०६० परिवारस्थापनविधिपटलः

परिवारस्थापनविधिपटलप्रारम्भः

[[३९९]]

स्थापनं परिवाराणां वक्ष्ये लक्षणपूर्वकम्
परितो हर्म्यबाह्ये तु परिवाराणि कल्पयेत् ॥ १ ॥

अन्तर्मण्डलके कुर्यादैशे चण्डेश्वरालयम्
श्रीकराख्यविमाने तु चण्डेशं स्थापयेद्बुधः ॥ २ ॥

प्राकारे तु द्वितीये तु परिवाराष्टकल्पयेत्
प्राकारभित्तिसंयुक्तं चान्तरालाश्रितन्तु वा ॥ ३ ॥

स्थापयेत्परिवाराणि आलयैश्च समन्वितम्
पूर्वपश्चिममार्गेण दक्षिणोत्तरमार्गतः ॥ ४ ॥

अन्तर्हारात्तु परितो मद्ध्ये सूत्रन्तु पातयोः
हर्म्यमद्ध्याच्चतुर्दिक्षु कारयेत्सूत्रपातनम् ॥ ५ ॥

सूत्रमद्ध्याद्विमानानां मद्ध्याच्चेति प्रकीर्तिताः
मूलगर्भप्रमाणेन परिवारालयं कुरु ॥ ६ ॥

मन्दिरार्द्धसमं वापि तद्गर्भार्द्धसमन्तु वा
विस्तारद्विगुणोत्सेधमालयानां विधीयते ॥ ७ ॥

तत्तारगुणभागैकं गर्भन्तत्र प्रकल्पयेत्
द्विभुजे दशधातारं रसांशं वाथ गर्भकम् ॥ ८ ॥

स्थापयेद्वृषभं पूर्वे त्वगस्त्यं वह्निगोचरे
याम्ये कात्यायनी प्रोक्तं नैर्ऋत्यान्तु गणेश्वरम् ॥ ९ ॥

ब्रह्माणं वारुणे देशे वायव्याञ्चैव षण्मुखम्
केशवं सौम्यदिग्भागे ऐशान्न्यां भास्करन्तथा ॥ १० ॥

मण्टपन्तु चतुर्द्वारं कर्त्तव्यं वृषभालयम्
पाकालयं पावके तु दुर्गालयञ्च स्वस्तिकम् ॥ ११ ॥

गजपृष्ठे तु नैर्ऋत्यां ब्रह्मणः पूर्वतो मुखम्
कुक्कुटाण्डं गुहस्योक्तं विष्णोः कान्तं हरेः कुरु ॥ १२ ॥

नन्द्यावर्त्तमथैशान्न्यां पूर्वोक्तविधिना कुरु
पश्चिमद्वारहर्म्ये तु स्थापयेद्वारुणं वृषम् ॥ १३ ॥

[[४००]]

ब्रह्माणं पूर्वदेशे तु स्थापयेद्देशिकोत्तमः
न्यसेन्मद्ध्यादिभित्तौ च परिवाराणि षोडश ॥ १४ ॥

दक्षिणोत्तरमार्गेण पूर्वपश्चिममार्गतः
तत्प्रकारयुर्त्थं स्यान्मद्ध्यसूत्रन्तु पातयेत् ॥ १५ ॥

एवन्तु परितः कल्प्य दिक्सूत्रं पूर्ववत्कुरु
स्थापयेत्सूत्रमद्ध्ये तु आलयैश्च समन्वितम् ॥ १६ ॥

स्थापयेत्स्वस्वदेशे तु चक्रादीन्लोकपालकान्
अश्विनी सप्तमातॄश्च वागीशीङ्कमलोद्भवाम् ॥ १७ ॥

ज्येष्ठाञ्चैवोरगेन्द्रञ्च क्षेत्रपालं रविं क्रमात्
ऐन्द्राग्नेयञ्च मद्ध्यादिष्वन्तराले तु विन्न्यसेत् ॥ १८ ॥

मण्टपा कृतिकं वापि सभाकृतिमथापि वा
नन्द्यावर्त्तविमानं वा सर्वेषान्तु प्रकल्पयेत् ॥ १९ ॥

मातॄणाञ्च विशेषेण कल्पयेत् मन्दिरं शुभम्
ईशानात्पावकान्तञ्च मन्दिरं पश्चिमाननम् ॥ २० ॥

नैर्ऋत्याद्यनिलान्तञ्च प्राङ्मुखमञ्चास्त्रमन्दिरम्
दक्षिणस्थमुत्तराभिमुखञ्चैव प्रकल्पयेत् ॥ २१ ॥

सर्वाण्यौत्तरवेश्मानि दक्षिणाशामुखानि वै
बिम्बोच्चं परिवाराणां सर्वेषान्तु विधीयते ॥ २२ ॥

पूजाभागसमं वापि चाद्ध्यर्द्धद्विगुणन्तु वा
परिवारालयद्वारस्यायामन्तु त्रिधा भवेत् ॥ २३ ॥

बिम्बोदयन्तु पक्षांशं व्योमांशं पिण्डिकोदयम्
प्रतिमालक्षणोपेतमार्गेण सर्वमाचरेत् ॥ २४ ॥

प्रतिमानामभावे तु पीठं वा कल्पयेत्सुधीः
विमानेन युतं वापि हीनं वा स्थापयेत्सुधीः ॥ २५ ॥

पक्षतालप्रविस्तारमुत्सेधन्तु तदर्द्धकम्
द्विमेखलासमायुक्तमेकैकञ्चतुरङ्गुलम् ॥ २६ ॥

[[४०१]]

उत्सेधन्तत्समं ज्ञेयं तन्मद्ध्येब्जन्तु कारयेत्
षडङ्गुलप्रमाणेन पद्मां कुर्याद्दलाष्टकम् ॥ २७ ॥

अग्न्यङ्गुलप्रमाणेन तन्मद्ध्ये कर्णिकां कुरु
वृत्तं वा चतुरश्रं वा एवं पीठन्तु कारयेत् ॥ २८ ॥

अथवान्यप्रकारेण परिवारस्थानमुच्यते
दण्डाग्रन्तु परिग्राह्य परितोष्टसुदिक्षु च ॥ २९ ॥

इन्द्रादिलोकपालानान्तत्तत्स्थानेषु कल्पयेत्
द्विमेखलासमायुक्तं पीठं पूर्वोक्तवत्कुरु ॥ ३० ॥

प्रतिमाकारनेष्टन्तु आलयानां विना कुरु
शतमखस्य तु देशस्तु कल्पोक्षस्य तु पृष्ठतः ॥ ३१ ॥

अन्तर्हारस्तु परितो देवानां स्थानमुच्यते
ऐन्द्रईशानयोर्मद्ध्ये भास्करस्य तु देशकम् ॥ ३२ ॥

पावके वाग्निदेशस्तु मातॄणान्तु यमस्तथा
नैर्ऋत्यान्दिशि विघ्नेशं सुब्रंहण्यस्य वारुणे ॥ ३३ ॥

पाशिनैर्ऋतयोर्मद्ध्ये विघ्नेशं स्याहिदेशकम्
लक्ष्मीञ्चैव तु वाग्देवीं ध्वजज्येष्ठां तथैव च ॥ ३४ ॥

होमदुर्गास्त्विति ख्याता ऐशान्यां क्षेत्रवालकाः
पूर्वोक्तविधिना चैव लक्षणञ्चालयं कुरु ॥ ३५ ॥

मद्ध्ये तु मद्ध्यहारायां बलिपीठं प्रकल्पयेत्
षोडशैः परिवारैश्च महामर्यादिमद्ध्यमे ॥ ३६ ॥

बलिपीठं गुरुर्द्धीमान् लक्षणोक्तक्रमेण तु
महागोपुरबाह्ये तु दण्डद्वयान्तिके ततः ॥ ३७ ॥

कुर्यात्पैशाचिकं पीठं सर्वलक्षणसंयुतम्
अथवान्न्यप्रकारेण पीठस्थानं विधीयते ॥ ३८ ॥

मूलप्रासादविस्तारं यत्तद्दण्डमिहोच्यते
प्रासादन्तु समारभ्य रसदण्डान्तिकेऽपि वा ॥ ३९ ॥

[[४०२]]

रुद्रदण्डान्तिके चैव मनुदण्डान्तिकेऽपि वा
कारयेत्तत्र पीठानि पीठलक्षणमुच्यते ॥ ४० ॥

गर्भागारार्द्धविस्तारमुत्सेधद्वित्र्यरक्तिभिः
द्वारोच्चमष्टधा कृत्वा रसांशं पीठतारकम् ॥ ४१ ॥

उत्सेधन्तत्समं ज्ञेयं द्वारायामप्रमाणतः
कारयेन्मद्ध्यपीठन्तु उत्सेधन्तत्समं भवेत् ॥ ४२ ॥

तस्य चार्द्धप्रमाणेन बाह्यपीठन्तु कारयेत्
विस्तारसममायामं त्रिसप्तधा भजेत्तु तम् ॥ ४३ ॥

उपानञ्जगती कुम्भं फुल्लं कर्णञ्च पट्टिका
महापट्टी च पट्टी च दलं वै कर्णिकां क्रमात् ॥ ४४ ॥

इन्द्रतुर्याग्निकाश्वग्निखाश्विनीन्तु गुणाश्विनीम्
भद्रपीठं समाख्यातं पद्मपीठमथ श्रुणु ॥ ४५ ॥

पूर्ववद्विभजेदायञ्जन्मव्योमांशमुच्यते
जगतीदलयुग्मांशेन व्योमांशं पद्ममुच्यते ॥ ४६ ॥

गुणांशं कुमुदं प्रोक्तन्तस्योर्द्ध्वंेशेन कम्पकम्
पक्षांशेनैव कण्ठन्तु व्योमांशेनोर्द्ध्वकम्पकम् ॥ ४७ ॥

अंशेनाब्जन्तु तस्योर्द्ध्वे महापट्टी द्वयांशतः
त्र्यंशेनाब्जदलं प्रोक्तं पक्षांशेनैव कर्णिका ॥ ४८ ॥

पद्मपीठं समाख्यातं प्रोच्यते पुष्पपुष्कलम्
पञ्चविंशद्भजेदाय मेकांशं जन्ममुच्यते ॥ ४९ ॥

अद्ध्यर्द्धांशमधः पद्मं कुम्भमद्ध्येन कारयेत्
जगती च युगांशेन एकेनाथ सरोणुहम् ॥ ५० ॥

एकांशेनैव कम्पन्तु अग्न्यंशं कर्णमुच्यते
कर्णिकार्द्धार्द्धभागेन एतच्चाधसरोरुहम् ॥ ५१ ॥

अर्द्धांशेनैव कम्पन्तु अग्न्यंशं कण्ठमुच्यते
कम्पमर्द्धेन कर्तव्यमर्द्धेनापि सरोरुहम् ॥ ५२ ॥

[[४०३]]

पक्षांशेन महापट्टी अर्द्धेनोर्ध्वाब्जमुच्यते
अर्द्धांशेनैव कम्पन्तु अग्न्यंशेन दलं भवेत् ॥ ५३ ॥

कर्णिकाद्ध्यर्द्धभागेन एतत्स्यात्पुष्पपुष्कलम्
पूर्ववद्विभजेदायमेकेनोपानमुच्यते ॥ ५४ ॥

अधः पद्मद्विभागैकं कम्पमेकेन कारयेत्
जगती चतुरंशेन अर्द्धेनाथ सरोरुहम् ॥ ५५ ॥

अर्द्धांशेनैव कम्पन्तु अर्द्धेनोर्ध्वसरोरुहम्
वप्रं सार्द्धद्विभागेन अर्द्धेनाथ सरोरुहम् ॥ ५६ ॥

अर्द्धांशेनैव कम्पन्तु द्विभागं कर्णमुच्यते
अर्द्धांशेनोर्ध्वकम्पन्तु अर्द्धांशेनोर्ध्वपद्मकम् ॥ ५७ ॥

द्विभागेन कपोतन्तु अर्द्धेनालिन्दपट्टिका
अर्द्धेनान्तरितं प्रोक्तं प्रतिरर्द्धांशमुच्यते ॥ ५८ ॥

कम्पमर्द्धेन कर्तव्यं पक्षांशेनैव पद्मकम्
कर्णिका च द्विभागेन एतत् श्रीकरमुच्यते ॥ ५९ ॥

श्रीकरं पीठमाख्यातं श्रुणु पुष्कलपीठकम्
एकविंशत् भजेदायमंशेनोपानमुच्यते ॥ ६० ॥

अद्ध्यर्द्धांशेन पद्मन्तु जगती सार्द्धद्व्यङ्गुलम्
पद्मकः परितोर्ध्वेन पक्षांशं कुमुदं भवेत् ॥ ६१ ॥

अर्द्धांशेनोर्ध्वपद्मन्तु कम्पमर्द्धेन कारयेत्
कर्णं कुर्याद्गुणांशेन अर्द्धेनोर्ध्वाब्जमुच्यते ॥ ६२ ॥

पद्मं मद्ध्येन कर्तव्यमद्ध्यर्द्धेन कपोतकम्
एकेन वाजनं कुर्यात्प्रतिमैकेन कारयेत् ॥ ६३ ॥

त्र्यंशेनाब्जदलं कुर्यात्पक्षांशेनैव कर्णिका
ग्रीवासु युगकोणेषु पादयुक्तं प्रकल्पयेत् ॥ ६४ ॥

नासिका पञ्चकैर्युक्तं हर्म्यपञ्जरकैस्तु वा
भूतं कुर्याच्चतुर्दिक्षु नानालीलासमायुतम् ॥ ६५ ॥

[[४०४]]

चतुष्कोणेषु कर्तव्यं वृषभं प्रस्तरोपरि
तस्यैव दक्षिणे भागे सोपानं गजहस्तकम् ॥ ६६ ॥

पुष्कलाख्यं समाख्यातं श्रुत्यश्रं वर्तुलन्तु वा
वस्वश्रं वापि पीठानि कारयेत्तु विशेषतः ॥ ६७ ॥

उपवीठोर्ध्वके वापि अथवा फलकोपरि
पीठाधाराष्टभागैकमुपपीठोच्चमुच्यते ॥ ६८ ॥

पीठलक्षणमेवं स्यात् वृषभस्थानमुच्यते
पीठाद्दण्डद्वयं त्यक्त्वा तस्याग्रे स्थापयेद्वृषम् ॥ ६९ ॥

अथवान्यप्रकारेण वृषस्थानं विधीयते
गुणहस्तान्तरं वापि पक्षहस्तान्तरन्तु वा ॥ ७० ॥

पीठाग्रे तु प्रकर्तव्यं तस्य लक्षणमुच्यते
उत्तमं लोहजं प्रोक्तं शैलजं मद्ध्यमं भवेत् ॥ ७१ ॥

मृण्मयं चाधमं प्रोक्तं त्रिविधं परिकीर्तितम्
प्राकारे तु द्वितीये तु अल्पोक्षं परिकल्पयेत् ॥ ७२ ॥

अन्न्ययोः स्थानयोश्चैव महोक्षं कारयेत्सुधीः
पूजाभागसमायाममल्पोक्षायाममुत्तमम् ॥ ७३ ॥

तदर्द्धं मद्ध्यमं ज्ञेयं तदर्द्धं कन्न्यसं भवेत्
तत्समन्तु त्रयं मानं कल्पयेद्देशिकोत्तमः ॥ ७४ ॥

शुद्धद्वारन्तु नवधा कृत्वाब्ध्यंशेन दैर्घ्यकम्
एतन्मद्ध्य वृषस्येतु द्विगुणं बाह्यके वृषम् ॥ ७५ ॥

लोहेनोक्षं प्रकर्तव्यं स्थितं वा शयनन्तु वा
शैलेन मृण्मयेनैव शयनञ्चैव कारयेत् ॥ ७६ ॥

वक्त्रन्तु युगभागन्तु गुणभागन्तु नासिका
भागं स्याच्छृङ्गमूलन्तु द्विभागेनान्तरद्वयोः ॥ ७७ ॥

नेत्रं पक्षाङ्गुलं ज्ञेयं विस्तारं त्वम्बराङ्गुलम्
श्रोत्रनेत्रान्तरं भागं श्रृङ्गमानं युगाङ्गुलम् ॥ ७८ ॥

[[४०५]]

मुखं वस्वङ्गुलं ज्ञेयं विस्तारन्तु चतुर्दश
कर्णमूलकला प्रोक्ता धर्माङ्गुलन्तु दैर्घ्यकम् ॥ ७९ ॥

ग्रीवावस्वङ्गुला प्रोक्ता कलाङ्गुलं ककुद्भवेत्
धर्माङ्गुलन्तु जङ्घा च तदूर्ध्वे च चतुष्कला ॥ ८० ॥

गुल्फं रसाङ्गुलं ज्ञेयं त्र्यङ्गुलं खुरमुच्यते
जङ्घा तु पश्चिमा पञ्च कलोर्ध्वन्तु कलाधिकम् ॥ ८१ ॥

वालं स्यात्पादमूलान्तं चतुरङ्गुलविस्तृतम्
मूलं पक्षाङ्गुलन्तारमग्रं व्योमाङ्गुलं भवेत् ॥ ८२ ॥

वृषणौ द्व्यङ्गुलायामौ विस्तारन्तु द्विभागकम्
शेषं युक्त्या प्रकर्तव्यं प्रोच्यते वृषलक्षणम् ॥ ८३ ॥

एवं प्रोक्तं प्रमाणन्तु स्थापनञ्चाधुना श्रुणु
परिवारालयाग्रे तु मण्टपं लक्षणान्वितम् ॥ ८४ ॥

नवहस्तमष्टहस्तं वा सप्तहस्तमथापि वा
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव वा ॥ ८५ ॥

कृत्वा मण्टपमद्ध्ये तु त्रिभागैकेन वेदिका
कलाङ्गुलसमायामादर्पणोदरसन्निभा ॥ ८६ ॥

परितश्चाग्निकुण्डानि महाशासु प्रकल्पयेत्
चतुरश्रन्धनुर्वृत्तं कोणं पूर्वादितः क्रमात् ॥ ८७ ॥

हस्तमात्रप्रविस्तारं मेखलात्रयसंयुतम्
नाभियोनिसमायुक्तं कारयेल्लक्षणान्वितम् ॥ ८८ ॥

एकाग्निं वाथ कुर्वीत प्रासादस्याग्रके बुधः
वर्त्तुलन्नलिनं योनिं भूताश्रन्तु युगाश्रकम् ॥ ८९ ॥

त्रिकोणञ्चैव वस्वश्रमष्टाश्रन्तु क्रमेण तु
वृषादिभास्करान्तानां कारयेद्देशिकोत्तमः ॥ ९० ॥

रत्नन्यासं प्रकर्तव्यं पूर्वोक्तविधिना ततः
नयनं मोक्षणं कुर्यात् नेत्रद्वययुते दिने ॥ ९१ ॥

[[४०६]]

पक्ष्मरेखां पुरा कृत्वा ततो वै कृष्णमण्डलम्
ज्योतिर्मण्टयमालिख्य नेत्रमन्त्रमुदाहरन् ॥ ९२ ॥

लेपयेद्धृदयेनैव मधुना च घृतेन च
मृदाम्भसा तु संस्नाप्य गव्येनैवाभिषेचयेत् ॥ ९३ ॥

पुण्याहं वाचयित्वा तु प्रोक्षयेत्पुरुषेण तु
लोहजं शैलजञ्चेत्तु कुर्याज्जलाधिवासनम् ॥ ९४ ॥

जलमद्ध्ये प्रपां कृत्वा चतुर्गात्रसमन्वितम्
वस्त्रेणावेष्ट्यबिम्बानि कण्ठमात्रे जले ततः ॥ ९५ ॥

शाययेत्तु त्रिरात्रं वा एकं वा युगयामकम्
ब्राह्मणान्भोजयेत्पश्चाद्यथावित्तानुसारतः ॥ ९६ ॥

मण्टपं भूषयेत्पश्चाद्यथावित्तानुसारतः
मण्टपं भूषयेत्पश्चाद्वितानाद्यैर्विशेषतः ॥ ९७ ॥

पुण्याहं वाचयेत्तत्र स्वस्तिसूक्तन्तु वाचयेत्
स्थण्डिलं कारयेद्वेद्या मण्टद्रोणैस्तु शालिभिः ॥ ९८ ॥

लाजपुष्पतिलैर्दर्भैर्विकिरैस्समलङ्कृतम्
जलादुत्तीर्य बिम्बानि शुद्धिं कृत्वा तु पूर्ववत् ॥ ९९ ॥

कौतुकं बन्धयेत्पश्चात्सद्यमन्त्रेण देशिकः
शयनं वस्त्रकाशाभ्यां कल्पयेत्स्थण्डिलोपरि १००
शाययेत्तत्र बिम्बन्तु प्राक्शिरश्चोर्द्ध्ववक्त्रकम्
वस्त्रेणाच्छाद्य बिम्बन्तु पूजयेद्धृदयेन तु १०१
सर्वलक्षणसंयुक्तं द्रोणतोयं प्रपूरयेत्
सूत्रकूर्च्चविधानाढ्यं सोदकं वस्त्रसंयुतम् १०२
बिम्बस्य तु शिरोभागे स्थापयेद्व्योमकुम्भकम्
ध्यात्वा तु तत्स्वरूपाणि तत्तत्कुम्भे तु देशिकः १०३
तेषां बीजानि विन्न्यस्य पूजयेयुर्हृदा तथा
वर्गस्य पञ्चमस्यैव चतुर्त्थं ग्राह्यबुद्धिमान् १०४

[[४०७]]

सप्तमस्वरसंयुक्तं वृषबीजमिति स्मृतम्
आद्यस्वरमिति प्रोक्तमगस्त्यस्य तु बीजकम् १०५
पञ्चमस्य तृतीयेन पञ्चमस्वरसंयुतम्
दुर्गाबीजमिति प्रोक्तं कान्तन्तेनाद्यकस्वरम् १०६
एतत् विघ्नेशबीजन्तु षष्ठस्य तु तृतीयकम्
यान्तेनाद्यस्वरोपेतं ब्रह्मबीजमिति स्मृतम् १०७
अष्टमस्य तृतीयेन पञ्चमस्वरसंयुतम्
सुब्रह्मण्यस्य बीजन्तु सप्तमस्य चतुर्त्थकम् १०८
मायाबीजेन संयुक्तं विष्णुबीजमिति स्मृतम्
अष्टवर्गचतुर्त्थन्तु द्वितीयस्वरसंयुतम् १०९
सूर्यबीजमिति प्रोक्तं सर्वसिद्धिकरं परम्
कार्यकारणसंयुक्तास्सर्वे मन्त्राः प्रजापते ११०
तेषामाद्यक्षरेणैव ब्रह्माङ्गानि प्रकल्पयेत्
पञ्चब्रह्माणि ह्रस्वाश्च षडङ्गाश्चैव दीर्घकाः १११
अस्त्रं विसर्गसंयुक्तं सानुस्वारन्तु नेत्रकम्
प्रणवादि नमोन्ताश्च मन्त्रास्सर्वे प्रकीर्तिताः ११२
नैवेद्यन्दापयित्वा तु पश्चाद्धोमं समाचरेत्
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ११३
पलाशोदुम्बराश्वत्थवटाः पूर्वादितः क्रमात्
समिदाज्य चरून्लाजान्सर्षपञ्च क्रमेण तु ११४
सद्यादिब्रह्ममन्त्रैश्च जुहुयुर्वै क्रमेण तु
शतमर्द्धन्तदर्द्धं वा प्रत्येकञ्जुहुयात्ततः ११५
द्रव्यान्ते व्याहृतिं हुत्वा स्पृशेयुर्हुतमन्त्रकैः
व्यपोह्य रात्रिशेषन्तु प्रभाते विमले ततः ११६
आचार्यो मूर्तिपैस्सार्द्धं स्नानं कृत्वा विशेषतः
कुम्भञ्च प्रतिमाञ्चैव पूजयेयुर्हृदा तथा ११७

[[४०८]]

जयादिरभ्याधानञ्च राष्ट्रभृज्जुहुयुः क्रमात्
मूलमन्त्रैश्च जुहुयुः प्रत्येकं शतसङ्ख्यया ११८
आचार्यं पूजयेत्पश्चात्वस्त्रहेमाङ्गुलीयकैः
निष्कत्रयन्ददेद्धीमान्प्रत्येकं तु विशेषतः ११९
पूजयेत् मूर्तिधारांश्च भक्तान्सम्पूजयेत्ततः
मुहूर्त्तनाडिका पूर्वे स्थापनं तु समारभेत् १२०
प्रासादाभ्यन्तुरे तत्तन्मानुषप्रतिमान्न्यसेत्
सुस्निग्धं कारयित्वा तु पुण्याहं वाचयेत्ततः १२१
पूर्णाहुतिञ्च शिरसा यदस्येति तदन्तिके
जुहुयुर्वै क्रमेणैव पश्चादग्निं विसर्जयेत् १२२
मुहूर्ते समनुप्राप्ते स्थापकं स्थापनं कुरु
तत्तत्कुम्भं समुद्धृत्य स्थाप्यबिम्बाग्रकेषु च १२३
न्यासं क्रमेण विन्न्यस्य पञ्चब्रंहषडङ्गकान्
बीजान्यादाय कुम्भेभ्यो न्यसेयुर्बिम्बहृत्सु च १२४
यजेयुर्गन्धपुष्पाद्यैर्नैवेद्यां तं हृदा क्रमात्
अत्राष्टपरिवाराणां प्रोक्तं स्थापनमुत्तमम् १२५
स्थापनं परिवाराणां षोडशानां श्रुणुष्वथ
मूर्तीनाञ्चैव सर्वेषां प्रत्येकं व्योमकुण्डकम् १२६
सर्वेषां चतुरश्रं तु कारयेद्विधिपूर्वकम्
मूर्तीनाञ्चैव सर्वेषां प्रत्येकं व्योमकुम्भकम् १२७
स्वनामाद्यक्षरं तेषां बिन्दुनादसमन्वितम्
प्रणवादिनमोन्तञ्च सर्वेषां मन्त्रमुच्यते १२८
एतेषाञ्च विशेषाणि यत एव विधीयते
अन्न्यानि सर्वकार्याणि आचरेत्प्रोक्षमार्गतः १२९
भक्तानाञ्चैव सर्वेषां तथैव स्थापनं कुरु
एवं यः कुरुते मर्त्यस्स पुण्यां गतिमाप्नुयात् १३०

[[४०९]]

इति परिवारस्थापनविधिपटलष्षष्टितमः