०६६ परिवारबलिक्रमपटलः

परिवारबलिक्रमपटलप्रारम्भः
अतः परं प्रवक्ष्यामि परिवारबलिक्रमम्
सर्वलोकहितं पुण्यं सर्वदेवप्रियार्त्थकम् ॥ १ ॥

आलयस्सर्वभूतानां मूलाधार इति स्मृतम्
उत्पन्नस्सर्वभूतानां बलदो बलिरुच्यते ॥ २ ॥

शौचकं शान्तिकञ्चैव सौख्यकञ्च ततः परम्
शैविकं त्विति विज्ञेयं बलिदानञ्चतुर्विधम् ॥ ३ ॥

सौख्यकं शैविकं चैव बिम्बयुक्तं बलिन्ददेत्
शौचकं शान्तिकञ्चैव बलिबेरयुतन्नव ॥ ४ ॥

वृषादिभ्यस्तथा पूर्वमिन्द्रादिभ्यो द्वितीयकम्

[[४२०]]

वज्रादिभ्यस्तृतीयन्तु भूतेभ्यस्तच्चतुर्त्थकम् ॥ ५ ॥

एवं शैविकमाख्यातं सौख्यकन्तु विनास्त्रकैः
इन्द्राद्यैस्तद्विनाशान्तिर्द्वारादिवाहनान्तकम् ॥ ६ ॥

शौचकं त्विति विज्ञेयं बलिदेवं ततश्श्रुणु
सर्वेभ्यो द्वारपालेभ्यस्तृप्तये नन्दिकालकौ ॥ ७ ॥

द्वारस्य दक्षिणे नन्दिं गङ्गामेवं तदुत्तरे
वामपार्श्वे महाकालं यमुनां तस्य दक्षिणे ॥ ८ ॥

पुरतो वृषभं यष्ट्वा चाग्नेय्या पावकन्ततः
सप्तमातृगणं याम्ये विघ्नेशं नैर्ऋते ततः ॥ ९ ॥

पश्चिमे तु गुहञ्चैव ज्येष्ठां वायव्य देशके
सौम्यभागे तु दुर्गाञ्च ईशे क्षेत्रं समर्चयेत् ॥ १० ॥

द्वारं बलिविशेषेण नन्दिकालबलिन्ददेत्
प्रथमे च महापीठे भास्करस्य बलिन्ददेत् ॥ ११ ॥

प्रथमावरणं प्रोक्तं द्वितीयावरणं श्रुणु
गोपुरे दण्डिनं सव्ये मुण्डिनं वामपार्श्वके ॥ १२ ॥

रक्तकृष्णनिभौ चैव दण्डहस्तौ महाबलौ
सर्वाभरणसंयुक्तौ सूची विस्मयसंयुतौ ॥ १३ ॥

उग्रदृष्टिसमायुक्तौ भीमरूपौ महाबलौ
महोक्षं पूजयेदग्रे इन्द्रादीनां बलिन्ददेत् ॥ १४ ॥

इन्द्रञ्चैव तथाग्निञ्च यमञ्च निर्ऋतिं तथा
वारुणञ्चैव वायुञ्च सोममीशानमर्चयेत् ॥ १५ ॥

पुनः प्रदक्षिणं कृत्वा ब्रह्मविष्णू समर्चयेत्
नैर्ऋते चैव विष्णुञ्च ईशे ब्रह्माणमेव च ॥ १६ ॥

द्वितीया वरणं प्रोक्तं वज्रादीनां तृतीयके
पीठाग्रे चास्त्रकं यष्ट्वा महापीठे बलिं क्षिपेत् ॥ १७ ॥

आमोदादिदलाग्रे वा तन्मूले वा समर्चयेत्

[[४२१]]

तदन्ते कर्णिका मद्ध्ये विघ्नं वा रुद्रभूतकम् ॥ १८ ॥

आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा
अविघ्नो विघ्नराजश्च षडैते भूतनायकाः ॥ १९ ॥

अविघ्नं कर्णिकामद्ध्ये आमोदं पूर्वदिग्दले
याम्ये चैव प्रमोदञ्च सुमुखं पश्चिमे दले ॥ २० ॥

दुर्मुखन्तु दले सौम्म्ये विघ्नकारञ्च ईशके
आमोदश्श्यामवर्णस्तु प्रमोदः कृष्णवर्णकः ॥ २१ ॥

सुमुखस्फटिकाभासो दुर्मुखः कुङ्कुमप्रभः
अविघ्नो विद्रुमाभासो विघ्नकर्ताञ्जनप्रभः ॥ २२ ॥

द्विभुजाश्च द्विनेत्राश्च टङ्कपाशधरास्तथा
उग्रदृष्टिसमायुक्ता भीमरूपामहाबलाः ॥ २३ ॥

सर्वाभरणसंयुक्ता नागयज्ञोपवीतकाः
प्रासादाभिमुखास्सर्वे दीर्घदंष्ट्रोत्कटाननाः ॥ २४ ॥

एते द्वारादिपीठान्ता देवाश्च परिकीर्तिताः
अथवान्यप्रकारेण प्रथमावरणे यदि ॥ २५ ॥

प्रथमं दक्षिणं कृत्वा वृषाद्यष्टकमर्चयेत्
पुनः प्रदक्षिणं कृत्वा मातॄणां बलिमाचरेत् ॥ २६ ॥

गोपुरद्वारपालेभ्यो वृषञ्चास्त्रञ्च पूर्ववत्
इन्द्रादींश्च दलाग्रेषु तन्मूले पीठभूतकान् ॥ २७ ॥

एवं बलिक्रमं कुर्यात् बलिदानक्रमं श्रुणु
नित्यार्चने निवेद्यान्ते होमान्ते च समाचरेत् ॥ २८ ॥

देवदेवस्य विज्ञाप्य बलिबेरं समर्चयेत्
रङ्गे वा शिबिकायां वा परिवारकमूर्द्धनि ॥ २९ ॥

बलिबेरसमायुक्तं बलिद्रव्य समायुतम्
शुद्धान्नं पायसान्नं वा दद्ध्यन्नं वा घृतप्लुतम् ॥ ३० ॥

गन्धपुष्पसमायुक्तं धूपदीपसमन्वितम्

[[४२२]]

भेरीघोषेण संयुक्तं सर्ववाद्यसमन्वितम् ॥ ३१ ॥

छत्रचामरसंयुक्तं गणिकादिभिरावृतम्
नानाध्वजसमायुक्तं जयशब्दसमन्वितम् ॥ ३२ ॥

स्तोत्रसङ्गीतनृत्तैश्च पञ्चशब्दसमन्वितम्
शनैः प्रदक्षिणं कुर्यात् बलिदानसमन्वितम् ॥ ३३ ॥

आचार्यस्सुप्रसन्नात्मा सोष्णीषस्सोत्तरीयकः
शुक्लगन्धानुलिप्ताङ्गश्शुक्लयज्ञोपवीतकः ॥ ३४ ॥

प्राङ्मुखोदङ्मुखस्थित्वा तत्तद्देवाग्रकेऽपि वा
देवदक्षिणभागे वा पीठक्षालनमाचरेत् ॥ ३५ ॥

प्रोक्षणावाहने कृत्वा पाद्यमाचमनन्ददेत्
अर्घ्यं गन्धञ्च पुष्पञ्च धूपदीपं तथैव च ॥ ३६ ॥

मुद्रया सह बद्ध्वाथ बलिन्दद्यात्स्वनामतः
अर्घ्योदकस्रवं कुर्यात् हृदयाञ्जलिमुद्रया ॥ ३७ ॥

श्रेष्ठं करतलं पूर्णं मद्ध्यमं मुष्टिमात्रकम्
अधमन्त्वाहुती मात्रं बलिरेकः प्रकीर्तितः ॥ ३८ ॥

अङ्गुष्ठतर्जनीभ्यान्तु धूपमुद्रेति कीर्तिता
अङ्गुष्ठानामिकाभ्यान्तु दीपमुद्रेति कत्थ्यते ॥ ३९ ॥

देवानान्तु बलिं हस्ते भूतानां बलिमास्यके
पैशाचानां क्षिपेद्भूमौ ऋषीणां पीठके बलिम् ॥ ४० ॥

अथवा सर्वदेवानां बलिपीठे बलिं क्षिपेत्
बलिदानावसाने तु गीतनृत्तसमन्वितम् ॥ ४१ ॥

सर्ववाद्यसमायुक्तं प्रदक्षिणमथाचरेत्
नृत्तगेयादिकं कुर्यादिन्द्रादिष्वष्टदिक्षु च ॥ ४२ ॥

अथवा पूर्वदिग्भागे चैशाने वा समाचरेत्
धाम्ने तु तुल्यमेवेति पीठे वा त्रिः प्रदक्षिणम् ॥ ४३ ॥

भूर्भुवस्वस्त्रिलोकानां रक्षणार्त्थं विशेषतः

[[४२३]]

भूप्रदक्षिणकं पूर्वं द्वितीयं भुवः प्रदक्षिणम् ॥ ४४ ॥

स्वप्रदक्षिणकं पश्चात्प्रदक्षिणमहाबलम्
बलिदानसमायुक्तं सर्वसम्पत्सुखावहम् ॥ ४५ ॥

आयुरारोग्यकरदं पुत्रपौत्रविवर्द्धनम्
पादप्रक्षालनं कृत्वा प्रविशेदालयं प्रति ॥ ४६ ॥

इति परिवारबलिक्रमपटलष्षट्षष्टितमः