०६५ उपचारविधिपटलः

उपचारविधिपटलप्रारम्भः
दीपान्तं वा हविषान्तं बल्यन्तन्ताण्डवादिकम्
दशोपचारदीपान्तं षोडशं हविरन्तकम् ॥ १ ॥

बल्यंशं पञ्चविंशच्च षट्त्रिंशत्ताण्डवान्तकम्
आवाहनार्घ्यपात्राणि तथैवाचमनीयकम् ॥ २ ॥

स्नानं गन्धञ्च पुष्पञ्च धूपदीपं विसर्जनम्
दशोपचारं विज्ञेयं दीपान्ते तु शिवार्चनम् ॥ ३ ॥

आवाहनं स्थापनञ्च पाद्यमाचमनार्घ्यकम्
स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकम् ॥ ४ ॥

धूपदीपनिवेद्यान्तं नमस्कारं विवर्जनम्
षोडशैवोपचारन्तु हविष्यान्ते च पूजनम् ॥ ५ ॥

आवाहनं स्थापनञ्च स्वागतञ्चानुमान्यकम्
पाद्यमाचमनीयार्घ्यं स्नानवस्त्रोपवीतकम् ॥ ६ ॥

भूषणं गन्धपुष्पञ्च धूपदीपन्तथैव च
नीराजनन्ततो मुद्रा दर्शनावर्णनार्चनम् ॥ ७ ॥

नैवेद्यं होमकारञ्च बलिदानन्तथैव च
स्तोत्रञ्जपनमस्कारम् उत्सवञ्च विसर्जनम् ॥ ८ ॥

बल्यन्तेशान्तिकं पञ्च विंशत्येवोपचारकम्
आसनावाहनार्घ्याणि स्वागतञ्चानुमान्यकम् ॥ ९ ॥

[[४१९]]

पाद्यमाचमनं स्नानं वस्त्रञ्चैवोपवीतकम्
भूषणं गन्धपुष्पञ्च धूपं दीपन्तथैव च ॥ १० ॥

नीराजनाञ्जने चैव चामरं छत्रदर्पणम्
दर्शनन्दशमुद्राणां पञ्चावरणपूजनम् ॥ ११ ॥

नैवेद्यं होमकार्यञ्च बलिदानञ्जपन्तथा
द्ध्यानं स्तोत्रं नमस्कारमुत्सवं गीतवाद्यकम् ॥ १२ ॥

नृत्तमर्घ्यं विसर्जञ्च षट्त्रिंशदुपचारकम्
पाद्यन्तु पञ्चमात्रं स्यात् मात्रमाचमनन्तथा ॥ १३ ॥

अर्घ्यं द्वादशमात्रं स्यात् धूपदीपं दशस्मृतम्
दीपन्तु दशमात्रं स्यात् नीराजनन्तु षोडशम् ॥ १४ ॥

भस्मदानन्तु वै पश्चात्सप्तमात्रन्तु कथ्यते
अञ्जनन्तु त्रिमात्रं स्यात् चामरञ्च द्वयं भवेत् ॥ १५ ॥

छत्रन्तु पञ्चमात्रं स्यात् दर्पणन्दशमात्रकम्
नैवेद्यं षोडशमात्रं बलिदानन्तु तत्समम् ॥ १६ ॥

इति उपचारविधिपटलपञ्चषष्टितमः