०६७ शूलस्थापनविधिपटलः

शूलस्थापनविधिपटलप्रारम्भः
अतः परं प्रवक्ष्यामि शूलस्थापनमुत्तमम्
चन्दनश्च मधूकश्च खादिरं सरलन्तथा ॥ १ ॥

शमीक्षीरासनञ्चैते शूलवृक्षास्तु शूलिनः
पनसं सुरदारूञ्च प्लक्षमर्जुनकिंशुकम् ॥ २ ॥

तिलकं सप्तपर्णी च विष्णुशूलस्य वृक्षकम्
वकुलं कुटजञ्चैव पिण्डकस्तिमिजन्तथा ॥ ३ ॥

धनञ्चार्जुनकञ्चैव ब्रह्मणश्शूलवृक्षकम्
मुक्तानां यत् द्रुमं प्रोक्तं देवीनान्तद्रुमं भवेत् ॥ ४ ॥

वैकङ्कतञ्च खादिर्यं शभ्यार्याया विधीयते
पाटली चैव ज्येष्ठायां रोहिण्यां मातृभिस्तथा ॥ ५ ॥

सरस्वत्यास्तु सरसे सरलञ्चण्डेश्वरस्य तु
राजवृक्षेण शूलं वै पलाशानां विशेषतः ॥ ६ ॥

खादिरं सर्वदेवानां शूलवृक्षमुदाहृतम्
एकस्यैवैकवृक्षेण बहुवृक्षन्नकारयेत् ॥ ७ ॥

उपलङ्ग्रहणस्योक्तं मार्गेण प्रविशेद्वनम्
सर्वेषाञ्चैव वृक्षाणां लक्षयेत्तु शुभाशुभम् ॥ ८ ॥

अग्निदग्धञ्च शुष्कञ्च वल्लीगुल्मावृतन्तु यत्
वेष्टितं त्वन्न्यतरुभिः दुष्टसर्पाश्रितन्तु यत् ॥ ९ ॥

[[४२४]]

बहुपक्षिनिवेशन्तु अधः कोटरसंयुतम्
वायुभिन्ना तथाहिन्ना तथैव गजमर्दितम् ॥ १० ॥

कृमिकोटरविद्धञ्च वक्रवक्रे विहीनकम्
तद्वृक्षान्वर्जयेद्युक्तान् फलपुष्पोपशोभितम् ॥ ११ ॥

सङ्कीर्णञ्चाग्रशाखाभिस्साग्रं शतवयोधिकम्
वृक्षं शुभं विजानीयात्पूजितं बिम्बकर्मसु ॥ १२ ॥

सुप्रशस्तश्चत् गृह्णीयादप्रशस्तञ्च वर्जयेत्
संशोद्ध्य वृक्षमूलन्तु तृणगुल्मलतादिकान् ॥ १३ ॥

वृक्षस्थादेवतायूयं यक्षराक्षपिशाचकाः
नागागरुद्धगन्धर्वसिद्धविद्याधरास्त्विमे ॥ १४ ॥

बिम्बार्त्थमाहृतं वृक्षं गच्छद्ध्वं हि यथा सुखम्
बलिहोमस्वप्नकाद्याश्शिलाग्रहणवत् भवेत् ॥ १५ ॥

तरुं प्रदक्षिणं कृत्वा गन्धपुष्पादिभिर्यजेत्
कुठारं हविषालिप्य अस्त्रेणैव तु पूजयेत् ॥ १६ ॥

आचार्यं पूजयेत्पश्चाच्छिल्पिनं पूजयेत्ततः
आचार्योदङ्मुखो भूत्वा छेदयेदस्त्रमन्त्रतः ॥ १७ ॥

तक्षकश्छेदयेत्पश्चात्कुण्ठार्या प्रियमानसः
शान्तिकं पूर्वपतितं दक्षिणे चाभिचारकम् ॥ १८ ॥

पश्चिमे पौष्टिकं विद्यादुत्तरे पुत्रवर्द्धनम्
अधो भागमुखं ज्ञेयमूर्द्ध्वभागन्तु पुष्टिकम् ॥ १९ ॥

मुखभागेब्जमालिख्य टङ्कं पृष्ठे तु लेखयेत्
उपशाखादिसर्वांश्च छेदयेत्तु विचक्षणः ॥ २० ॥

हृदयेनैव मन्त्रेण शूलवृक्षन्तु संस्पृशेत्
आलयस्याग्रगे चैव मण्टपन्तु नयेत्ततः ॥ २१ ॥

देशिकं पूजयेत्पश्चाच्छिल्पिनं पूजयेत्ततः
बेरायामन्तु सङ्गृह्य तालेनैव तु भाजयेत् ॥ २२ ॥

[[४२५]]

तेष्वेकभागमङ्गुल्यन्तन्मानेन प्रकल्पयेत्
ऊर्द्ध्वकायमधः कायं समं हि परिकीर्त्तितम् ॥ २३ ॥

प्रागुक्तदेहमानन्तु चरणायान्तथैव च
मांसत्वादुभयोश्चैव तयोर्द्दारुं विसर्जयेत् ॥ २४ ॥

ब्रह्मदण्डस्य विस्तारं पञ्चाङ्गुलमिति स्मृतम्
मेढ्रादिनाभिपर्यन्तं ब्रह्मांशञ्चतुरश्रकम् ॥ २५ ॥

नाभेर्हिक्कान्तकञ्चैव वस्वंशं वैष्णवं भवेत्
तस्योर्द्ध्वे वृत्तकं कुर्याच्छिवभागमिति स्मृतम् ॥ २६ ॥

वक्षोदण्डस्य विस्तारं सप्ताङ्गुलमिति स्मृतम्
तद्बेरन्तु कला चैव उभयोरग्रयोरपि ॥ २७ ॥

कलांशैवघनन्तस्य उभयोः पार्श्वयोरपि
द्विमात्रेण शिखां कुर्यादेकद्वित्रिचतुश्शिखा ॥ २८ ॥

मुकुले दुर्निवृक्षस्य ऊर्द्ध्ववक्त्राकृतिर्भवेत्
रन्ध्रं विष्ण्वं शतारेण पक्षोदण्डस्य मद्ध्यमे ॥ २९ ॥

हिक्का सूत्रादधस्तात्तु पक्षोदण्डन्तु सुस्थितम्
कटिदण्डस्य विस्तारं सप्तमात्रमुदाहृतम् ॥ ३० ॥

कलाश्चैव घनन्तत्र उभयोः पार्श्वयोरपि
गुणाङ्गुलप्रमाणेन शिखाङ्कुरूर्द्ध्ववक्त्रकम् ॥ ३१ ॥

ब्रह्मभागस्य तारेण तन्मद्ध्ये सुषिरं कुरु
युगाश्रमूले त्र्यङ्गुल्यं मांसमानन्त्यजेत्तरुम् ॥ ३२ ॥

द्विमात्रन्नाभ्यधस्तात्तु हित्वात्रकटिदण्डकम्
योजयेत् ब्रह्मदण्डे तु सुस्निग्धं सुदृढं कुरु ॥ ३३ ॥

ऊर्वायामं परिग्राह्य रुद्रमात्रेण संयुतम्
ऊरुदण्डन्तथाख्यातं विस्तारञ्चतुरङ्गुलम् ॥ ३४ ॥

ऊरुदण्डाग्रविस्तारं कोलकञ्चेति कीर्तितम्
तस्य मूले तु सुषिरं शिखामानेन कारयेत् ॥ ३५ ॥

[[४२६]]

तस्याग्रे तु शिखां कुर्यात्पक्षाङ्गुलप्रमाणतः
कटिदण्डशिखायान्तु ऊरुदण्डन्तु योजयेत् ॥ ३६ ॥

जङ्घायामन्तु सङ्ग्राह्य भागेनैव तु योजयेत्
जङ्घामूलस्य विस्तारमग्न्यङ्गुलमुदाहृतम् ॥ ३७ ॥

तस्याग्रस्य तु विस्तारं सार्द्धमात्रमिति स्मृतम्
आयामन्तत्समं ज्ञेयन्तत् घनन्तु तदर्द्धकम् ॥ ३८ ॥

दोर्दण्डमूलविस्तारं गुणाङ्गुलमुदाहृतम्
तस्य मूले तु सुषिरञ्चतुरङ्गुलमायतम् ॥ ३९ ॥

ऊर्वग्रस्य शिखायान्तु सुषिरन्तस्य योजयेत्
योजयेदुभयोस्सन्धौ जानुमण्डलकं बुधः ॥ ४० ॥

जानुमण्डलविस्तारं युगाङ्गुलमुदाहृतम्
बाहुकाग्रस्य विस्तारं सार्द्धमात्रमिति स्मृतम् ॥ ४१ ॥

तन्मूले सुषिरं कुर्यात्पक्षाङ्गुलप्रमाणतः
पक्षो दण्डकरो विप्र बाहुमूलन्तु योजयेत् ॥ ४२ ॥

तारं प्रकोष्ठदण्डस्य मूलेऽग्न्यङ्गुलमुच्यते
तस्याग्रस्य तु विस्तारमेकाङ्गुलमिति स्मृतम् ॥ ४३ ॥

तन्मूलेन द्विमात्रेण सुषिरं कारयेत् बुधः
बाह्वग्रयोश्शिखाश्चैव प्रकोष्ठेनैव योजयेत् ॥ ४४ ॥

पक्षो दण्डात्कटीदण्डात्पार्श्वदण्डायतास्मृतम्
द्विमात्रन्तस्य विस्तारन्तत्समन्तु घनं भवेत् ॥ ४५ ॥

ऊर्ध्वे तु पार्श्वदण्डं तु अङ्गुलं सुषिरोगतम्
अजदण्डात्पार्श्वदण्डात् ग्रन्ध्यन्तं शरमात्रकम् ॥ ४६ ॥

मूले स्निग्धं प्रयोक्तव्यं पार्श्वदण्डं विशेषतः
स्त्रीणाञ्चैव विशेषेण वर्जयेत्पार्श्वदण्डकम् ॥ ४७ ॥

पार्श्वयोर्घटिदण्डस्य वक्षो दण्डस्य वै तथा
बाहुमूले च तस्याग्रे कूर्परस्य तु मूलके ॥ ४८ ॥

[[४२७]]

एतेष्वथ प्रदेशेषु मांसमन्न्यारकन्न्यसेत्
यथोक्तमानं यत्तेषामस्त्राङ्गुलविहीनकम् ॥ ४९ ॥

कपालं करतलं कर्णमपरञ्चरणन्तथा
तन्मानं दण्डमात्रन्तु हीनं युक्त्या तु कारयेत् ॥ ५० ॥

स्थानकस्येवमाख्यातमासने किञ्चिदस्ति हि
ब्रह्मदण्डस्य मूले तु योजयेत्तु युगाङ्गुलम् ॥ ५१ ॥

जङ्घामूलप्रदेशे तु अद्ध्यर्द्धाङ्गुलहीनकम्
पूर्वोक्तविधिनादण्डं कृत्वा लक्षणसंयुतम् ॥ ५२ ॥

मूलं पादतले न्यस्त्वाप्यग्रमग्रे न्यसेद्बुधः
स्वर्णेन रजतेनैवाप्यथवा ताम्रजेन वा ॥ ५३ ॥

पट्टेन वलयं कृत्वा दण्डमन्तस्सुयोजयेत्
अथवाप्यखिलं शूलं ताम्रेण निर्ममेद्बुधः ॥ ५४ ॥

ताम्रेण निर्मितं शूलमुत्तमं परिचक्षते
सीसत्रपुषकांस्याद्यैस्ताम्रं हीनन्तु मिश्रितम् ॥ ५५ ॥

तत्तत् द्रव्यैः प्रकर्तव्यमुत्तमोत्तममिष्यते
ताम्रेषु स्वर्णरजतमिश्रञ्चेदुत्तमोत्तमम् ॥ ५६ ॥

एवमेव प्रकर्तव्यं शूलबिम्बं प्रजापते
शूललक्षणमाख्यातं स्थापनन्त्वधुनाश्रुणु ॥ ५७ ॥

अयने चोत्तरे काले शूलस्थापनमारभेत्
शुक्लपक्षे शुभर्क्षे तु सुतिथौ वासुवारके ॥ ५८ ॥

प्रासादस्याग्रतः कुर्यान्मण्टपञ्चतुरश्रकम्
रन्ध्राष्टाब्धिकराः प्रोक्ताः ज्येष्ठादीनान्तु तारकम् ॥ ५९ ॥

षोडशस्तम्भसंयुक्तं श्रुतिद्वारसमायुतम्
मण्टपन्तु त्रिधा कृत्वा मद्ध्ये त्वेकेन वेदिकाम् ॥ ६० ॥

रत्निमात्रं समुत्सेधन्दर्पणोदरसन्निभम्
कुण्डानि परितः कुर्याद्दिशासु विदिशासु च ॥ ६१ ॥

[[४२८]]

नवाग्न्यायतनं वापि पञ्चाग्न्यायतनन्तु वा
दिशासु चतुरश्राणि वृत्तानि विदिशासु वै ॥ ६२ ॥

ईशानचक्रयोर्मद्ध्ये वृत्तं प्राधान्यकं कुरु
पञ्चाग्न्यायतनञ्चेत्तु विदिक्कुण्डानि वर्जयेत् ॥ ६३ ॥

गोमयालेपनं कुर्यात्प्रोक्षयेन्मन्त्रवारिणा
वितानद्ध्वजसंयुक्तम्मुक्तादामैरलङ्कृतम् ॥ ६४ ॥

चतुस्तोरणसंयुक्तन्नालिकेरफलैर्युतम्
मङ्गलाष्टकसंयुक्तं मङ्गलाङ्कुरशोभितम् ॥ ६५ ॥

स्तम्भवेष्टनसंयुक्तं मण्टपं भूषयेत्ततः
पुण्याहं वाचयित्वा तु वेदिकोपरिशालिभिः ॥ ६६ ॥

अष्टद्रोणैस्तदर्द्धैर्वा स्थण्डिलं कुरु देशिक
तन्मद्ध्ये पद्ममालिख्य साष्टपत्रं सकर्णिकम् ॥ ६७ ॥

तिलतण्डुलदर्भैश्च पुष्पैश्चैव परिस्तरेत्
शयनं कल्पयेत्पञ्च चर्मजाद्यैरनुक्रमात् ॥ ६८ ॥

वास्तुहोमन्ततः कुर्यात् पर्यग्निकरणं कुरु
शूलं सङ्क्षालयित्वा तु गव्यैश्चैवाभिषेचयेत् ॥ ६९ ॥

गन्धाम्भसा तु संस्नाप्य शुद्धतोयेन सेचयेत्
सर्वातोद्य समायुक्तं सर्वालङ्कारशोभितम् ॥ ७० ॥

सद्यमन्त्रमनुस्मृत्य शूलं वस्त्रेण वेष्टयेत्
शयने शाययेच्छूलं वामदेवं समुच्चरन् ॥ ७१ ॥

गन्धादिभिस्समभ्यर्च्च्य हृदयेन तु मन्त्रतः
कौतुकं बन्धयेद्धीमान्वक्षो दण्डस्य दक्षिणे ॥ ७२ ॥

गन्धाद्यैरर्च्चयित्वा तु पायसान्नन्निवेदयेत्
एवं कृते विशेषेण पश्चाद्धोमं समारभेत् ॥ ७३ ॥

अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
समिधाज्य चरूल्लाजास्तिलश्शाली तथैव च ॥ ७४ ॥

[[४२९]]

हृदयाद्यस्तपर्यन्तं मन्त्रैश्चैव क्रमेण तु
शतमर्द्धन्तदर्द्धं वा प्रत्येकञ्जुहुयात्क्रमात् ॥ ७५ ॥

द्रव्यान्ते व्याहृतिं हुत्वा मूलेनैव शतं हुनेत्
प्रतिद्रव्यं स्पृशेच्छूलं सद्यमन्त्रमनुस्मरन् ॥ ७६ ॥

नृत्तगेयकवाद्यैश्च रात्रिशेषं व्यपोह्य च
प्रभाते विमले धीमान्शूलस्थापनमारभेत् ॥ ७७ ॥

आचार्यो मूर्त्तिपैस्सार्द्धं स्नानं कृत्वा यथा विधि
नववस्त्रधरोष्णीषस्सर्वाभरणभूषितः ॥ ७८ ॥

आचार्यं पूजयेत्पश्चाद्वस्त्रहेमाङ्गुलीयकैः
प्रागुक्तविधिनाचार्यदक्षिणान्तु प्रदापयेत् ॥ ७९ ॥

मूर्तिपान्पूजयेत्पश्चादाढ्ये त्रीन्पूजयेत्ततः
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्क्रमात् ॥ ८० ॥

पूर्णाहुतिञ्च शिरसा स्विष्टमग्नेति होमयेत्
मुहूर्त्ते समनुप्राप्ते स्थापनन्तु समारभेत् ॥ ८१ ॥

गर्भगेहन्तथैकोन पञ्चाशत्पदकं कुरु
मद्ध्ये त्वेकपदं ब्राह्ममभितोष्टौ तु दैविकम् ॥ ८२ ॥

पदमेकावृतन्तस्य त्वभितोमानुषं पदम्
चतुर्विंशत्पदं बाह्ये हितं पैशाचिकं भवेत् ॥ ८३ ॥

मानुषे स्थापयेच्छूलं दैविकाभिमुखस्थितः
द्विमुखं वार्द्धाधिकं वा पादाधारस्य तारकम् ॥ ८४ ॥

तद्धनन्तु द्विमात्रं स्याच्चतुरश्रं समन्ततः
हैमेन वाथ तारेण ताम्रेणैवाथ कारयेत् ॥ ८५ ॥

रन्ध्रं घटन्तु तन्मद्ध्ये कल्पयेत्तु विचक्षणः
मानुषे स्थापयित्वा तु रत्नानि विधिवन्न्यसेत् ॥ ८६ ॥

वज्रमैन्द्रन्तु विन्न्यस्य वैडूर्यं वह्निगोचरे
इन्द्रे नीलन्तु याम्यायं मुक्ता निर्ऋतिगोचरे ॥ ८७ ॥

[[४३०]]

वारुणे स्फटिकन्न्यस्त्वा पुष्यरागन्तथा निले
पद्मरागन्तु सौम्यायान्नीलमीशानगोचरे ॥ ८८ ॥

माणिक्कम्मद्ध्यमे स्थाप्य धातूंश्चैव तु विन्न्यसेत्
हरितलाञ्जनं सीसं माक्षिकं गैरिकाभ्रकम् ॥ ८९ ॥

सिन्दूरङ्गन्धकञ्चैव न्यसेदिन्द्रादिषु क्रमात्
गोधूमयवनीवारतिलसर्षपमाषकान् ॥ ९० ॥

व्रीहिमुद्गं क्रमेणैव न्यस्त्वावटक्रमेण तु
तन्मद्ध्ये स्थापयेच्छूलमीशानेन तु मन्त्रतः ॥ ९१ ॥

एकाक्षरं द्व्यक्षरं वा कारयेत्सुदृढक्रमात्
नालिकेरफलस्यैव पक्वस्याहृत्यतत्तवचम् ॥ ९२ ॥

रेणुभिश्च विना तत्र शोधयित्वा पुनःपुनः
शुद्धसारन्तु सङ्ग्राह्य रज्जुन्तेनैव कारयेत् ॥ ९३ ॥

त्रिवृत्वापि द्विवृत्वापि नाहन्तस्य यवत्रयम्
रज्जुना वेष्टयेच्छूलं युक्त्या सर्वत्र बुद्धिमान् ॥ ९४ ॥

पर्वताग्रे नदीतीरे पुण्यक्षेत्रे मनोरमे
बिम्बार्त्थं मृत्तिकाशस्ता सर्वकामफलप्रदाः ॥ ९५ ॥

सितारक्ता च पीताभा कृष्णा च सुमनोरमा
चूर्णयित्वा मृदं पश्चात् दधिक्षीरघृतैर्युतम् ॥ ९६ ॥

गोधूमयवमाषाणां चूर्णैरपि समन्वितम्
श्यामं श्रीवेष्टकञ्चैव हिङ्गुकं रजनीन्तथा ॥ ९७ ॥

कुन्दुकं गुग्गुलुं लाक्षा सर्ज्जगन्धरसन्ततः
कर्प्पूरञ्चन्दनं कुष्ठं कस्तूरीमगरुङ्गुलम् ॥ ९८ ॥

पञ्चनिर्याससंयुक्तं मरीची च समायुतम्
बिल्वोद्भवं रसञ्चैव एकी कृत्य विमर्दयेत् ॥ ९९ ॥

पाषाणे पेषयित्वा तु सुधया सह भागतः
शनैश्शनैः प्रकर्तव्यं प्रतिमालक्षणान्वितम् १००

[[४३१]]

ततस्तत्प्रतिमस्योक्तं भूषणैश्च समन्वितम्
कपित्थोद्भूतनिर्यासं रसेनैवोषितैर्जलैः १०१
पञ्चवर्णैस्ततस्तस्मिन्लेखयेच्चित्रवित्तमः
हैमेनाभरणं रत्नं लाक्षयाबन्धयेद्दृढम् १०२
एवं यः कुरुते मर्त्यस्स पुण्याङ्गतिमाप्नुयात्
कुलैकविंशदुद्धृत्य पुत्रपौत्रादिभिस्सह १०३
इति शूलस्थापनविधिपटलस्सप्तषष्टितमः