]

प्रत्येकं व्याहृतिं हुत्वा तत्राज्येन प्रकल्पयेत्
पूर्णाहुतिन्ततो हुत्वा मूलमन्त्रेण हूयते ॥ २४ ॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
स्विष्टमग्नेतिमन्त्रेण जुहुयात्तदनन्तरम् ॥ २५ ॥

वास्तुहोमन्ततः कृत्वा समरीयपदेषु च
गन्धं पुष्पञ्च धूपञ्च दीपमर्घ्यं हृदाचरेत् ॥ २६ ॥

वेद्यास्तु देवतोद्धृत्य स्नानवेद्यान्निवेशयेत्
सद्योजातेन मन्त्रेण आवाहनं प्रकल्पयेत् ॥ २७ ॥

वामदेवेन संस्थाप्य अघोरेण तु सन्निधिम्
पाद्यमाचमनञ्चार्घ्यम् एतन्मन्त्रेण दापयेत् ॥ २८ ॥

अष्टत्रिंशत्कलायोगं महेशं बीजं विन्न्यसेत्
प्राणप्रकृतियोगन्तु न्यस्त्वारूपं विचिन्तयेत् ॥ २९ ॥

वेद्याः कुम्भं समुद्धृत्य ईशानेनाभिषेचयेत्
घृतं शिरोर्पणं कुर्यात्स्नापयेत्तु शिवाम्भसा ॥ ३० ॥

विद्येशान्कुम्भमुद्धृत्य स्वस्वमन्त्राभिषेचयेत्
प्रोक्षणान्ते तु स्नपनं यथावित्तानुसारतः ॥ ३१ ॥

गन्धपुष्पञ्च धूपञ्च दीपञ्चैव हृदा बुधः
कलशं विंशदुद्धृत्य शिवकुम्भेषु योजयेत् ॥ ३२ ॥

नैवेद्यं दापयेत्पश्चात् यथावित्तानुसारतः
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ३३ ॥

इति सकलप्रोक्षणविधिपटलः त्रिसप्ततितमः