०६३ मन्त्रद्रव्यहोमविधिपटलः

मन्त्रद्रव्यहोमविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण होमद्रव्यविधिक्रमम्

[[४१६]]

कूर्मासनन्तु धरणी अनन्तमुपवेदिका ॥ १ ॥

सिह्मासनं महावेदी शालियोगासनन्तथा
तण्डुलं पद्ममेवोक्तं तिलं वै विमलासनम् ॥ २ ॥

लाजं शक्त्यासनञ्चैव तदूर्ध्वे घटमर्चयेत्
शक्त्यादिशक्तिपर्यन्तं नित्यवत्पूजयेत्क्रमात् ॥ ३ ॥

गन्धपुष्पादिनापूज्य तद्वामे वर्द्धनीं यजेत्
अष्टविद्येश्वरान्स्थाप्य यथोक्तविधिना यजेत् ॥ ४ ॥

नवाग्निं वाथ पञ्चाग्निम् एकाग्निं वाथ कल्पयेत्
अग्न्याधानादिकं सर्वं पूर्वोक्तविधिमार्गतः ॥ ५ ॥

होमयेत्तत्तन्मार्गेण द्रव्याणि होमयेत्ततः
समिधस्सद्यमन्त्रेण त्रियम्बकेन मन्त्रतः ॥ ६ ॥

घृतं मिमिक्षमन्त्रेण आज्यं मूलेन होमयेत्
अघोरेण चरुं हुत्वा देवस्य त्वेति होमयेत् ॥ ७ ॥

लाजं तत्पुरुषेणैव एषामीशेतिमन्त्रतः
सक्तुं वामेतिमन्त्रेण आपो राजेति हूयते ॥ ८ ॥

क्षीरमीशानमन्त्रेण आप्यायस्वेतिमन्त्रतः
दधितत्पुरुषेणैव सोमो धेन्विति मन्त्रतः ॥ ९ ॥

गुलं वै घोरमन्त्रेण मानस्तोकेति हूयते
मधुञ्च वाममन्त्रेण मधुवाता ऋताय वै ॥ १० ॥

अपूवान्सद्यमन्त्रेण सर्वान्गायत्र्याहुनेत्
ईशानेन फलान्सर्वान् इदं विष्णुश्च मन्त्रतः ॥ ११ ॥

पाशुपतेन पत्राणि अप्सु मे सोमो अब्रवीदिति
दशाक्षरेण पुष्पाणि योपां पुष्पेण होमयेत् ॥ १२ ॥

गोधूमं पुरुषेणैव अग्न आयाहि मन्त्रतः
तिलञ्चाघोरमन्त्रेण शन्नोदेवीति हूयते ॥ १३ ॥

आढकं वाममन्त्रेण अग्निमीलेति हूयते

[[४१७]]

मुद्गं वै सद्यमन्त्रेण विश्वं भूतेन होमयेत् ॥ १४ ॥

ईशानेन तु निष्पावं कद्रुद्रायेति मन्त्रतः
सर्षपं हृदयेनैव यो रुद्रस्तदनन्तरम् ॥ १५ ॥

माषञ्च शिरसाहुत्वा एषते रुद्रमन्त्रतः
शिखया वेणुबीजञ्च नमो हिरण्यमन्त्रतः ॥ १६ ॥

चणकं कवचमन्त्रेण इषे त्वोर्जेति मन्त्रतः
नीवारं नेत्रमन्त्रेण सर्वो वै रुद्रमन्त्रतः ॥ १७ ॥

यवं वै अस्त्रमन्त्रेण जातवेदेति हूयते
मूलेनान्यानि सर्वाणि त्रियम्बकेन होमयेत् ॥ १८ ॥

घृतं मिमिक्षो घृतमित्यनेन त्रियम्बकेणैव समित्सलाजाः
चरुञ्च देवस्य सुजालजाला मेषाञ्च धत्ते जुहुयात्तिलञ्च ॥ १९ ॥

यो रुद्र इत्येवसुसर्षपञ्च मान्मान्मनिष्ये क्षतरुद्रभागः
आप्येतिनीवारमथोर्हसक्तुमाम्बोक्तसोमोऽप्यधिबिल्वपत्रम् ॥ २० ॥

अपूपजालामधुक्षीरमुद्गं वेणुञ्च बीजं मधुसोमराजम्
गायत्रिरूपञ्च इदं विष्णुमेव माया हि शन्नो जुहु इक्षुखण्डम् ॥ २१ ॥

इत्येवमन्त्रेण जुहुयाच्छताष्टौ द्रव्याणि सङ्ख्यादशान्तमेवम् ॥ २२ ॥

इति मन्त्रे द्रव्यहोमविधिपटलस्त्रिषष्टितमः