०७१ सकलोत्पत्तिपटलः

सकलोत्पत्तिपटलप्रारम्भः
वक्ष्यामि सकलोत्पत्तिं यजनञ्च विशेषतः
शिवं परात्परं ब्रह्ममप्रमेयमनूपमम् ॥ १ ॥

अनिन्द्यमव्ययं सूक्ष्मं नित्यं भव्यगतं प्रभुम्
शुद्धत्वाच्च शिवं प्रोक्तं स्वयं तच्च परात्परम् ॥ २ ॥

ब्रह्मत्वात् ब्रंहरूपाच्च ब्रह्ममित्यभिधीयते
प्रमाणव्यतिरिक्तत्वात् अप्रमेयमिति स्मृतम् ॥ ३ ॥

अनौपम्म्यमधश्श्याममलत्वादनिन्द्यकम्
अक्षीणादव्ययं प्रोक्तं व्योमादि तच्च सूक्ष्मकम् ॥ ४ ॥

नित्यं कारणशून्यत्वात् व्यपकात्सर्वतः स्मृतम्
सर्वेषामेव तत्वानां स्वामित्वाच्च प्रभु स्मृतम् ॥ ५ ॥

शिवतत्वमिति प्रोक्तं तत्वानामखिलामयम्
तस्माच्छक्तिकरं ज्ञातं तस्माच्छक्तिकरं स्मृतम् ॥ ६ ॥

शक्तेर्नादसमुद्भूतं नादात् बिन्दुप्रकीर्तितम्
एतेषां ध्यानपूजाश्च निष्कलत्वाच्च भिन्नकाः ॥ ७ ॥

इत्येवं निष्कलं प्रोक्तं परं भावमिति स्मृतम्
सृष्टिस्थं लोकरक्षार्त्थं लोकस्योत्पत्तिकारणम् ॥ ८ ॥

साधकानां हितार्त्थन्तु स्वेच्छया गृह्णतेन तु

[[४४६]]

साधनञ्च द्विधा चेति प्रोक्तस्सकलनिष्कलः ॥ ९ ॥

सकलञ्च तथा ज्ञेयमुच्यते क्रमशस्तथा
बिन्दोस्सदाशिवोद्भूतो लिङ्गपीठं प्रकारतः ॥ १० ॥

लिङ्गशम्भुसमुद्भूतो नाम्ना सदाशिवेन तु
पीठे शक्तिस्समुद्भूता मनोन्मन्याख्यया सह ॥ ११ ॥

योगीनाञ्च यतीनाञ्च मन्त्रिणां ज्ञानिनां तथा
ध्यानपूजा निमित्ताय सकलं निष्कलं स्मृतम् ॥ १२ ॥

सदाशिवं महेशन्तु जाते चाव्यक्तरूपतः
मनोन्मन्या भवानी तु एवन्तु सकलं स्मृतम् ॥ १३ ॥

द्विविधं तत्समाख्यातं चलञ्चैवाचलन्तथा
चलं धातुमयं प्रोक्तं शैलं चलाचलं स्मृतम् ॥ १४ ॥

अचलं मृण्मयं ज्ञेयं भित्तिचित्रपटन्तथा
चित्रशैलञ्चलं हीनं चलं चित्रयुतन्तथा ॥ १५ ॥

कलयोरभितं युक्तं निष्कलञ्चेति कीर्तिताः
कलया सहितं यत्तत्तत्तत्सकलकीर्तितम् ॥ १६ ॥

लिङ्गोद्भवञ्च चैवास्य वृषारूढं शशीधरम्
सन्ध्यानृत्तं पुरारिञ्च कामारिं कालनाशनम् ॥ १७ ॥

ततो मास्कन्दसहितं दक्षिणा मूर्तिविग्रहम्
अर्द्धनार्यञ्च हर्यर्द्धचण्डेशानुग्रहं परम् ॥ १८ ॥

भिक्षाटनञ्च कङ्कालं मूललिङ्गं सुवासनम्
गङ्गाधरन्तथान्यञ्च प्रतिमाश्च विशेषतः ॥ १९ ॥

विधिनैतेन मन्त्रज्ञम् आदिशैवो यजेत्क्रमात्
पटस्य भित्तिचित्रस्य चित्रयुक्तोपलस्य च ॥ २० ॥

मृण्मयस्य विशेषेण कर्म्मचाया सहार्चयेत्
कर्माचायन्तु पीठे वा कुर्यान्मणिमयोर्चनम् ॥ २१ ॥

रूपावायतया तत्र प्रोक्तं स्नानार्द्रचन्दनम्

[[४४७]]

मणौ वा दर्पणे वाथ कृपाणे यत्र कुत्रचित् ॥ २२ ॥

प्रतिबिम्बयुते द्रव्ये यात्रपूजाविधीयते
प्रतिमालक्षणोक्तन्तु कृत्वा वर्चायजेत् गुरुः ॥ २३ ॥

अङ्गालोज्य यतो देवं शक्त्याभङ्गविलोचनात्
जान्वन्तं वापि नाभ्यन्तं कर्म्मार्च्चां प्रतिमोच्छ्रियम् ॥ २४ ॥

चित्रहीनशिलायास्तु लोहस्यार्चां विवर्जयेत्
प्रोक्तमार्च्चना यस्य नोत्तमादी कृतार्च्चनम् ॥ २५ ॥

आदीकृतार्चनन्तत्र कर्मार्चायान्तु कारयेत्
मूले पराजितापूजा कर्तव्यन्देशिकोत्तमैः ॥ २६ ॥

आर्द्रा वा प्रोक्षणं वापि सुव्यक्ते लोहकर्मणि
स्थापितं केवलं यत्र परिवारादिभिर्युतम् ॥ २७ ॥

तत्तन्मन्त्रोपचारैश्च कर्त्तव्या यजनं क्रमात्
केवलादन्न्यबिम्बा च स्नापितार्चाविशेषतः ॥ २८ ॥

हविष्यन्तं यजेद्धीमान्परिवारादिभिर्विना
कृत्वा तु विधिना स्नानं पूजकस्सन्धिपूजके ॥ २९ ॥

प्रविशेदालयं पश्चात् प्रदक्षिणत्रयं कुरु
प्रक्षाल्यपाणिपादौ तु आचम्यविधिपूर्वकम् ॥ ३० ॥

प्रागुक्तविधिना पश्चात्सलीकरणं कुरु
सम्मृज्य होमयेन्नैव कङ्कणं परिमार्जयेत् ॥ ३१ ॥

द्वारस्य बाह्यतश्चाग्रे हस्तमात्रेण मण्डलम्
कृत्वा तन्मद्ध्यमे स्थाप्य सर्वद्रव्याणि पात्रकैः ॥ ३२ ॥

क्षालयेदस्त्रमन्त्रेण क्षालयेन्ननिरीक्षयेत्
द्वारपूजां ततः कृत्वा प्रागुक्तविधिना सह ॥ ३३ ॥

प्रविश्याभ्यन्तरं पश्चात् घटन्तत्रापनीय च
बिम्बशुद्धिं ततः कृत्वा यथा बिम्बानुसारतः ॥ ३४ ॥

पूर्वसन्ध्यार्चितं माल्यमपनीय हृदा ततः

[[४४८]]

संशोद्ध्य मृण्मयं लिङ्गं वस्त्रपिण्डेन वा पुनः ॥ ३५ ॥

कुशैर्वा शोधयेद्धीमान् चित्रहस्तस्तथैव च
तथा च वर्णिततले केवलञ्चेज्जलेन तु ॥ ३६ ॥

रात्रिचूर्णैश्च सौवर्णं राजतं लवणेन तु
ताम्रमम्लेन शुद्धिस्स्यादस्त्रमन्त्रेण सुव्रत ॥ ३७ ॥

शक्रादिष्वीलिकां —— विन्न्यसेत्क्रमात्
गुणत्रयैश्च सञ्च्छाद्य मद्ध्यमे तु हरिं यजेत् ॥ ३८ ॥

तस्योर्ध्वे कमलन्न्यस्त्वा साष्टपत्रं सकर्णिकम्
तन्मद्ध्ये विन्न्यसेद्देवं षट्त्रिंशच्च कलामयम् ॥ ३९ ॥

कर्मार्चयायुतं तस्मात्कर्मार्चया समारभेत्
सद्येनावाहयेद्देवं विन्न्यसेत् गुह्यकेन तु ॥ ४० ॥

सन्निरोधञ्च घोरेण कुशया प्रोक्षयेद्बुधः
अम्बरं भूषणञ्चैव उपवीतञ्च दर्पणम् ॥ ४१ ॥

ईशानेन प्रमाणेन पाद्यं सद्येन दापयेत्
वामेनाचमनं दत्वा वर्मणार्घ्यन्तु दापयेत् ॥ ४२ ॥

मालान्तु शिरसादद्यात् धूपं तत्पुरुषेण तु
दीपं वै नेत्रमन्त्रेण गौरीं वामे तु संयजेत् ॥ ४३ ॥

गङ्गाञ्च पूर्वदिग्भागे दक्षिणे तु विनायकम्
सेनापतिन्तु पाशिन्यां कोणेष्वस्त्रं यजेत्क्रमात् ॥ ४४ ॥

देवस्य त्वेति मन्त्रेण नैवेद्यन्तु निवेदयेत्
हृदाचाचमनं दद्यात् निर्माल्यञ्च विवर्जयेत् ॥ ४५ ॥

ताम्बूलं दापयेत्पश्चात् मुखवाससमन्वितम्
गौर्यास्सेनापतिञ्चैव तत्तत् ब्रह्मषडङ्गकैः ॥ ४६ ॥

कुर्यात्सर्वोपचाराणि क्रिया भेदो न विद्यते
ददेच्चलस्य दण्डस्य सकलान्तानि वेदकम् ॥ ४७ ॥

लिङ्गे निवेदितं यत्तु निर्माल्यमिति कीर्तितम्

[[४४९]]

भूमौ वह्नौ जले वाथ गोगुणार्त्थं विवर्जयेत् ॥ ४८ ॥

कार्यस्वमलबन्धत्वान्निर्माल्यन्तु न भोजयेत्
भुक्तञ्चेत्तत्प्रमादात्तु अतिकृच्छ्रं समाचरेत् ॥ ४९ ॥

प्रमादाल्लङ्घनं यत्र प्राजापत्यं चरेत्सुधीः
स्पर्शने पाणिपादौ तु प्रक्षाल्याचमनं कुरु ॥ ५० ॥

आपोहिष्ठेति मन्त्रेण प्रोक्षयेच्छुद्धवारिणा
प्रतिमानाञ्च सर्वेषां निर्माल्यकन्नविन्यसेत् ॥ ५१ ॥

भोज्यन्तत्परिवाराणामन्येषां न तु भोज्यकम्
गणेशस्य तु नैवेद्यं सर्वेषां भोज्यमुच्यते ॥ ५२ ॥

सेनापतेस्तु नैवेद्यं भोज्यञ्चैव जयार्त्थिनाम्
दुर्गानिवेद्यं यद्भोज्यमायुरारोग्य वर्द्धनम् ॥ ५३ ॥

ज्येष्ठायास्तु निवेद्यं यत् भोग्यं तच्छ्रीविवर्द्धनम्
अभोज्यं भानुभक्तानां नैवेद्यं भास्करस्य तु ॥ ५४ ॥

अन्येषामपि सर्वेषां भोज्यं नैवेद्य कारये
नैवेद्यन्तु महाकोट्यं भोज्यं पुत्रविवर्द्धनम् ॥ ५५ ॥

मातॄणाञ्चैव नैवेद्यं ब्राह्मणानामभोज्यकम्
सर्वेषामपि भोज्यं हि उमादेवी निवेदितम् ॥ ५६ ॥

हरेर्निवेदितं यत्तत्सर्वेषां भोज्यमुच्यते
क्षेत्रपालस्य नैवेद्यं भोज्यं रोगविवर्द्धनम् ॥ ५७ ॥

वास्तुदेवस्य नैवेद्यं भोज्यं ज्ञानविवर्द्धनम्
ब्राह्मानान्तु भोज्यं हि ब्रह्मणश्च निवेदितम् ॥ ५८ ॥

नैवेद्यं लोकपलानामारोग्यं कुरुते सदा
मन्मथस्य निवेद्यं तत्सर्वेषां भोज्यमुच्यते ॥ ५९ ॥

प्रायश्चित्तनिमित्तन्तु प्राजापत्यादिकं श्रुणु
अनग्न्यायात्र्यहं साये वर्म्ममन्त्रैर्जपेत्तदा ॥ ६० ॥

पञ्चमन्तु त्र्यहं जप्त्वा चान्नमद्यादयाचितम्

[[४५०]]

त्रियहञ्चैव नाश्नीयात्ततः परं विशेषतः ॥ ६१ ॥

सदाशिवं ततो ध्यात्वा वक्त्रमन्त्रं जपेत्ततः
जपेत्सहस्रसङ्ख्या तु दिनं प्रतिदिनं प्रति ॥ ६२ ॥

प्राजापत्यमिदं ज्ञेयं सर्वपापनिकृन्तनम्
नवाहमग्रमन्त्रन्तु भुञ्जीत गुह्यकं जपेत् ॥ ६३ ॥

पश्चात्त्र्यहन्तु नाश्नीयात्सहस्रं हृदयं जपेत्
अतिकृच्छ्रमिति प्रोक्तं दिनं प्रतिजपेत्ततः ॥ ६४ ॥

सप्तजन्मकृतं पापमनेनैव विनश्यति ॥ ६५ ॥

इति सकलोत्पत्तिपटलम् एकसप्ततितमः