०६९ पाशुपतस्थापनविधिपटलः

पाशुपतस्थापनविधिपटलप्रारम्भः
अथ संस्थापनं वक्ष्ये परं पाशुपतस्य तु
परचक्रप्रमथनं सर्वारिष्टनिवारणम् ॥ १ ॥

ग्रामऋद्धिकरं पुण्यं सदासस्यविवर्द्धनम्

[[४३७]]

प्रतिष्ठादिनपूर्वे तु कारयेदङ्कुरार्पणम् ॥ २ ॥

विचित्रमण्टपे चैव रत्नन्न्यासं समारभेत्
स्थण्डिलं शालिभिः कृत्वा पीठन्तस्योपरिन्न्यसेत् ॥ ३ ॥

माणिक्कमिन्द्रनीलञ्च वैडूर्यन्नीलमेव च
शङ्खं वै स्फटिकञ्चैन्द्रकान्तं वैडूर्यमेव च ॥ ४ ॥

पुष्यरागन्तु पूर्वादि क्रमादीशान्तकं हृदा
बिम्बन्तस्योपरिन्न्यस्त्वा सुस्निग्धं सुदृढं कुरु ॥ ५ ॥

नेत्रद्वययुतर्क्षे तु नेत्रमोक्षणमारभेत्
स्थण्डिलं शालिभिः कुर्यात्तस्योर्द्ध्वे प्रतिमान्न्यसेत् ॥ ६ ॥

हेमसूचिप्रहाराभ्यां पक्ष्मरेखां समालिखेत्
कृष्णमण्डलमालिख्य नेत्रमण्डलमालिखेत् ॥ ७ ॥

वस्त्राङ्गुलीयकैः पूज्य शिल्पिनन्तु विसर्जयेत्
तदग्रे स्थण्डिलं कृत्वा तस्योर्द्ध्वे प्रतिमान्न्यसेत् ॥ ८ ॥

नेत्रत्रयेषु तत्रैव प्रोतसौवर्णकैर्नखैः
तर्पयेन्मेधुसर्पिभ्यां नेत्रेणैव तु बुद्धिमान् ॥ ९ ॥

गौर्द्धेनुभव्यमन्त्रेण सवत्साङ्गां प्रदर्शयेत्
ब्रह्मजज्ञानमन्त्रेण ब्राह्मणान्सम्प्रदर्शयेत् ॥ १० ॥

प्रच्छन्नपटमावर्ज्य जनसङ्घान्प्रदर्शयेत्
पञ्चगव्येन संस्नाप्य अष्टमृत्सलिलैर्हृदा ॥ ११ ॥

ग्रामप्रदक्षिणन्नोक्तं कुर्याज्जलाधिवासनम्
नववस्त्रेण संवेष्ट्य लम्बकूर्चसमन्वितम् ॥ १२ ॥

जले चैव प्रपां कृत्वा सर्वलक्षणसंयुताम्
कण्ठमात्रे जले चैव तन्मद्ध्ये फलकोपरि ॥ १३ ॥

प्राक्शिरश्चोर्ध्ववक्त्रन्तु शाययेद्धृदयेन तु
एकरात्रं द्विरात्रं वा त्रिरात्रं वा जलोषितम् ॥ १४ ॥

भवनस्याग्रके कुर्यात् मण्टपं चाष्टहस्तकम्

[[४३८]]

कलास्तम्भसमायुक्तं युगद्वारसमाश्रितम् ॥ १५ ॥

तन्मद्ध्ये वेदिकां कुर्यात्तत्त्रिभागैकभागया
रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥ १६ ॥

कुण्डानि परितः कल्प्य मानुषे तु पदे क्रमात्
चतुरश्रं धनुर्वृत्तं त्रिकोणं युगदिक्षु च ॥ १७ ॥

वृत्तकुण्डन्तथैशान्यां कल्पयेत्तु प्रधानकम्
मण्टपस्योत्तरे कुर्यात्स्नानश्वभ्रन्तु पूर्ववत् ॥ १८ ॥

उद्वास्यशिल्पिनं पश्चाद्गोमयेनोपलेपयेत्
समर्यकपदे सम्यक् वास्तुहोमन्तु कारेयेत् ॥ १९ ॥

पुण्याहं वाचयित्वाथ प्रोक्षयेत्पञ्चगव्यकैः
द्वारपूजादिकं सर्वं स्नापनक्रमवत्सुधीः ॥ २० ॥

वेद्यूर्ध्वे स्थण्डिलं कृत्वा चाष्टद्रोणैश्च शालिभिः
तण्डुलैश्च तिलैश्चैव दर्भैः पुष्पैः परिस्तरेत् ॥ २१ ॥

शयनं कल्पयेत्पञ्च कम्बलैः पूजयेद्धृदा
जलादुत्तीर्य बिम्बन्तु सर्वातोद्य समायुतम् ॥ २२ ॥

वस्त्रादीनिविसृज्याथ पूर्ववच्छुद्धिमाचरेत्
कौतुकं बन्धयेद्धीमान्प्रागुक्तविधिना सह ॥ २३ ॥

शयने शाययेत् बिम्बं प्राक् च्छिरश्चोर्द्ध्ववक्त्रकम्
रक्तवस्त्रेण संवेष्ट्य पूजयेदस्तमन्त्रतः ॥ २४ ॥

दशमुद्रांशराख्याञ्च तालमुद्रां प्रदर्शयेत्
प्रधानकुम्भन्तस्यैव शिरोभागे तु विन्न्यसेत् ॥ २५ ॥

ससूत्रमुदकोपेतं सकूर्च्चं सापिधानकम्
सवस्त्रं रत्नसंयुक्तं पल्लवैरुपशोभितम् ॥ २६ ॥

तन्मूर्तिन्तु भवेत्कुम्भे न्यसेत्पाशुपतास्त्रकम्
तस्यमन्त्राक्षरोपेतं ब्रह्माङ्गानि प्रकल्पयेत् ॥ २७ ॥

गन्धपुष्पादिभिश्चैव ईशानेनैव पूजयेत्

[[४३९]]

धर्मकुम्भान्समादाय सूत्रादिभिस्समन्वितान् ॥ २८ ॥

परितश्चक्रादिविन्न्यस्य नैर्ऋते शाङ्करे न्यसेत्
वज्रादिपद्मपर्यन्तं कृत्वा याम्ये तु निक्षिपेत् ॥ २९ ॥

कुलिशादिपद्मपर्यन्तं बीजानि च क्रमेण तु
ध्यात्वा कुम्भेषु विन्न्यस्त्वा पूजयेत्पुरुषेण तु ॥ ३० ॥

नववस्त्रधरोष्णीष उत्तर्याभरणान्वितः
देशिको मूर्त्तिपैस्सार्द्धं होमकर्मसमारभेत् ॥ ३१ ॥

अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
शमीबिल्वञ्च मायूरं खादिरञ्च दिशासु च ॥ ३२ ॥

प्रधानस्य पलाशन्तु सर्वेषां समिधा स्मृता
समिधं सद्यमन्त्रेण मूलेनाज्यन्तु होमयेत् ॥ ३३ ॥

शिरसा च चरुं हुत्वा लाजं वामेन होमयेत्
सर्षपं कवचेनैव तिलमस्त्रेण होमयेत् ॥ ३४ ॥

प्रत्येकं शतमर्द्धं वा तदर्द्धं वापि होमयेत्
द्रव्यान्ते व्याहृतिं हुत्वा स्पर्शाहुतिं समाचरेत् ॥ ३५ ॥

अस्त्रेण षोडशं हुत्वा बिम्बस्यैव हृदि स्मरेत्
अथ ब्रह्मषडङ्गैश्च प्रत्येकन्तु शताहुतिः ॥ ३६ ॥

एवञ्जागरणं रात्रौ प्रभाते स्थापनं कुरु
स्थापको होतृभिस्सार्द्धं स्नानत्रयमथाचरेत् ॥ ३७ ॥

अङ्गन्न्यासकरन्न्यासं पूर्वोक्तविधिना कुरु
पूर्वोक्तविधिमार्गेण पूजयेत् गुरुमूर्तिपान् ॥ ३८ ॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात्
पूर्णाहुतिञ्च शिरसा हुत्वाग्निन्तु विसर्जयेत् ॥ ३९ ॥

उत्थाप्य शयनाल्लिङ्गं स्नानवेद्योपरिन्न्यसेत्
अङ्गैरङ्गानि विन्न्यस्य अक्षराण्येव विन्न्यसेत् ॥ ४० ॥

घृतं शिरोर्पणन्तस्य कुर्यात्पूर्वोक्तमार्गतः

[[४४०]]

कुम्भानुद्धृत्य बिम्बाग्रे स्थापयेत्स्थण्डिलोपरि ॥ ४१ ॥

कुम्भात् बीजं समादाय तत्तत् बीजोपरिन्यसेत्
तत्कुम्भस्थोदके बिम्बं स्नापयेद्देशिकोत्तमः ॥ ४२ ॥

अस्त्राणाञ्चैव बीजानि पीठाब्जे स्वस्वदेशतः
विन्न्यस्त्वा तज्जलैर्बिम्बं स्नापयित्वा हृदार्च्चयेत् ॥ ४३ ॥

आलयन्तु नयित्वाथ प्रभूतहविषन्ददेत्
एवं वज्रादिरूपाणि स्थापनीयानि देशिकैः ॥ ४४ ॥

तत्तद्देवायुधानेषु तत्प्रधानं यथा तथा
बिम्बाधिवासहोमानि कुरुध्वं स्थाप्य पूजयेत् ॥ ४५ ॥

तेषामावृतकत्वेन शूलन्तु परिवर्जयेत्
सर्वमर्कसमानन्तु सर्वास्तस्याथ मूर्तिनाम् ॥ ४६ ॥

एवं यः कुरुते मत्तर्यस्सपुण्यां गतिमाप्नुयात् ॥ ४७ ॥

इति पाशुपतस्थापनविधिपटल एकोनसप्ततितमः