त्रिशूलस्थापनविधिपटलप्रारम्भः
संस्थापनं त्रिशूलस्य वक्ष्ये लक्षणपूर्वकम्
सर्वेषां लक्षणार्त्थन्तु सर्वव्याधिनिवारणम् ॥ १ ॥
सर्वदेवमयं शूलं महास्त्रं परमं शुभम्
हेमराजतताम्रे आयसेनैव वा कुरु ॥ २ ॥
गर्भद्वारे च हस्ते च तुङ्गानि योजयेत्ततः
गर्भादधिकमादाय शूलमुत्तममुच्यते ॥ ३ ॥
मद्ध्यमं समगर्भन्तु तत् गर्भं भूतभागकम्
त्रिभागमधमं ज्ञेयं कनिष्ठोत्तममद्ध्यमम् ॥ ४ ॥
अष्टधा विभजेत्तत्र उत्तमादित्रयन्त्रयम्
वारोत्सेधसमम्मानमुत्तमं शूलमुच्यते ॥ ५ ॥
वास्तूनां यजमानानामानुकूल्यन्तु यौगिकम्
एतेषामपिराष्ट्रस्य चानुकुल्यन्तु लौकिकम् ॥ ६ ॥
यौगिकन्तु द्विमाने तु यजेत्सर्वत्र लौकिकम्
आयामं भूतभागैकं पात्रायाममिति स्मृतम् ॥ ७ ॥
नाडिकांशं भजेत्तच्च एकांशं पत्रविस्तरम्
सङ्गृह्य पत्रमानन्तु चतुरश्रं समं कुरु ॥ ८ ॥
पत्रतारं विसृज्याथ पार्श्वयोरुभयोरपि
[[४३२]]
वृत्ताकारं यथा तत्र वर्तयेत्तदनुक्रमात् ॥ ९ ॥
तयोर्बाह्यान्तरं ग्राह्यं भ्रामयेद्दिङ्मुखन्तुवत्
पार्श्वे पत्रद्वयं ह्येवं भवेत्तद्वर्तुलद्वयात् ॥ १० ॥
पात्रतारेण चाग्रे तु धारानिशितसंयुतम्
तारार्द्धं मुकुलं कुर्यात् मद्ध्यम्मूलाग्रतः क्रमात् ॥ ११ ॥
पत्रविस्तारमुद्दिष्टं भागैकं घनमुच्यते
तारार्द्धताग्रके मूले चान्तरं पार्श्वपत्रयोः ॥ १२ ॥
पात्रायामञ्च नवधा भज्यभागेन मूलतः
पादायाममिदं प्रोक्तं तदर्द्धं पादविस्तरम् ॥ १३ ॥
द्विगुणं मद्ध्यपादस्य विस्तारं पार्श्वपत्रवत्
पत्राणां पादमूले तु कुर्याद्वै कुण्डली कृतम् ॥ १४ ॥
विचित्रपत्रविहितं पत्रलेखेन कारयेत्
तस्याधः पालिकाकार्या पत्रायामं त्रिभागतः ॥ १५ ॥
तत्तारं नवधाभज्य व्योमांशं पालिकायतम्
द्व्यंशेनाब्जन्तु तस्याधः कोणेष्वश्वत्थपत्रवत् ॥ १६ ॥
कर्तव्यं पालिका ह्येवं तदधः कल्पयेद्गलम्
पालिकायास्तु विस्तारं विभजेत्तु दशांशकम् ॥ १७ ॥
एकांशं गलविस्तारमुत्सेधं तत्समं भवेत्
पालिकार्द्धं घटाकारमुत्सेधं स्यात्तदर्द्धतः ॥ १८ ॥
तस्याधः कर्णिकारेण कर्णं कुर्यात्तु बुद्धिमान्
पादेन कुम्भकारेण तस्याधसाडिका भवेत् ॥ १९ ॥
घटवत्ताडिकामानं तन्मानं युगमार्जितम्
एकभागान्तरं कुर्यात्तत्प्रमाणेन हीरिका ॥ २० ॥
हीरिकाथ प्रकर्तव्या शेषं दण्डमिहोच्यते
नाडिकायास्तु विस्तारं चतुर्भागत्रिभागिकम् ॥ २१ ॥
दारुदण्डस्य विस्तारं तदर्द्धं लोहदण्डकम्
[[४३३]]
दण्डमूले तु पद्मं स्यात् विस्तारं पालिकासमम् ॥ २२ ॥
तदर्द्धं मानमित्युक्तं तन्मानं गुणभाजितम्
एकांशं पट्टिकाज्ञेयं शेषांशेन कुशेशयम् ॥ २३ ॥
वृत्तं वा चतुरश्रं वा कारयेत्तु कुशेशयम्
हीरिका सममानेन पद्मोर्ध्वे पट्टिकां कुरु ॥ २४ ॥
मद्ध्यपत्रस्य मद्ध्ये तु लिखेदब्जन्तु तन्मुखम्
एवं लक्षणमाख्यातं प्रतिष्ठां कारयेत्ततः ॥ २५ ॥
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने
प्रतिष्ठादिनपूर्वे तु अङ्कुराण्यर्पयेत्सुधीः ॥ २६ ॥
नयनं मोक्षणं नोक्तं कुर्यात् गव्याभिषेचनम्
सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम् ॥ २७ ॥
त्रिशूलं समलङ्कृत्य कुर्यात् ग्रामप्रदक्षिणम्
जले चैव प्रपां कृत्वा चतुर्गात्रसमन्वितम् ॥ २८ ॥
वितानदर्भमालाभिर्ध्वजैश्चैव समन्वितम्
द्वादशं दशहस्तं वा नवहस्ताष्टहस्तकम् ॥ २९ ॥
षोडशस्तम्भसंयुक्तं द्वादश स्तम्भमेव वा
मण्टपन्तु त्रिधाभज्य मद्ध्यभागे तु वेदिका ॥ ३० ॥
रत्निमात्रसमुत्सेधं दर्पणोदरसन्निभम्
कुण्डानि परितः कुर्यात् दिशासु विदिशासु च ॥ ३१ ॥
दिशासु चतुरश्राणि चाब्जानि विदिशासु च
ईशानचक्रयोर्मद्ध्ये वृत्तं प्राधान्यकं कुरु ॥ ३२ ॥
पश्चिमे चोत्तरे वापि स्नानश्वभ्रं प्रकल्पयेत्
उद्वास्य शिल्पिनं पश्चात् गोमयेनानुलेपयेत् ॥ ३३ ॥
मण्टपं भूषयेत्पश्चात्पुण्याहं वाचयेत्ततः
ब्राह्मणान्भोजयेत्पश्चात् उच्छिष्टोद्वासनं कुरु ॥ ३४ ॥
गोमयेनोपलिप्याथ वास्तुहोमन्तु कारयेत्
[[४३४]]
पर्यग्निकरणं कृत्वा पुनः पुण्याहमाचरेत् ॥ ३५ ॥
द्वारपूजादिकं सर्वं स्थापनक्रमवत्सुधीः
वेद्यूर्ध्वे स्थण्डिलं कृत्वा चाष्टद्रोणैश्च शालिभिः ॥ ३६ ॥
तन्मद्ध्येऽब्जं समालिख्य साष्टपत्रं सकर्णिकम्
तण्डुलैस्तिलदर्भैश्च विकिरेत्समलङ्कृतम् ॥ ३७ ॥
तन्मद्ध्ये शयनं कल्प्य चर्मलाद्यैरनुक्रमात्
जलादानीय शूलास्त्रं स्नानश्वभ्रे परिन्यसेत् ॥ ३८ ॥
वज्रमापाद्य शूलास्तं शुद्धिं कृत्वाष्टमृज्जलैः
पञ्चगव्येन संस्नाप्य हृदयेन तु मन्त्रतः ॥ ३९ ॥
गन्धतोयेन संस्नाप्य शुद्धैरुद्धैरिति ब्रुवन्
हृदयेन तु मन्त्रेण गन्धपुष्पादिभिर्यजेत् ॥ ४० ॥
मद्ध्यपात्रस्य मद्ध्ये तु कौतुकं बन्धयेद्धृदा
मूर्द्धादिपादपर्यन्तं रक्तवस्त्रेण वेष्टयेत् ॥ ४१ ॥
शयने शाययेच्चूलं प्राक्शिरश्चोर्ध्ववक्त्रकम्
गन्धपुष्पादिभिः पूज्य ईशानेन तु मन्त्रतः ॥ ४२ ॥
सर्वालङ्कारसंयुक्तान्कुम्भद्रोणोदपूरितान्
सवस्त्रान्सापिधानांश्च ससूत्रान्कूर्चसंयुतान् ॥ ४३ ॥
गन्धोदकेन सम्पूर्णान्स्थण्डिलोर्ध्वे तु विन्यसेत्
शूलस्य दक्षिणे चैव मद्ध्ये पश्चिमपूर्वयोः ॥ ४४ ॥
स्थापयेत्तु घटान् पूज्य मद्ध्यमे तु शिवं यजेत्
ब्रह्माणं पश्चिमे पूज्य पूर्वे विष्णुं सपूजयेत् ॥ ४५ ॥
कुम्भमद्ध्ये न्यसेद्धीमान्पद्ममुद्रां प्रदर्शयेत्
पार्वतीं पूर्वकुम्भे तु स्कन्दामाग्नेयकुम्भके ॥ ४६ ॥
विघ्नेशं याम्यकुम्भे तु भास्करं निर्ऋतौ घटे
श्रीदेवीं वारुणे कुम्भे वायौ सरस्वतीं न्यसेत् ॥ ४७ ॥
वसुधां सौम्यकुम्भे तु दुर्गामीशानकुम्भके
[[४३५]]
तत्तद्बीजानि विन्यस्त्वा पूजयेत्तु हृदा बुधैः ॥ ४८ ॥
दिशास्वद्ध्ययनं कुर्यात् चतुरो वेदपारगान्
स्थापयेन्मूर्तिपैस्सार्द्धं ततो होमं समारभेत् ॥ ४९ ॥
अग्न्याधानादिकं सर्वं पूर्वोक्तविधिना कुरु
अश्वत्थोदुम्बरप्लक्षवटं पूर्वादिदिक्षु च ॥ ५० ॥
शमीखदिरबिल्वार्कमायूरञ्च विदिक्षु वै
प्रधानस्य पलाशन्तु समिधस्सम्प्रकीर्तिताः ॥ ५१ ॥
समिधस्सद्यमन्त्रेण मूलेनाज्यन्तु होमयेत्
अघोरेण चरुं हुत्वा लाजं वामेन होमयेत् ॥ ५२ ॥
तिलं हुत्वा तु शिखया नेत्रेणैव यवं हुनेत्
शतमर्द्धन्तदर्द्धं वा प्रत्येकञ्जुहुयात्क्रमात् ॥ ५३ ॥
द्रव्यान्ते व्याहृतिं हुत्वा स्पृशेत् शूलं समस्तकम्
ब्रह्मजज्ञान मन्त्रेण इदं विष्ण्वादिमन्त्रतः ॥ ५४ ॥
त्रियम्बकेन मन्त्रेण प्रत्येकं षोडशं हुनेत्
मूलब्रह्मषडङ्गैश्च प्रत्येकन्तु दशाहुतिः ॥ ५५ ॥
एवं जागरणं रात्रौ प्रभाते विमले ततः
आचार्यो मूर्तिपैस्सार्द्धं विधिनास्नानमाचरेत् ॥ ५६ ॥
अङ्गन्न्यासं करन्न्यासं पूर्वोक्तविधिना कुरु
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात् ॥ ५७ ॥
पूर्वाहुतिञ्च शिरसा स्विष्टमग्नेति होमयेत्
पावकन्तु विसृज्याथ स्थापनन्तु समारभेत् ॥ ५८ ॥
पूर्वोक्तविधिमार्गेण देशिकादीन् प्रपूजयेत्
शयनाच्छूलमुद्धृत्य वस्त्रादीनि व्यपोह्य च ॥ ५९ ॥
सर्वातोद्य समायुक्तं स्नानश्वभ्रे तु विन्न्यसेत्
अर्च्चयेद्धृदयेनैव गन्धपुष्पादिभिः क्रमात् ॥ ६० ॥
घृतं शिरोर्पणं कुर्यात्प्रागुक्तविधिना सह
[[४३६]]
मुहूर्त्ते समनुप्राप्ते गुरवे सन्निवेदयेत् ॥ ६१ ॥
कुम्भानुद्धृत्य शिरसा बाह्यधामप्रदक्षिणम्
कृत्वा शूलस्य चाग्रे तु स्थापयेत्तण्डुलोपरि ॥ ६२ ॥
शिवाख्यबीजमादाय मद्ध्यपत्रे तु विन्न्यसेत्
ब्रह्मबीजं समादाय दक्षिणे पत्रके न्यसेत् ॥ ६३ ॥
विष्णुबीजं समादाय वामपत्रे तु विन्न्यसेत्
पार्वतीबीजमादाय पालिकायान्तु विन्न्यसेत् ॥ ६४ ॥
स्कन्दबीजं समादाय कुम्भमद्ध्ये तु विन्न्यसेत्
विघ्नेशबीजमादाय पिण्डिकायान्न विन्न्यसेत् ॥ ६५ ॥
सूर्यबीजं समुद्धृत्य दण्डमद्ध्ये तु विन्न्यसेत्
लक्ष्मीबीजं समादाय पद्मे पूर्वे तु विन्न्यसेत् ॥ ६६ ॥
वागीशं बीजमादाय दक्षिणे तु दलेन्न्यसेत्
वसुधाबीजमादाय पश्चिमे तु दलेन्न्यसेत् ॥ ६७ ॥
दुर्गायाबीजमादाय उत्तरे तु दलेन्न्यसेत्
तद्धटस्थोदकैश्चैव त्रिशूलं स्नापयेद्धृदा ॥ ६८ ॥
गन्धपुष्पादिभिस्तत्र ईशानेनैव पूजयेत्
स्नपनं कारयेदन्ते यथावित्तानुसारतः ॥ ६९ ॥
गन्धं पुष्पञ्च धूपञ्च दीपन्नैवेद्य कादिभिः
तत्तदीशानमन्त्रेण प्रतिसन्धिषु पूजयेत् ॥ ७० ॥
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ७१ ॥
इति त्रिशूलस्थापनविधिपटल अष्टषष्टितमः