०७० विमानस्थापनविधिपटलः

विमानस्थापनविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि विमानस्थापनं परम्
सर्वपापहरं पुण्यं सर्वसिद्धिकरं शुभम् ॥ १ ॥

हेमैर्वा रजतैस्ताम्रैश्शिलामयैश्च वित्तलैः
इष्टकादारुभिर्वाथ हर्म्यं कृत्वा सलक्षणम् ॥ २ ॥

उत्तरायणकाले तु शुक्लपक्षे शुभे दिने
शुभवारादिभिर्युक्ते प्रतिष्ठां सम्यगाचरेत् ॥ ३ ॥

विमानस्थापने हीने तेन हर्म्येन किल्बिषम्
तस्मात्सर्वप्रयत्नेन प्रासादस्थापनं कुरु ॥ ४ ॥

अङ्कुराण्यर्पयेद्विद्यान्पूर्वोक्तविधिना सह
प्रागुक्तविधिना कुर्यात् मूर्तीनामक्षिमोचनम् ॥ ५ ॥

जलाधिवासनन्नोक्तं पुण्याहं वाचयेत्ततः

[[४४१]]

प्रासादस्य चतुर्दिक्षु मण्टपन्तु प्रकल्पयेत् ॥ ६ ॥

नवममष्टहस्तं वा सप्तहस्तमथापि वा
कला स्तम्भसमायुक्तं द्वादशस्तम्भमेव वा ॥ ७ ॥

मण्टपस्य त्रिभागैकम्मद्ध्यभागैकवेदिका
रत्निमात्रं समुत्सेधं दर्पणोदरसन्निभम् ॥ ८ ॥

कुण्डानि परितः कुर्यात् मानुषे तु पदे क्रमात्
युगाश्रं योनिचापञ्चत्र्यश्रं वृत्तमथाब्जकम् ॥ ९ ॥

सप्ताश्रञ्चैव वस्वश्रमिन्द्रादिषु प्रकल्पयेत्
प्राक्कुण्डवेदिका मद्ध्ये वृत्तं प्राधानिकं कुरु ॥ १० ॥

हर्म्याग्रे मण्टपं ह्येवं कारयेल्लक्षणैस्सह
अन्न्येषां मण्टपे ह्येवं कुर्यात्सर्वं युगाश्रकम् ॥ ११ ॥

नवाग्न्यायतनं वापि पञ्चाग्न्यायतनन्तु वा
पञ्चाग्न्यायतनञ्चेत्तु विदिशासु विसर्जयेत् ॥ १२ ॥

प्रासादस्याग्रभागे तु मण्टपं स्कन्दमण्टपम्
हर्म्यस्यैव पुरे भागे मण्टपं विष्णुमण्टपम् ॥ १३ ॥

सौम्येब्जमण्टपं प्रोक्तं दक्षिणे त्वीशमण्टपम्
अलङ्कृत्य वितानाद्यैर्मण्टपानि विशेषतः ॥ १४ ॥

भूसुरान्भोजयेत्पश्चात् मण्टपं प्रतिबुद्धिमान्
पश्चादुच्छिष्टमुद्वास्य गोमयेनोपलेपयेत् ॥ १५ ॥

विमानाभ्यन्तरे पश्चात् वास्तुहोमं समाचरेत्
पर्यग्निकरणं हर्म्ये कुर्यात्ते नैववह्निना ॥ १६ ॥

प्रासादन्तन्तुनावेष्ट्य दर्भमालाभिरावृतम्
स्थूप्याद्युपानपर्यन्तं नववस्त्रेण वेष्टयेत् ॥ १७ ॥

दुकूलपट्टदेवाङ्गैः कार्पासैश्च विभूषयेत्
द्वारपूजादिकं सर्वं स्थापनक्रमवत्सुधीः ॥ १८ ॥

वेद्यूर्द्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः

[[४४२]]

पूर्वे तु रक्तधान्न्यैश्च दक्षिणे श्वेतशालिभिः ॥ १९ ॥

अपरे कृष्णशाल्यैश्च सौम्यायां पीतशालिभिः
तदर्द्धैस्तण्डुलैर्भूष्य तदर्द्धैश्च तिलैरपि ॥ २० ॥

लाजदर्भैः परिस्तीर्य स्थण्डिलं पूजयेद्धृदा
चत्वारो देशिकाः प्रोक्ताः पूर्वोक्तैर्ल्लक्षणैर्युताः ॥ २१ ॥

शुक्लवस्त्रधरोष्णीषाश्शुक्लमाल्यैरलङ्कृताः
शुक्लगन्धानुलिप्ताङ्गाः पञ्चाङ्गभूषणैर्युताः ॥ २२ ॥

स्कन्दादिमण्टपेष्वत्र सर्वं कुर्यात्तु मूर्तिपैः
पूर्वोक्तलक्षणोपेतान् घटान्सङ्गृह्य वर्मणा ॥ २३ ॥

शुक्लसूत्राम्बुसंयुक्तान्सकूर्च्चान्सापिधानकान्
सवस्त्रान्पल्लवोपेतान्विन्न्यसेत्स्थण्डिलोपरि ॥ २४ ॥

ऐशान्ये मण्टपे वेद्यां शिवकुम्भन्तु मद्ध्यमे
विन्न्यस्त्वा तस्य मद्ध्ये तु पञ्चरत्नं विशेषतः ॥ २५ ॥

ध्यात्वा सदाशिवन्तस्मिन् शिवमन्त्रन्तु विन्न्यसेत्
वर्द्धनीन्तस्य वामे तु तस्यां हेमं विनिक्षिपेत् ॥ २६ ॥

ध्यात्वा मनोन्मनीन्तस्यास्तन्मूलेनैव विन्न्यसेत्
ईशस्य मद्ध्यमे वेद्यां स्थण्डिलोपरिविन्न्यसेत् ॥ २७ ॥

स्कन्दकुम्भन्न्यसेद्धीमान् शिवकुम्भस्य दक्षिणे
पञ्चरत्नं क्षिपेत्तस्मिन्ध्यात्वा तु स्कन्दरूपकः ॥ २८ ॥

तन्मूलन्तु न्न्यसेत्तस्मिन्गन्धपुष्पादिभिः क्रमात्
तत्तदीशानमन्त्रैश्च पूजयेत्तु विशेषतः ॥ २९ ॥

लिङ्गमुद्राञ्च पद्माख्यां शक्तिमुद्रां प्रदर्शयेत्
अभितस्तु घटानष्टौ पूर्वाशादिषु विन्न्यसेत् ॥ ३० ॥

कुमारं षण्मुखञ्चैव सुब्रह्मण्यं सुराष्ट्रजम्
सेनापतिं सुरेशञ्च कार्तिकेयं गुहं क्रमात् ॥ ३१ ॥

पूर्वादिषु घटेष्वेतान् न्यसेत्तत् बीजमन्त्रकैः

[[४४३]]

ततदीशानमन्त्रेण गन्धपुष्पादिभिर्यजेत् ॥ ३२ ॥

ईशस्य मण्टपे वेद्यां स्थण्डिलेपरितो न्यसेत्
प्रधानकुम्भन्न्यस्त्वा तु दक्षिणं मूर्तिरूपकम् ॥ ३३ ॥

ध्यात्वा महेशबीजन्तु विन्न्यसेत् घटमद्ध्यमे
परितोष्टघटेष्वेतान् भवादीन्पूर्वतो यजेत् ॥ ३४ ॥

भवं सर्वज्ञमीशानं पशुपतिं रुद्रमेव च
उग्रं भीमम्महादेवं यजेत्पूर्वादितः क्रमात् ॥ ३५ ॥

गन्धादिभिर्यजेद्धीमान् ईशानेनैव मन्त्रतः
अभितः कलशानष्टौ चक्रादिषु च विन्न्यसेत् ॥ ३६ ॥

विद्येशानां स्वबीजैश्च न्यस्त्वा सम्पूजयेद्धृदा
विष्णुमण्टपके वेद्याः स्थण्डिलोपरिमद्ध्यमे ॥ ३७ ॥

प्रधानकुम्भं विन्न्यस्त्वा तन्मद्ध्ये विष्णुरूपकम्
ध्यात्वा बीजं न्यसित्वा तु गन्धादिभिर्यजेद्धृदा ॥ ३८ ॥

अभितस्तु घटानष्टौ चक्रादिषु च विन्न्यसेत्
सङ्कर्षणश्च प्रद्युम्नो वासुदेवोनिरुद्धकः ॥ ३९ ॥

रामश्चैवाच्युतश्चैव नारसिंहश्च वामनः
क्रमेणैतानि सर्वाणि अष्टकुम्भेषु विन्न्यसेत् ॥ ४० ॥

ब्रह्ममण्टपके वेद्यां स्थण्डिलोपरिमद्ध्यमे
प्रधानकुम्भं विन्न्यस्त्वा तन्मद्ध्ये ब्रह्मरूपकम् ॥ ४१ ॥

ध्यात्वा बीजन्न्यसित्वा तु पूजयेत्पुरुषेण तु
अभितस्तु घटानष्टौ इन्द्रादिषु क्रमान्न्यसेत् ॥ ४२ ॥

त्रयीमयीञ्च मूर्तिञ्च पद्माक्षं पद्मयोनिकम्
चतुर्मुखञ्च धातारं पितामहमजन्तथा ॥ ४३ ॥

तत्तन्मन्त्रं क्रमान्न्यस्त्वा ईशाने नैव पूजयेत्
ऋगाद्यद्ध्ययनं कुर्याच्चतुर्द्दिक्षु क्रमेण तु ॥ ४४ ॥

देशिको मूर्तिपैस्सार्द्धं होमकर्मसमारभेत्

[[४४४]]

अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ४५ ॥

पलाशखदिराश्वत्थ न्यग्रोधं प्लक्ष एव च
शमीबिल्वमपामार्गमौदुम्बरं क्रमेण तु ॥ ४६ ॥

इन्द्रादीनाञ्च कुण्डानां समिधस्सम्प्रकीर्तिताः
समिधाज्य चरुं लाजान्सर्षपञ्च यवन्तिलान् ॥ ४७ ॥

आढकं शालिमाषञ्च निष्पावञ्च क्रमेण तु
तत्तत् ब्रह्मषडङ्गैश्च समिधादीनि होमयेत् ॥ ४८ ॥

शतमर्द्धन्तदर्द्धं वा प्रत्येकञ्जुहुयात्क्रमात्
द्रव्यान्ते व्याहृतिं हुत्वा भवनं स्पर्शयेत्क्रमात् ॥ ४९ ॥

द्रव्यं प्रति च हुत्वा तु तत्तदीशासुवर्मणा
स्पृष्ट्वाधिष्ठानभागन्तु व्याहृतिञ्जुहुयात्ततः ॥ ५० ॥

तेषां स्वनाममन्त्रेण जुहुयाच्छतसङ्ख्यया
एवञ्जागरणं रात्रौ प्रभाते स्थापनं कुरु ॥ ५१ ॥

वस्त्रहेमाङ्गुलीयाद्यैर्द्देशिकं सम्प्रपूजयेत्
दक्षिणान्दापयेत्तेषां त्रिंशन्निष्कन्तु चोत्तमम् ॥ ५२ ॥

तदर्द्धम्मद्ध्यमं ज्ञेयं तदर्द्धं कन्न्यसं भवेत्
दक्षिणा द्विगुणन्दद्याद्गुरवे स्कन्दमण्टपे ॥ ५३ ॥

कला भुवनवर्णाख्यमन्त्राख्यशिखरे न्यसेत्
प्रथमं गुरुणा ध्यात्वा न्यस्त्वाधिष्ठानमेरुके ॥ ५४ ॥

तत्वाख्यं पादमग्रे तु पदाख्यं प्रतरे न्यसेत्
गलवर्गे तु वर्णाख्यं मन्त्राख्यं शिखरे न्यसेत् ॥ ५५ ॥

स्थूपिवर्गे कलाद्ध्वानं विन्न्यसेद्विधिपूर्वकम्
देहं विमानमित्युक्तन्देहीलिङ्गमिति स्मृतम् ॥ ५६ ॥

सुमुहूर्त्ते सुलग्ने तु मन्त्रन्न्यासं समारभेत्
ध्यात्वा सदाशिवं कुम्भं मन्त्रं स्थूप्यग्रके न्यसेत् ॥ ५७ ॥

वर्द्धन्न्या बीजमादाय तद्धटैशानं पूजयेत्

[[४४५]]

तत्तद्दिक्ष्वीशदेवानां तत्तत्कुम्भाभिषेचनम् ॥ ५८ ॥

गन्धपुष्पादिभिश्चैव ईशानेन च पूजयेत्
नैवेद्यन्दापयित्वा तु ताम्बूलन्दापयेत्ततः ॥ ५९ ॥

उत्सवं कारयेत्पश्चात्पूर्वोक्तविधिना सह
स्थापनं कुरुते मर्त्य सुखी स्यात्सुतबन्धुभिः ॥ ६० ॥

उषित्वा सुचिरं कालं पराङ्गतिमवाप्नुयात् ॥ ६१ ॥

इति विमानस्थापनविधिपटलस्सप्ततितमः