सकलस्थापनविधिपटलप्रारम्भः
स्थापनक्रमविधिं वक्ष्ये सर्वशान्तिकरं परम्
अधुना सकलादीनां स्थापनक्रममुच्यते ॥ १ ॥
सहितं स्थापनं यत्र एकदेशिकमाचरेत्
तद्विधिर्द्विविधं प्रोक्तं स्कन्दोमासहितस्य तु ॥ २ ॥
अङ्कुरादिप्रतिष्ठान्तम् एकदेशिकमाचरेत्
अयनं द्विविधं प्रोक्तं दक्षिणञ्चोत्तरन्तथा ॥ ३ ॥
देवानान्तु दिवाकाले उत्तरायणमेव तु
देवानान्दक्षिणं रात्रौ ज्ञात्वा कर्मसमारभेत् ॥ ४ ॥
रात्रौ तु लिङ्गं स्थाप्य नाशत्यखिलञ्जगत्
राजप्रधानमहिषी प्रधानश्च गजो मृतः ॥ ५ ॥
तस्मात्सर्वप्रयत्नेन दिवाकाले प्रतिष्ठितम्
सकलानान्तु सर्वेषां सर्वमासेषु सङ्ग्रहेत् ॥ ६ ॥
भवानीस्थापनं वक्ष्ये सहितं भिन्नमेव च
सहितस्थापनं सर्वमेकदेशिकमाचरेत् ॥ ७ ॥
अन्न्यथाचेन्नकर्त्तव्यं राजाराष्ट्रं विनश्यति
[[४५१]]
सस्यगोप्राणिनाशस्स्यात्सर्वशत्रुविवर्द्धनम् ॥ ८ ॥
स्थापयेद्यदिमोहात्तु ग्रामनाशं भवेद्ध्रुवम्
प्रमादात्स्थापनं कुर्यात्प्रतिष्ठां पुनराचरेत् ॥ ९ ॥
आरम्भाद्यन्तमेवन्तु एकदेशिकमाचरेत्
तस्याभावे तु पुत्रो वा शिष्योथ गुरुरेव वा ॥ १० ॥
अन्न्यथा चेन्न कर्त्तव्यं कर्त्ताभर्त्ता विनश्यति
आचार्यस्यानुकूलानि मूर्त्तिपानान्तु तत्र वै ॥ ११ ॥
एकसन्तानकर्त्तव्यं मूर्त्तिपानां विशेषतः
आचार्यो मुर्त्तिपैस्सार्द्धं स्नानं कृत्वा तु पूर्ववत् ॥ १२ ॥
अलङ्कृत्य स्वदेहन्तु प्रविशेद्यागमण्टपम्
आचार्यः कृतनित्यस्तु कृतमन्त्रादि तर्प्पणः ॥ १३ ॥
कृतभान्वर्च्चनश्शुद्धः कृतमन्त्रपरिग्रहः
सामान्न्यार्घ्यकरो भूत्वा प्रविशेद्यागमण्टपम् ॥ १४ ॥
इन्द्रपावकयोर्मद्ध्ये मद्ध्य ईशे तु चापि वा
स्थापयेत्सौरकुम्भन्तु पूजयेत्तु यथाविधि ॥ १५ ॥
बहिर्गत्वा द्विराचम्य पूर्वोक्तविधिना सह
द्वाराण्यस्त्रेण सम्प्रोक्ष्य द्वारद्वाराधिपान्न्यसेत् ॥ १६ ॥
सौरपूजानकर्तव्या रजन्यान्तु विशेषतः
सामान्ययजनं रात्रौ विशेषं प्रातरेव च ॥ १७ ॥
कर्तव्यमधिवासञ्च सौरकुम्भं विनार्चयेत्
आदौ शान्तिकलाशब्दद्वाराय नम इत्यपि ॥ १८ ॥
प्रतिष्ठां पूजयेत्पूर्वे विद्या द्वारन्तु दक्षिणे
वारुणे तु प्रतिष्ठाप्यं निवृत्ताख्यमुदक् दिशि ॥ १९ ॥
प्राच्यान्नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ
पश्चिमे वृषभस्कन्दौ देवी चण्डौ तथोत्तरे ॥ २० ॥
प्रणवादिनमोन्ताश्च चतुर्त्थन्ताः क्रमाद्यजेत्
[[४५२]]
तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ ॥ २१ ॥
पर्जन्यौ लोकनामानि भूतसञ्जीवनामृतौ
धनदश्री प्रदौ द्वौ द्वौ पूजयेदनुपूर्ववत् ॥ २२ ॥
भूलोकश्च भुवर्लोकः पूर्वद्वारे तु पूजयेत्
दक्षिणे पूजयेद्विद्वान्स्वर्लोकजनलोककौ ॥ २३ ॥
तपोलोकः सत्यलोकः पश्चिमे तु प्रपूजयेत्
लोकालोकशिवालोकौ उत्तरद्वारकं यजेत् ॥ २४ ॥
आदित्यसोमौ प्राक् द्वारे पूजयेद्दक्षिणे बुधः
अङ्गारकबुधौ चैव पश्चिमे तु यजेत्ततः ॥ २५ ॥
यजेत् बृहस्पतिश्शुक्र उत्तदेशनिराहुकौ
इत्येवं ग्रहकुम्भेषु द्वौ द्वौ द्वारं प्रपूजयेत् ॥ २६ ॥
गङ्गा च यमुना चैव नर्मदा च सरस्वती
सिन्धुगोदावरी चैव कावेरी सरयूस्तथा ॥ २७ ॥
द्वौद्वौ द्वारं प्रपूज्याथ गन्धपुष्पादिभिः क्रमात्
वैकर्त्तनं विवस्वन्तं मार्त्ताण्डं भास्करं रविम् ॥ २८ ॥
लोकप्रकाशकञ्चैव पूजयेत्तु विचक्षणः
पश्चिमे लोकसाक्षिञ्च आदित्यञ्च त्रिविक्रमम् ॥ २९ ॥
उत्तरे तु यजेत्सूर्यमंशुमांश्च दिवाकरः
एते वै द्वादशादित्याः पूजयेत्तु विचक्षणः ॥ ३० ॥
कृतयुगं यजेत्पूर्वे त्रेतन्तु दक्षिणे तथा
द्वापरं पश्चिमे पूज्य कलौ चैवोत्तरे दिशि ॥ ३१ ॥
पूजयेत्तु विशेषेण गन्धपुष्पादिभिः क्रमात्
ऋग्वेदन्तु यजेत्पूर्वे यजुर्वेदन्तु दक्षिणे ॥ ३२ ॥
पश्चिमे सामवेदन्तु उत्तरे थर्ववेदकम्
गन्धैः पुष्पैश्च धूपैश्च दीपैरर्घ्यैर्यजेद्धृदा ॥ ३३ ॥
द्वारं प्रतिविशेषेण पूजयेत् श्रीगणौ बुधः
[[४५३]]
वज्रं शक्तिञ्च दण्डञ्च खट्गं पाशाङ्कुशौ तथा ॥ ३४ ॥
गदात्रिशूलञ्चक्रञ्च पद्मञ्चेति दशायुधाः
पुर्वादिदिक्पताकासु पूजयेत्तु दशायुधान् ॥ ३५ ॥
कुमुदं कुमुदाक्षञ्च पुण्डरीकञ्च वामनम्
शङ्कुकर्णस्तथा सर्वे त्रिणेत्रस्सुप्रतिष्ठितः ॥ ३६ ॥
पूर्वात् द्ध्वजाष्टपालाना समभ्यर्च्य यथा क्रमम्
हेतुकं त्रिपुरघ्नञ्च वेतालञ्चाग्निजिह्वकम् ॥ ३७ ॥
कालङ्करालिनं भीमञ्चैकपादन्तथैव च
पूर्वादीशानपर्यन्तं पूजयेत्तु यथा क्रमम् ॥ ३८ ॥
आकाशे अचलञ्चैव पाताले हाटकेश्वरम्
एवन्तु भूमिपालानां गन्धपुष्पादिभिर्यजेत् ॥ ३९ ॥
प्रत्येकं ह्याढकं शालि प्रत्येकन्तु घटं यजेत्
प्रत्येकं हैमशालिन्तु चतुः प्रस्थेन संयुतम् ॥ ४० ॥
न्यसेद्वापदमालिख्य तदर्द्धं तण्डुलैरपि
तदर्द्धन्तु तिलैश्चैव प्रत्येकं कलशं प्रति ॥ ४१ ॥
पश्चिमद्वारमाश्रित्य नित्यद्वारादिकं यजेत्
दिव्यन्तरिक्षभूमिष्ठ विघ्नानुत्सार्यबुद्धिमान् ॥ ४२ ॥
दक्षजङ्घां समुत्क्षिप्य वामशाखां विशेषतः
अस्त्रेणोदुम्बरेणैव द्वारं प्रतिविचक्षणः ॥ ४३ ॥
वास्तोष्पतये चेति ब्रह्मणे नम इत्यपि
सम्पूज्य गन्धपुष्पाद्यैर्ब्रह्माणन्निर्ऋतौ यजेत् ॥ ४४ ॥
यागमण्टपकम्पेषु पृथिवीतत्वकं यजेत्
तृणेषु जलतत्वं च बन्धेषु चाग्नितत्वकम् ॥ ४५ ॥
वंशेषु वायुतत्वं च स्थूणासुगगनन्तथा
विताने चन्द्रबिम्बञ्च दर्भमालासु वासुकिम् ॥ ४६ ॥
इत्येवं मण्टपं पूज्य व्याप्यं सदाशिवान्तकम्
[[४५४]]
दर्पणं पूर्णकुम्भञ्च वृषभं युग्मचामरम् ॥ ४७ ॥
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम्
पूर्वादीशानपर्यन्तं पूजयेदष्टमङ्गलम् ॥ ४८ ॥
ऊर्वशी मेनका चैव रम्भा चैव तिलोत्तमा
सुमुखी दुर्मुखी चैव कामुकी कामवर्धना ॥ ४९ ॥
एतास्त्वप्सरसा प्रोक्तास्त्वष्टमङ्गलधारिकाः
सम्पूज्य गन्धपुष्पाद्यैरस्त्रप्राक् च्छिरकल्पना ॥ ५० ॥
सर्वावकुण्ठनं यागगेहं संरक्ष्यदेशिकः
उपविष्ट उदग्वक्त्रो भूतशुद्धिं समाचरेत् ॥ ५१ ॥
सकलीकरणं कृत्वा कृत्वान्तर्यजनो गुरुः
विशेषार्घ्यन्ततः कुर्याद्यवसिद्धार्त्थचाक्षतैः ॥ ५२ ॥
आपस्तिलकुशाग्रैश्च क्षीरपुष्पसमन्वितम्
तदम्भसा तु सम्प्रोक्ष्य स्वशिरो द्रव्यसंहतिम् ॥ ५३ ॥
अस्त्रमन्त्रेण तत्सर्वं कवचेनावकुण्ठयेत्
हृदाभिमन्त्र्य प्रत्येकं तिलकञ्चन्दनन्नयेत् ॥ ५४ ॥
शिवहस्तञ्च सम्पूज्य तदारोपि तदस्तके
ज्ञानासितत्वसङ्ख्यातैश्चतुरूनैरथापि वा ॥ ५५ ॥
दर्भैः प्रादेशमात्रन्तु निर्मितं शस्त्रमन्त्रितम्
कल्पयेत्पञ्चगव्यन्तु तद्विधानमिहोच्यते ॥ ५६ ॥
मण्टपस्य शुभे भागे क्षेत्रे नवपदे कृते
पञ्चतत्वकृतन्न्यासे पञ्चपात्राणि विन्यसेत् ॥ ५७ ॥
शिवसादाख्यविद्यायां काले पुंसीवदेशिकः
पुप्रतिष्ठं सुशान्तञ्च तेजो वदमृतात्मकम् ॥ ५८ ॥
रत्नोदकञ्च सङ्कल्प्य क्षीरन्दधिघृतन्न्यसेत्
गोमयञ्चैव गोमूत्रमीशानाद्यैस्तु मन्त्रयेत् ॥ ५९ ॥
लाजचन्दनसिद्धार्त्थभस्मपुष्पकुशाक्षताः
[[४५५]]
हेतयोस्त्रेण सप्तैते विधातव्याविमिश्रिताः ॥ ६० ॥
नैर्ऋत्याम्मण्टपे स्थित्वा संस्कृतिं मण्टपस्य तु
कुर्यादीशानवक्त्रस्तु संस्कारैर्वीक्षणादिभिः ॥ ६१ ॥
विकीर्यविकिरानीशे कुशकूर्च्चं समाचरेत्
वेद्यां वामेशके वापि ईशानं ब्रह्मपश्चिमे ॥ ६२ ॥
हेमाद्येकतमं कुम्भं मानीयागर्हिताम्भसा
पूरितं पल्लवोपेतं स्वर्णवस्त्रादिसंयुतम् ॥ ६३ ॥
संहृतौ विकिरास्त्राणामासनन्तु चलाचलम्
सङ्कल्प्य मूर्त्तिमन्त्रेण मूर्त्तिभूतं घटन्न्यसेत् ॥ ६४ ॥
वर्द्धनीं सोदकां सूत्रं वस्त्रस्वर्णादिसंयुताम्
विन्यसेदस्त्रभूतानां प्रत्यङ्नालसमन्वितम् ॥ ६५ ॥
सम्पूज्य गन्धपुष्पाद्यैर्घटस्थाणुं गुरूत्तमः
इन्द्राग्नेतियमञ्चैव निर्ऋतिर्वारुणन्तथा ॥ ६६ ॥
वायुसोमन्तथैशानं पूजयेत्प्राक् दिशादितः
विरिञ्चिमीशदक्षस्थं विष्णुञ्च निर्ऋतिवामकम् ॥ ६७ ॥
घटस्थं कलशस्थं वा कुढ्यगं वा यजेत् गुरुः
भोभोशक्रत्वयाचात्र दिशिविघ्नप्रशान्तये ॥ ६८ ॥
सावधानेन यागाञ्चं स्थातव्यस्तु शिवाज्ञया
सर्वेषां लोकपालानामनेन क्रमयोगतः ॥ ६९ ॥
शिवाज्ञां श्रावयेत्कुम्भं भ्रामयेदग्रतोस्त्रकम्
विन्न्यसेत्कुम्भवर्द्धन्न्यौ पूर्ववत्सर्वकारणम् ॥ ७० ॥
स्थिरासनन्तु सम्पूज्य देवमस्त्रञ्च पूजयेत्
मूर्त्तिविद्या तनुं साङ्गं शिवं सावरणान्तकम् ॥ ७१ ॥
पूजयित्वा तयोरैक्यं कल्पयेद्धेनुमुद्रया
सव्यमुष्टिक्रमात्पिण्डं लिङ्गमङ्गुष्ठको हरः ॥ ७२ ॥
हृदये कलशं स्पृष्ट्वा पूर्वमङ्गुष्ठवर्मणा
[[४५६]]
संस्पृशेद्वर्द्धनीं पश्चात् मुनिनाहृदयाणुना ॥ ७३ ॥
मुक्तये च पुरा स्पृष्ट्वा वर्द्धनीं मुष्टिनैव तु
स्पृशेदङ्गुष्ठकाग्रेण चरमञ्चघटन्तथा ॥ ७४ ॥
उमायै गर्भरूपिण्यै लिङ्गरूपधराय च
शङ्कराय नमस्तुभ्यम् इति स्तुत्वा नमोनमः ॥ ७५ ॥
यज्ञस्यास्य पतिस्त्वं हि मूर्त्तिरेषातवाचला
एषते ज्ञाननिस्त्रिंशत् गृहाणस्वस्वमायुधम् ॥ ७६ ॥
मयाप्रवृत्तितश्चायं यजनं भवतः क्रतुः
रक्षणी यस्त्वया तर्हि समाप्तिर्यावदस्य हि ॥ ७७ ॥
यज्ञरक्षाधरान्तस्थ नवमारोप्य देशिकः
विनायकं वायुदेशे ऐशाने तु गुरुं यजेत् ॥ ७८ ॥
सम्प्रार्त्थ्यैवं करोमीति लब्धानुज्ञः शिवाद्गुरुः
मन्त्रितं मूलमन्त्रेण सप्तकृत्वा स्थितं शुभम् ॥ ७९ ॥
उष्णीषं शिरसिन्यस्य शिवेनैक्यन्तु भावयेत्
अथवा न्यप्रकारेण पूर्ववत्द्वारकं यजेत् ॥ ८० ॥
प्राच्यां नन्दीमहाकालौ याम्ये भृङ्गिविनायकौ
वारुणे वृषभस्कन्दौ देवी चण्डौ तदुत्तरे ॥ ८१ ॥
इन्द्रवल्लीं यमश्चैव निर्ऋतिर्वरुणस्तथा
वायुस्थोमस्तथैशान अनन्तञ्च पितामहम् ॥ ८२ ॥
गणेशमनिले न्यस्य ईशाने तु गुरुं यजेत्
अन्यासां देवतानाञ्च विना सर्वं समाचरेत् ॥ ८३ ॥
लिङ्गस्य प्रतिमायाश्च परिवाराणां प्रतिष्ठितम्
स्थापने प्रोक्षणे चैव पवित्रे दमनकेऽपि वा ॥ ८४ ॥
उत्सवे शीतकुम्भे च एवं सर्वं समाचरेत्
द्वारपूजाविहीनञ्चेत् राजराष्ट्रं विनश्यति ॥ ८५ ॥
तस्मात्सर्वप्रयत्नेन द्वारपूजासमन्वितम्
[[४५७]]
यावत्क्रियान्तमाचार्यस्तावत्कर्मसमाचरेत् ॥ ८६ ॥
यागोपकरणं सर्वमाचार्याय प्रदापयेत्
एवं कृत्वा विशेषेण शिवलोकमवाप्नुयात् ॥ ८७ ॥
इति सकलस्थापनविधिपटलद्विसप्ततितमः