०६२ रत्नादिलिङ्गस्थापनविधिपटलः

रत्नादिलिङ्गस्थापनविधिपटलप्रारम्भः
वक्ष्ये रत्नादिलिङ्गस्य स्थापनं लोहजस्य तु

[[४११]]

बाणलिङ्गस्य लोहस्य आत्मार्त्थे च परार्त्थकम् ॥ १ ॥

आषाढज्येष्ठमासञ्च माघञ्च मार्गशीर्षकम्
अप्रशसस्तानि मासानि शस्तान्यन्यानि च स्मृतः ॥ २ ॥

इक्तमासेषु सर्वेषु शुक्लपक्षे शुभे दिने
शुभवारादिभिर्युक्ते स्थापनं तु समारभेत् ॥ ३ ॥

प्रतिष्ठादिवसात्पूर्वे नवमे सप्तमेऽपि वा
पञ्चमे वाङ्कुराण्यत्र प्रागुक्तविधिना सह ॥ ४ ॥

शुद्धदेशे मनोरम्ये देवागारे गृहेऽपिवा
शल्यं विमोचयेत्तत्र भूमिं समतलं कुरु ॥ ५ ॥

दशरन्ध्राष्टहस्तैर्वा सप्तहस्तेन वा पुनः
युगाश्रम्मण्टपं कुर्यात् षोडशस्तम्भसंयुतम् ॥ ६ ॥

गुणपङ्क्तिसमायुक्तमुच्छ्रयं पङ्क्तिमानकम्
तन्मद्ध्ये वेदिकां कुर्यात्तत्त्रिभागैकभागतः ॥ ७ ॥

नवाग्न्यायतनं वापि पञ्चाग्न्यायतनन्तु वा
कुण्डं वा स्थण्डिलं वापि अग्नेरायतनं कुरु ॥ ८ ॥

मानुषे तु पदे कुर्यात्कुण्डानि लक्षणैस्सह
दिशासु चतुरश्राणि पद्मानि विविधासु च ॥ ९ ॥

ईशानचक्रयोर्मद्ध्ये वृत्तं प्राधान्यकं कुरु
नवाग्निक्रममेवन्तु पद्मकुण्डानि वर्जयेत् ॥ १० ॥

ईशाने वृत्तकुण्डानि पञ्चहोमक्रमान्वितम्
प्राग्देशे वृत्तकुण्डन्तु एकहोमे प्रजापते ॥ ११ ॥

मण्टपस्योत्तरे स्नानश्वभ्रं कुर्यात्सलक्षणम्
हस्तमात्रन्तु विस्तारञ्चतुरश्रसमं कुरु ॥ १२ ॥

मेखला द्वयसंयुक्तम् उत्सेधन्तु नवाङ्गुलम्
चतुरश्रं प्रविस्तारमुत्तरे नालनिर्गमम् ॥ १३ ॥

नालायामसमं तस्य रन्ध्रन्तारैस्तु मेखलम्

[[४१२]]

तस्यान्ते त्ववटं कुर्यात् विस्तारं हस्तमात्रकम् ॥ १४ ॥

उद्वास्य शिल्पिनं पश्चात् गोमयेनोपलेपयेत्
मण्टपं भूषयेत्पश्चात् युगद्वारसमायुतम् ॥ १५ ॥

चतुस्तोरणसंयुक्तं गात्रवेष्टनसंयुतम्
दर्भमालासमायुक्तं वितानध्वजसंयुतम् ॥ १६ ॥

मुक्तादामैस्समायुक्तं नालिकेरफलैस्सह
तदुत्तरसमीपस्थं मण्टपञ्चतुरश्रकम् ॥ १७ ॥

जलाधिवासनस्योक्तं चतुस्तम्भैरलङ्कृतम्
वितानेनोर्ध्वमाच्छाद्य सर्वालङ्कारसंयुतम् ॥ १८ ॥

मृद्भिश्च गोमयेनैव पञ्चगव्येन शुद्धयेत्
कटारं शुद्धतोयैश्च पूरयेद्देशिकोत्तमः ॥ १९ ॥

मण्टपे चाधिवासस्य तत्कटारविभूषितम्
पञ्चमृत्पञ्चगव्यैश्च स्नापयेल्लिङ्गमुत्तमम् ॥ २० ॥

शुद्धतोयेन संस्नाप्य शुद्धैरुद्धैरिति ब्रुवन्
वस्त्रेण वेष्टयेल्लिङ्गं जलमद्ध्ये तु विन्यसेत् ॥ २१ ॥

कटारपरितोष्टौ च कलशान्स्थापयेत्क्रमात्
इन्द्रादिदिक्पतीनाञ्च पूजयेत्तु यथाक्रमम् ॥ २२ ॥

दिवैकं वाथ यामं वा सलिले चाधिवासयेत्
ब्राह्मणान्भोजयेत्पश्चात्सर्वान्सम्भोजयेत्ततः ॥ २३ ॥

गोमयालेपनं कृत्वा वास्तुहोमं ततः कुरु
पर्यग्निकरणं कृत्वा पुनः पुण्याहमाचरेत् ॥ २४ ॥

द्वारपूजादिकं सर्वं स्थापनक्रमवत्सुधीः
स्थण्डिलं कारयेद्वेद्यामष्टद्रोणैश्च शालिभिः ॥ २५ ॥

तदर्द्धैः स्थण्डिलं भूष्य तदर्द्धैश्च तिलैरपि
लाजदर्भैः परिस्थाप्य प्रोक्षयेत्पुरुषेण तु ॥ २६ ॥

जलादुत्तीर्य देवेशं स्नानश्वभ्रे तु विन्यसेत्

[[४१३]]

व्यपोह्य वेष्टितं वस्त्रं स्नापयेत्पञ्चगव्यकैः ॥ २७ ॥

घर्षयेत् भस्मनालिङ्गं पीठश्चैव क्रमेण तु
स्नापयेत्पञ्चगव्यैश्च पूजयेद्धृदयेन तु ॥ २८ ॥

कौतुकं बन्धयेद्धीमान् पूर्वोक्तविधिना सह
शुक्लवस्त्रेण संवेष्ट्य पुण्याहं वाचयेत्ततः ॥ २९ ॥

स्थण्डिलस्यैव मद्ध्ये तु शयनं पञ्चकल्पयेत्
शयने शाययेल्लिङ्गं प्राक्शिरस्कमधोमुखम् ॥ ३० ॥

पूजयेत्पुरुषेणैव वस्त्रेणैव तु वेष्टयेत्
आदाय नवकुम्भानि वर्द्धन्या सह देशिकः ॥ ३१ ॥

ससूत्रान्सापिधानांश्च सवस्त्रान्वारिपूरितान्
सकूर्चान्पल्लवोपेतान्स्थापयेत्तु क्रमेण तु ॥ ३२ ॥

शिरः प्रदेशे लिङ्गस्य शिवकुम्भञ्च वर्द्धनीम्
रत्नादिशिवकुम्भे तु वर्द्धन्यां हैमकं क्षिपेत् ॥ ३३ ॥

सदाशिवं यजेत्कुम्भे शिवमन्त्रेण देशिकः
मनोन्मनीन्तु वर्द्धन्यान्तन्मन्त्रेणैव विन्यसेत् ॥ ३४ ॥

अभितोष्टघटान्यस्त्वा हैमेन टङ्कशूलधृक्
विद्येशानां सुमन्त्रेण पूजयेत्तु क्रमेण तु ॥ ३५ ॥

गन्धपुष्पादिभिः पूज्य नैवेद्यं दापयेत्पृथक्
एवं संस्नाप्य विधिना पश्चाद्धोमं समाचरेत् ॥ ३६ ॥

ततः परं यागशालां सम्प्रोक्ष्य हृदयेन तु
विघ्नेशं पूजयेत्पूर्वं सङ्कल्पञ्च क्रमेण तु ॥ ३७ ॥

पुण्याहं वाचयित्वा तु पञ्चगव्येन सेचयेत्
भास्करं पूजयेत्पूर्वमेकावरणसंयुतम् ॥ ३८ ॥

प्रणवार्घ्यञ्च सम्पाद्य तोरणादिषु पूजयेत्
अग्न्याधानादिकं सर्वम् अग्निकार्योक्तमार्गतः ॥ ३९ ॥

अग्निकार्योक्तमार्गेण शिवाग्निं परिकल्पयेत्

[[४१४]]

अश्वत्थोदुम्बरप्लक्षवटाः पूर्वादिदिक्षु वै ॥ ४० ॥

शमीखदिरमायूरं श्रीवृक्षञ्च विदिक्षु वै
प्रधानस्य पलाशन्तु समिधस्सम्प्रकीर्तिताः ॥ ४१ ॥

सद्येनैव तु मन्त्रेण समिधाहुतिमाचरेत्
मूलेन जुहुयादाज्यमन्नं वामेन होमयेत् ॥ ४२ ॥

धान्न्यकं हृदयेनैव सर्षपं कवचेन तु
तिलमस्त्रेण जुहुयान्नेत्रेणैव यथा हुनेत् ॥ ४३ ॥

वैणवं शिरसाहुत्वा शालिञ्च शिखया हुनेत्
शतमर्द्ध तदर्द्धं वा प्रत्येकं जुहुयात्क्रमात् ॥ ४४ ॥

द्रव्यान्ते व्याहृतिं हुत्वा स्पृष्ट्वा लिङ्गन्तु होमयेत्
एवञ्जागरणं रात्रौ प्रभाते स्थापनं कुरु ॥ ४५ ॥

आचार्यो मूर्तिपैस्सार्द्धं स्नानं कृत्वा यथा विधि
अङ्गन्यासकरन्यासं पूर्वोक्तविधिना कुरु ॥ ४६ ॥

लिङ्गं सम्पूज्य गन्धाद्यैः कुम्भान्सम्पूजयेद्धृदा
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत् ॥ ४७ ॥

पूर्णाहुतिञ्च शिरसा स्विष्टमग्नेति होमयेत्
आचार्यं पूजयेद्धीमान्वस्त्रहेमाङ्गुलीयकैः ॥ ४८ ॥

दक्षिणान्दापयेत्पश्चात्प्रागुक्तविधिना सह
मूर्तिपान्दापयेत्पश्चात्तत्तत्स्थापनमारभेत् ॥ ४९ ॥

शयनाल्लिङ्गमुद्धृत्य स्नानवेद्यान्तु विन्यसेत्
मूर्द्धादिपादपर्यन्तं कलान्यासं समारभेत् ॥ ५० ॥

सुमुहूर्ते सुलग्ने च मन्त्रन्यासं समारभेत्
शिवकुम्भं समुद्धृत्य वर्द्धन्यां सहकुम्भकैः ॥ ५१ ॥

लिङ्गाग्रे स्थण्डिलोर्ध्वे तु विन्यसेद्देशिकोत्तमः
स्थापकोदङ्मुखो भूत्वा लिङ्गन्तु प्राङ्मुखं कुरु ॥ ५२ ॥

कुम्भात् बीजं समादाय लिङ्गस्य शिरसि न्यसेत्

[[४१५]]

वर्द्धन्यान्तु मनोन्मन्यां बीजं पीठे तु विन्यसेत् ॥ ५३ ॥

अनन्तादिशिखण्ड्यन्तानष्टविद्येश्वरान्क्रमात्
इन्द्राद्यैशानपर्यन्तं पीठे चैव तु विन्न्यसेत् ॥ ५४ ॥

एकावरणमार्गेण पूजयेद्देशिकोत्तमः
स्नपनं कारयेत्पश्चात् यथावित्तानुसारतः ॥ ५५ ॥

अर्चनोक्तं समभ्यर्च्य प्रभूतहविषन्ददेत्
ताम्बूलन्दापयेत्पश्चात् मुखवाससमन्वितम् ॥ ५६ ॥

एवन्तु बाणलिङ्गन्तु स्थापयेदादिशैवकः
मन्त्रमुद्रा क्रियाश्चैव शिष्यस्योपदिशेद्गुरुः ॥ ५७ ॥

पश्चाल्लिङ्गं ददेत्तस्य शिष्यस्य देशिकोत्तमः
नमस्कृत्वा गुरुं स्वस्ति लिङ्गमादाय बुद्धिमान् ॥ ५८ ॥

तद्दिनान्मरणान्तन्तु तल्लिङ्गपूजनं कुरु
त्रिकालं वा द्विकालं वा एककालमथापि वा ॥ ५९ ॥

पूजयेत्तु क्रमेणैव अर्चनोक्तक्रमात्सुधीः
परार्त्थं गर्भगेहस्थं पीठं संस्थापयेद्दृढम् ॥ ६० ॥

तत्र रत्नादिविन्यासं चलेपीठे च पूर्ववत्
बालस्थाने गतं वाथ बालाद्यं मूलधामनम् ॥ ६१ ॥

स्थापयेदविचारेण तल्लिङ्गं न विसर्जयेत्
शिलावृक्षमयं बाणं स्थाप्य तत्रैव वास्तुनि ॥ ६२ ॥

तस्यामुद्वाह्य बाणादौ मूलस्थाने शिवं न्यसेत्
बालस्थानगतं लिङ्गं विधिना तं विसर्जयेत् ॥ ६३ ॥

एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ ६४ ॥

इति रत्नादिलिङ्गस्थापनविधिपटलो द्विषष्टितमः