बलिपीठप्रतिष्ठाविधिपटलप्रारम्भः
बलिपीठप्रतिष्ठां तु प्रवक्ष्यामि प्रजापते
पूर्वे वा पश्चिमे वापि पूर्ववन्मण्टपं कुरु ॥ १ ॥
तन्मद्ध्ये वेदिकां कुर्यात् हस्तद्वयप्रमाणतः
तालमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥ २ ॥
कुण्डानि परितः कुर्यात् चतुर्दिक्षु युगाश्रकम्
पीठञ्च मण्टपञ्चैव पुण्याहं वाचयेत्ततः ॥ ३ ॥
स्थण्डिलं कारयेद्वेद्यामष्टद्रोणैश्च शालिभिः
तस्योर्ध्वे नलिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ ४ ॥
लाजपुष्पतिलैर्दर्भैर्विकिरैस्समलङ्कृतम्
रसकुम्भान्समादाय द्रोणतोयप्रपूरितान् ॥ ५ ॥
ससूत्रान्सापिधानांश्च सकूर्चान्वस्त्रवेष्टितान्
गन्धाम्बपूरितांस्तत्र वेद्यूर्ध्वे स्थापयेद्बुधः ॥ ६ ॥
पूर्वादिषु चतुर्दिक्षु मद्ध्ये वैशानगोचरे
अविघ्नं मद्ध्यकुम्भे तु आमोदं पूर्वकुम्भकम् ॥ ७ ॥
प्रमोदं याम्यकुम्भे तु प्रमुखं वरुणेऽपि च
दुर्मुखं सोमकुम्भे तु विघ्नकर्तारमीशके ॥ ८ ॥
स्वनामाद्यक्षरेणैव बिन्दुनादसमन्वितम्
कुम्भमद्ध्ये न्यसेद्धीमान् तत्तद्रूपन्तु भावयेत् ॥ ९ ॥
आमोदं श्यामवर्णन्तु प्रमोदं कृष्णवर्णकम्
प्रमुखस्फटिका भासो दुर्मुखः कुङ्कुमप्रभः ॥ १० ॥
अविघ्नो विद्रुमाभासो विघ्नकर्तञ्जनप्रभाः
द्विभुजाश्च द्विनेत्राश्च टङ्कपाशधरास्तथा ॥ ११ ॥
उग्रदृष्टिसमायुक्ता भीमरूपामहाबलाः
[[४१०]]
सर्वाभरणसंयुक्ता नागयज्ञोपवीतकाः ॥ १२ ॥
प्रासादाभिमुखास्सर्वे तीक्ष्णदंष्ट्रोद्धटाननाः
सम्पूज्य गन्धपुष्पाद्यैर्नैवेद्यान्तं हृदाबुधः ॥ १३ ॥
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
समिदाज्य चरून्लाजान्सर्षपञ्च तिलं तथा ॥ १४ ॥
अविघ्नाङ्गैश्च मन्त्रैश्च क्रमेणैव तु होमयेत्
शतमर्द्धं तदर्द्धं वा प्रत्येकञ्जुहुयात्क्रमात् ॥ १५ ॥
द्रव्यान्ते व्याहृतिं हुत्वा तेषां मूलैः पृथक्पृथक्
आज्येन जुहुयाद्धीमानष्टोत्तरशतं क्रमात् ॥ १६ ॥
एवं जागरणं रात्रौ प्रभातेस्थापनं कुरु
जयादिरभ्याधानञ्च क्रमाद्राष्ट्रभृतं हुनेत् ॥ १ ॥
॥ ७ ॥
पूर्णाहुतिञ्च शिरसा स्विष्टान्तं होममाचरेत्
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः ॥ १८ ॥
निष्कत्रयन्ददेत्पश्चान्मूर्तिपान्सम्प्रपूजयेत्
सुमुहूर्त्ते शुभे लग्ने स्थापयेद्देशिकोत्तमः ॥ १९ ॥
अविघ्नं कर्णिकामद्ध्ये आमोदं पूर्वदिग्दले
दले याम्ये प्रमोदं तु प्रमुखं पश्चिमे दले ॥ २० ॥
दुर्मुखं तु दले सौम्ये विघ्नकर्त्तारमीशके
कुम्भेभ्यो बीजमादाय तत्तत्स्थानेषु विन्यसेत् ॥ २१ ॥
तज्जलैरभिषेकं तु कारयेद्देशिकोत्तमः
पूजयेत् गन्धपुष्पाद्यैर्नैवेद्यां तं हृदा बुधः ॥ २२ ॥
एवं यः कुरुते मत्तर्यस्सपुण्यां गतिमाप्नुयात् ॥ २३ ॥
इति बलिपीठप्रतिष्ठाविधिपटल एकषष्टितमः