०६४ पञ्चब्रंहविधिपटलः

पञ्चब्रंहविधिपटलप्रारम्भः
ईशानं पुरुषञ्चैव अघोरं वामदेव च
सद्योजातं तु पञ्चैते मन्त्रब्रह्ममिति स्मृतम् ॥ १ ॥

आवाहनं स्थापनञ्च सान्निद्ध्यं सन्निरोधनम्
अवकुण्ठनमित्येते क्रिया ब्रह्ममिति स्मृतम् ॥ २ ॥

ब्रह्माविष्णुश्चरुद्रश्च ईश्वरश्च सदाशिवः
पञ्चदेवत्वमित्युक्तं तत्वब्रह्ममिति स्मृतम् ॥ ३ ॥

लकारञ्च वकारञ्च रकारञ्च यकारकम्

[[४१८]]

हकारं पञ्चबीजानि बीजब्रह्ममिति स्मृतम् ॥ ४ ॥

सद्योजातमघोरञ्च तत्पुरुषेशानमेव च
इत्येषामाननं पञ्च मुखब्रह्ममिति स्मृतम् ॥ ५ ॥

मन्त्रब्रंहक्रियाब्रंह तत्वब्रंहमिति स्मृतम्
बीजब्रंहमुखब्रंहं पञ्चब्रह्मेति कीर्तितम् ॥ ६ ॥

इति पञ्चब्रंहविधिपटलश्चतुष्षष्टितमः