०५९ लिङ्गस्थापनविधिपटलः

लिङ्गस्थापनविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेण लिङ्गस्थापनमुत्तमम्
धन्न्यं शस्करञ्चायुवर्द्धनं पुत्रवृद्धिदम् ॥ १ ॥

भुक्तिदं मुक्तिदं सर्वदानयज्ञफलप्रदम्
अयने दक्षिणे नेष्टं प्रशस्तञ्चोत्तरायणे ॥ २ ॥

शुक्लपक्षे चतुर्त्थी च अष्टमी च चतुर्दशी
नवमी प्रतिपच्चैव पञ्चतिथ्यशुभास्मृता ॥ ३ ॥

यमाश्लेषाग्निशूर्पाणि श्रविष्ठासार्प्पवारुणम्
ज्येष्ठा च त्रीणि पूर्वाणि नैर्ऋतञ्चैव वर्जयेत् ॥ ४ ॥

[[३८१]]

शेषास्तु तिथयोडूनि शुभाः स्थापनकर्मणि
राशिष्वपि धनुश्चैव चत्वारश्चरराशयः ॥ ५ ॥

अप्रशस्ता इति ख्याताश्शेषास्तु शुभदाः स्मृताः
सितसौम्यो गुरुर्विन्दु वारा श्रेष्ठतमा स्मृताः ॥ ६ ॥

अशुभा रविसौर्याराश्शुभयोगे शुभप्रदाः
रोहिण्यनिलसंयुक्तश्शनिवारस्तु शोभनः ॥ ७ ॥

पूषासावित्रसंयुक्तः सूर्यवारो वरस्मृतः
विश्वेदेवाश्विनी युक्तः कुजवारोवरस्मृतः ॥ ८ ॥

शुभानां होरकानांश्च द्रेक्काणविधिनाशुभाः
शुभानामुदयश्शस्तस्तत्र शश्युदयं विना ॥ ९ ॥

लग्नस्य नैधनस्थाने ग्रहान्सर्वांश्च वर्जयेत्
द्वादश्येकादशी चैव पञ्चमी च द्वितीयका ॥ १० ॥

षष्ठ्यष्टमी च नवमी सूर्यादिभिः क्रमान्विता
दग्धवारा इति ज्ञेया स्थापनादिषु वर्जयेत् ॥ ११ ॥

पूषा च सप्तमी युक्तश्चाश्विनी च द्वितीयका
पुष्यवैष्णवसंयुक्तस्सितवारोत्तरेण तु ॥ १२ ॥

सौम्येन गुरुवारस्तु उत्तराषाढसंयुतः
सोमवारस्तु हस्तेन चाश्विनी बुधवारकः ॥ १३ ॥

दग्धवारा इति ज्ञेयाः स्थापनादिषु वर्जयेत्
एते त्वशोभनाः प्रोक्ताः कुर्यात्प्राणिविनाशनम् ॥ १४ ॥

पाप्पग्रहसमायुक्तां युक्तकाङ्क्षितमन्तराम्
खण्डं स्थूणं व्यतीपातं विष्टिं करणसङ्क्रमम् ॥ १५ ॥

कण्टकं ब्रह्मदण्डञ्च उल्कापातञ्च विद्धकम्
ग्रहणं वेधनक्षत्रं शूलञ्च भूमिकम्पकम् ॥ १६ ॥

द्ध्वजञ्चैव विशेषेण वर्जयेत्तु प्रयत्नतः
प्रतिष्ठां वर्जयेज्जीव भार्गवास्तमनेऽपि च ॥ १७ ॥

[[३८२]]

एवं परीक्ष्य बहुधा लिङ्गस्थापनमारभेत्
अङ्कुराण्यर्पयेद्धीमान् पूर्वोक्तविधिना सह ॥ १८ ॥

यागार्त्थं मण्टपं कुर्याद्धर्म्याग्रे वाथ पार्श्वयोः
ज्येष्ठमण्टपविस्तारं द्वात्रिंशद्धस्तमुच्यते ॥ १९ ॥

अष्टाष्टस्तम्भसंयुक्तं कलातालोच्छ्रयं भवेत्
तन्मण्डपस्य मद्ध्ये तु चतुस्तम्भं विसर्जयेत् ॥ २० ॥

पङ्ङ्क्तिद्वयकरैर्द्वारमद्ध्यमण्टपकस्य तु
षट्त्रिंशत्स्तम्भसंयुक्तं धर्मतालसमुच्छ्रयम् ॥ २१ ॥

पूर्ववत्सन्त्यजेत् मद्ध्ये रविहस्तसुविस्तरम्
स्तम्भैः ष्षोडशभिर्युक्तमुत्सेधञ्चाष्टतालकम् ॥ २२ ॥

कन्न्यसं मण्टपं ज्ञेयं मण्टपन्तु त्रिधापवेत्
वेदिका मद्ध्यभागे त्वरत्निमात्रसमुच्छ्रिता ॥ २३ ॥

तदधश्चोपवेदिन्तु कल्पयेत्तु समावृतम्
युगाङ्गुलप्रविस्तारमुत्सेधस्योक्तवर्द्धकम् ॥ २४ ॥

द्व्यङ्गुलं द्व्यङ्गुलाधिक्य मद्ध्यमस्योत्तमस्य तु
दर्पणोदरसङ्काशं मृदा चष्टकया कुरु ॥ २५ ॥

कन्न्यसत्रयलिङ्गानां मण्टपं कन्न्यसं भवेत्
मद्ध्यमत्रयलिङ्गानां मण्टपं मद्ध्यमं भवेत् ॥ २६ ॥

उत्तमत्रयलिङ्गानां मण्टपं चोत्तमं भवेत्
कूटं वापि प्रपां वापि मण्टपं समलङ्कृतम् ॥ २७ ॥

वेदिकायास्तु परितः कुण्डानि च प्रकल्पयेत्
कुण्डकुट्टिमयोर्मद्ध्ये चान्तरन्तु द्विहस्तकम् ॥ २८ ॥

द्वात्रिंशत्कुण्डकान्न्यत्र कुर्यादुत्तममण्टपे
चतुर्विंशतिकुण्डानि कुर्यान्मद्ध्यममण्टपे ॥ २९ ॥

कारयेन्नवकुण्डानि कन्न्यसे मण्टपे क्रमात्
कुर्याच्चाश्वत्थपत्राभे चापगुणाश्रवर्त्तुले ॥ ३० ॥

[[३८३]]

भूताश्राब्जाष्टकाश्राणि कुण्डानिन्द्रादिषु क्रमात्
वृत्तं प्रधानकं मद्ध्ये इन्द्रकुण्डेशकुण्डयोः ॥ ३१ ॥

एवमभ्यन्तरे कुर्यात् बाह्ये सर्वं युगाश्रकम्
सर्वलक्षणसंयुक्तं पूर्वोक्तविधिना कुरु ॥ ३२ ॥

महादिक्षु चतुर्ष्वेषु सप्रवेशं सतोरणम्
अश्वत्थोदुम्बरप्लक्षन्यग्रोधाः प्राक्दिशादिकाः ॥ ३३ ॥

नवानाञ्चैव लिङ्गानान्नवधा तोरणं कुरु
वितानाश्चादितञ्चाष्टदिग्ध्वजैरुपशोभितम् ॥ ३४ ॥

हेमशुक्लारुणारक्तकृष्णानीलसितारुणाः
एकहस्तविशालोच्चास्तदर्द्धशिखरान्विताः ॥ ३५ ॥

ध्वजायतसमायामं पुच्छत्रयसमन्विताम्
वज्रादिशूलपर्यन्तं द्ध्वजैश्चाष्टासु लेखयेत् ॥ ३६ ॥

ध्वजान्प्रागादिकान्प्रोक्तान् लम्बयेत्तु प्रदक्षिणम्
रम्भाम्रनालिकेराणां फलैस्तु क्रमुकस्य च ॥ ३७ ॥

चूतप्रवालताम्बूललताभिश्च विभूषयेत्
मुक्तासृग्दामभिश्चैव दर्भमालाभिरावृतम् ॥ ३८ ॥

गात्रवेष्टनसंयुक्तं पूर्णकुम्भैरलङ्कृतम्
अष्टमङ्गलसंयुक्तन्नानादीपैस्समायुतम् ॥ ३९ ॥

तरङ्गेण समायुक्तं मण्टपञ्च विभूषयेत्
तस्यैव सौम्यदिक्भागे लक्षणोद्धारणाय च ॥ ४० ॥

मण्टपं कारयेद्धीमान् मण्टपार्द्धसुविस्तृतम्
तन्मद्ध्ये वेदिकां कुर्याल्लिङ्गायामप्रमाणतः ॥ ४१ ॥

रव्यङ्गुलसमुत्सेथं दर्पणोदरसन्निभम्
तस्याः पश्चिमभागे तु स्नानश्वभ्रं प्रकल्पयेत् ॥ ४२ ॥

लिङ्गानुरूपं कर्त्तव्यन्दारुपीठं सलक्षम्
सौम्ये तु जलमार्गस्यादवटेनसमन्वितम् ॥ ४३ ॥

[[३८४]]

देशिकस्तक्षकैस्सार्द्धं विशेत्कर्मकुटीन्ततः
वस्त्रहेमाङ्गुलीयैश्च देशिकं तक्षकं यजेत् ॥ ४४ ॥

शाणाभिकर्षणं कृत्वा लिङ्गञ्च विण्डिकान्ततः
अष्टमृत्सलिलेनैव स्नापयेत् गन्धतोयकैः ॥ ४५ ॥

लिङ्गञ्च पिण्डिकाञ्चैव वस्त्रकाशैश्च वेष्टयेत्
स्यन्दने तु समारोप्य नयेदुत्तरमण्टपे ॥ ४६ ॥

वेद्यूर्द्ध्वे स्थण्डिलं कुर्याच्छाल्यष्टद्रोणकैस्सुधीः
अलङ्कुर्यात्स्थण्डिलञ्च लाजपुष्पतिलैः कुशैः ॥ ४७ ॥

स्थण्डिलं पूजयेत्पश्चात् गन्धपुष्पादिभिर्हृदा
लिङ्गन्तु शाययेत्तस्मिन् प्राक्शिरस्कं सपीठकम् ॥ ४८ ॥

रक्तवस्त्रेण संवेष्ट्य गन्धपुष्पादिभिर्यजेत्
वेद्याश्चोत्तरभागे तु स्थण्डिले होममाचरेत् ॥ ४९ ॥

अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत्
पलाशसमिधस्सद्यमन्त्रेण जुहुयात्ततः ॥ ५० ॥

आज्यमूलेन हुत्वा तु देवस्य त्वाचरुं हुनेत्
शतमर्द्धन्तदर्द्धं वा द्रव्यान्ते व्याहृतिं हुनेत् ॥ ५१ ॥

ब्रह्मजज्ञानमन्त्रेण घृतेन जुहुयाच्छतम्
पूर्णाहुतिञ्च शिरसा स्विष्टमग्ने हुनेत्ततः ॥ ५२ ॥

कौतुकं हृदयेनैव रुद्रभागे तु बन्धयेत्
प्रभाते सुमुहूर्त्ते तु लक्षणोद्धारमारभेत् ॥ ५३ ॥

रुद्रभागसमायामं षण्णवत्यंशकं भजेत्
अङ्गुलन्तेषु भागैकमुत्तमोत्तमकस्य तु ॥ ५४ ॥

सूत्रकस्य तु विस्तारं पञ्चाङ्गुलमिति स्मृतम्
ह्रासयेदर्द्धमर्द्धन्तु अङ्गुलान्तं क्रमेण तु ॥ ५५ ॥

अष्टानाञ्चैव लिङ्गानां सूत्रविस्तारमुच्यते
तन्मानं कारयेद्धीमान्यासं सूत्रस्य चावधि ॥ ५६ ॥

[[३८५]]

मस्तके मद्ध्यमं ज्ञात्वा हेमसूचिन्तु विन्न्यसेत्
भ्रामयेत् मस्तकान्तन्तु तस्यैव शिरसि क्रमात् ॥ ५७ ॥

मस्तके च महाशासु गैरिकेणाङ्कयेत्क्रमात्
अजभागस्य तारस्य मद्ध्यमं त्वङ्कयेत्तथा ॥ ५८ ॥

तन्मस्तकं समारभ्य मस्तके मद्ध्यमान्तकम्
गैरिकाक्तेन सूत्रेण स्थालयेन्मद्ध्यमं दृढम् ॥ ५९ ॥

वस्वश्रम्मद्ध्यमं ज्ञात्वा गैरिकाक्तेन तन्तुना
सूत्रमास्फालयेद्धीमानष्टादशाङ्गुलान्तकम् ॥ ६० ॥

ज्ञात्वापतनपार्श्वन्तु नालन्तन्मद्ध्यमे कुरु
गुणाङ्गुलन्तु तत्तारन्नालस्यैव द्विपार्श्वयोः ॥ ६१ ॥

तस्य सीमावधेश्चैव ध्रुवसूत्रे समालिखेत्
रुद्रांशोच्चं त्रिधाकृत्वा ऊर्द्ध्वभागेंशकन्न्यजेत् ॥ ६२ ॥

पक्षांशन्दशधाभज्य व्योमांशम्मुकुलं भवेत्
विस्तारन्तत्समं ज्ञेय मङ्गुलद्वयसंयुतम् ॥ ६३ ॥

क्रमेण कुशमार्गेण तस्याग्रेणैव बन्धयेत्
नालायामन्तु वस्वंशं मुकुलस्य तु मूलतः ॥ ६४ ॥

तस्मात्तेनैव मानेन मणिरेकात्तु वर्त्तयेत्
तयोस्सङ्गमनं पृष्ठे कारयेत्तु क्रमेण तु ॥ ६५ ॥

प्रथमं लक्षणं प्रोक्तं द्वितीयं लक्षणं श्रुणु
रुद्रांशं भज्यरव्यंशमूर्द्ध्वे गुणांशकन्न्यजेत् ॥ ६६ ॥

एकभागेन मुकुलं मद्ध्यांशन्नालमुच्यते
पार्श्वसूत्रद्वयौ कार्यौ प्रागुक्तविधिना कुरु ॥ ६७ ॥

द्वितीयं लक्षणं प्रोक्तं तृतीयं लक्षणं श्रुणु
रुद्रांशन्नवधाभज्य ऊर्द्ध्वे भागद्वयन्त्यजेत् ॥ ६८ ॥

अंशमेकमधस्त्यक्त्वा मुकुलञ्चैव भागतः
पञ्चांशेनैव नालन्तु शेषं पूर्वोक्तवद्भवेत् ॥ ६९ ॥

[[३८६]]

तृतीयं लक्षणं प्रोक्तञ्चतुर्त्थं लक्षणं श्रुणु
कालांशं भद्ररुद्रांशमूर्द्ध्वे वेदांशकन्त्यजेत् ॥ ७० ॥

पक्षभागमधस्त्यक्त्वा मुकुलञ्चैकभागतः
रन्ध्रांशन्नालमित्युक्तं शेषं पूर्वोक्तवद्भवेत् ॥ ७१ ॥

मुकुलं वागजाक्षं वा लिङ्गाकारमथापि वा
पद्माभं वापि कर्त्तव्यं शूलाकारमथापि वा ॥ ७२ ॥

अन्न्यकार्याणि सर्वाणि मुकुलस्योक्तमार्गतः
नालं सदाशिवं ज्ञेयं सर्वसूत्रमजाधिपम् ॥ ७३ ॥

वैष्णवं वामसूत्रन्तु त्रिसूत्राणान्तु देवताः
त्रियम्बकेन मन्त्रेण नालसूत्रद्वयं लिखेत् ॥ ७४ ॥

ब्रह्मजज्ञानमन्त्रेण ब्रह्मसूत्रन्तु लेखयेत्
विष्णुसूक्तमिदं विष्णुरिति मन्त्रेण लेखयेत् ॥ ७५ ॥

मधुवाता ऋतायेति मधुना तर्पयेत्ततः
घृतं मिमिक्षुमन्त्रेण तर्पयेत्तु घृतेन तु ॥ ७६ ॥

स्नानश्वभ्रे नयेल्लिङ्गन्दारुपीठोपरिन्यसेत्
कौशेयोपरिविन्यस्य ततः स्नानं समारभेत् ॥ ७७ ॥

सर्वातोद्य समायुक्तं नृत्तगेयसमाकुलम्
स्नापयेत्पञ्चगव्यैश्च पवमानमुदीरयेत् ॥ ७८ ॥

अष्टमृत्सलिलेनैव यवगोधूमसर्षपैः
रात्रिचूर्णं शकृच्चूर्णं भस्मतद्युक्ततोयकैः ॥ ७९ ॥

स्नापयेत्तु विशेषेण शुद्धैरुद्धैरिति ब्रुवन्
पाद्यमाचमनञ्चार्घ्यं वक्त्रमन्त्रेण दापयेत् ॥ ८० ॥

गन्धपुष्पादिभिः पूज्य हृदयेन तु मन्त्रतः
पुण्याहं वाचयेत्तत्र रक्तवस्त्रेण वेष्टयेत् ॥ ८१ ॥

अधिवासनपूर्वे तु पञ्चाहेति यहेऽपि वा
द्विरात्रञ्चैकरात्रं वा वेदायाममथापि वा ॥ ८२ ॥

[[३८७]]

जलाधिवासनं कुर्याज्जलपूर्वप्रपां कुरु
जलादुत्तीर्य कलशान्पूर्वोक्तमण्टपन्नयेत् ॥ ८३ ॥

भूसुरान्भोजयेत्तत्र मण्टपे तु विशेषतः
मण्टपम्मार्जनं कृत्वा कारयेत्तु क्रमेण तु ॥ ८४ ॥

समरीय पदैश्चैव प्रागुक्तविधिना सह
प्रासादे मण्टपे चैव वास्तुहोमन्तु कारयेत् ॥ ८५ ॥

आषाढपत्रदर्भैश्च पर्यग्निन्तेन वह्निना
मण्टपञ्च विमानञ्च कारयेत्तु क्रमेण तु ॥ ८६ ॥

गन्धतोयेन सम्प्रोक्ष्य पुण्याहं वाचयेत्ततः
स्थण्डिलं वेदिकोर्द्ध्वे तु कृत्वा द्रोणाष्टशालिभिः ॥ ८७ ॥

तदर्द्धतण्डुलोपेतन्तण्डुलार्द्धतिलान्वितम्
आलिख्यनलिनन्तत्र सकर्णिकदलाष्टकम् ॥ ८८ ॥

परिस्तीर्य ततोदर्भैः फलैर्लाजैस्सुपुष्पकैः
तन्मद्ध्यमे समभ्यर्च्च्य गन्धपुष्पादिभिर्हृदा ॥ ८९ ॥

पञ्चभिः शयनं कुर्याच्चर्मजाद्यैरनुक्रमात्
चर्मजं रोमजञ्चैव कण्डजम्मुण्डजन्तथा ॥ ९० ॥

वामजञ्चैव पञ्चैते शयनं पञ्चकीर्तिताः
कलाभेकम्बलैः पञ्च शयनन्तदलाभके ॥ ९१ ॥

कल्पयेत्पञ्चवस्त्रेण उपधानसमन्वितम्
शङ्खदुन्दुभिनादैश्च स्वस्तिसूक्तोच्च नादकैः ॥ ९२ ॥

गेयनृत्तसमायुक्तं सर्वालङ्कारसंयुतम्
स्नानवेद्यास्समुत्सृष्ट्य जलाशयं प्रकल्पयेत् ॥ ९३ ॥

विधिवज्जलाशयं कृत्वा स्नानवेद्युपरिन्न्यसेत्
स्नानं च विधिना कुर्यात्सर्वालङ्कारसंयुतम् ॥ ९४ ॥

स्नानवेद्यास्समुद्धृत्य वेद्यां लिङ्गन्नयेत्ततः
गन्धपुष्पादिभिश्चैव पूजयेद्धृदयेन तु ॥ ९५ ॥

[[३८८]]

सौवर्णं राजतं वापि क्षौमं कार्पासकन्तु वा
रक्षासूत्रन्तु विन्न्यस्य पात्रे तु तण्डुलोपरि ॥ ९६ ॥

आलयन्तु परिभ्राम्य पूजयेत् गन्धपुष्पकैः
पुण्याहं वाचयित्वा तु सर्वातोद्यसमायुतम् ॥ ९७ ॥

दत्वा सर्वजनानान्तु ताम्बूलन्तु विशेषतः
सम्प्रोक्ष्य विधिना सूत्रं सुमुहूर्ते सुलग्नके ॥ ९८ ॥

रुद्रांशे कौतुकं बद्ध्वा ईशाने न तु मन्त्रतः
प्राक्शिरस्कमधस्सूत्रं शयने शाययेद्धृदा ॥ ९९ ॥

मुकुलीं पद्ममुद्राञ्च सुरभीन्तालमिद्रिकाम्
लिङ्गाख्यं पञ्चवक्त्रञ्च दर्शयेद्धृदयेन तु १००
रक्तवस्त्रेण संवेष्ट्य गन्धपुष्पादिभिर्यजेत्
पिण्डिकान्नन्दिकावर्त्त शिलाः कूर्मशिलास्तथा १०१
लिङ्गमूले तु विन्न्यस्य पीतवस्त्रैश्च वेष्टयेत्
गन्धपुष्पादिभिः पूज्य शक्तिबीजमनुस्मरन् १०२
शिलायाः पिण्डिकालाभे इष्टिकावाधिवासयेत्
सर्वलक्षणसंयुक्तास्त्रीलिङ्गाश्चष्टकेष्टका १०३
द्रोणतोयेन सम्पूर्णान्निष्कलङ्कान्घनस्वनान्
सुपक्वान्दोषरहितान्पक्वबिम्बफलप्रभान् १०४
सम्प्रक्षाल्याथ कुम्भांश्च त्रिसूत्रेणैव वेष्टयेत्
विधानानिहसर्वाणि चित्राकारादिवस्त्रयुक् १०५
पूरितं स्यात् चतुर्विंशत्प्रस्थैरपिसुगन्धरकैः
शिवकुम्भमिति प्रोक्तं द्रोणोदैः परिपूरितम् १०६
वर्द्धनी तत्र विख्याता सर्वलक्षणसंयुता
वस्त्रपूतेन तोयेन सर्वगन्धान्वितेन तु १०७
सम्पूर्यवस्त्रयुग्मेन समावेष्ट्यपृथक्पृथक्
लिङ्गस्यैवशिरोभागे कल्पयेदासनन्ततः १०८

[[३८९]]

द्रोणतोयेन सम्पूर्णान्निष्कलङ्कघनस्वनान्
सुपक्वान्दोषरहितान्पक्वबिम्बफलप्रभान् १०९
सम्प्रक्षाल्य तु कुम्भांश्च त्रिसूत्रेण च वेष्टयेत्
विधिनाद्रि सहस्राणि चित्रिकाकारचित्रयुक् ११०
गन्धादिभिस्समभ्यर्च्च्य शिवकुम्भन्तु विन्न्यसेत्
पञ्चरत्नं क्षिपेत्तत्र न्यसेदुत्तमकूर्चकम् १११
शिवकुम्भस्य मद्ध्ये तु शिवमन्त्रन्तु विन्न्यसेत्
ध्यात्वा सदाशिवं रूपं पूर्वोक्तविधिना सह ११२
सद्यमन्त्रेण चावाह्य स्वागतं हृदयेन तु
स्थापयेद्वामदेवेन अघोरेण निरोधनम् ११३
ईशानेन तु सान्निद्ध्यं पुरुषेण तु सम्मुखम्
पाद्यमाचमनञ्चार्घ्यं शिरोमन्त्रेण दापयेत् ११४
गन्धं पुष्पञ्च धूपञ्च दीपन्नैवेद्यमेव च
हृदयेनैव दत्वा तु ताम्बूलन्दापयेत्ततः ११५
दर्शयेद्दशमुद्राञ्च लिङ्गमुद्रान्तथैव च
पञ्चवक्त्रीं प्रदर्श्याथ विधानेन विधाय च ११६
कस्त्रेणैव तु मन्त्रेण दिग्बन्धनन्ततः कुरु
तस्यैव वामभागे तु वर्द्धनीञ्चैव विन्यसेत् ११७
वर्द्धनीं मद्ध्यमे न्यस्त्वा हाटकेन सरोरुहम्
निक्षिप्य मद्ध्यमं कूर्चं मनोन्मन्यास्तु मन्त्रकम् ११८
वर्द्धनीं मद्ध्यमे न्यस्त्वा ध्यात्वा तद्रूपकं व्रजेत्
अब्जमुद्रां प्रदर्श्याथ सुरभीतालमुद्रिकाम् ११९
विधाय च विधानेन दिग्बन्धनञ्चरंस्ततः
अभितस्तु घटानष्टौ स्थापयेदष्टदिक्षु च १२०
इन्द्रादीशानपर्यन्तमष्टविद्येश्वरान्न्यसेत्
निक्षिपेत्कन्न्यसं कूर्चं तेषाञ्चैवायुधानि च १२१

[[३९०]]

शातकुम्भेन कृत्वा तु कुम्भमद्ध्ये विनिक्षिपेत्
तत्तत्बीजस्य सित्वा तु द्ध्यात्वा पूर्वोक्तवत्सुधीः १२२
गन्धादिभिर्यजेत्पश्चात् नैवेद्यान्तं क्रमाद्धृदा
अष्टविद्येश्वरान्सर्वान् शिवकुम्भञ्च वर्द्धनीम् १२३
तल्लिङ्गाभिमुखाश्चैव स्थापयेत्स्थापकोत्तमः
अष्टमं गलरूपाणि उपवेद्युपरिन्यसेत् १२४
द्वारपूजादिसर्वांश्च यागमण्टपवद्बुधः
पूर्वोक्तलक्षणोपेतमादिशैवन्तु देशिकम् १२५
पञ्चाङ्गभूषणैर्वस्त्रैरङ्गुलीयैश्च भूषयेत्
गन्धैः पुष्पैश्च विविधैर्हेमयज्ञेन संयुत १२६
प्रागुक्तलक्षणोपेतान्मूर्तिपान्भूषयेत्ततः
वस्त्रहेमाङ्गुलीयैश्च गन्धपुष्पादिभिर्युतम् १२७
ताम्बूलं दापयेत्पश्चात् मूर्तिपानां गुरोस्तथा
आचार्यायाभ्यनुज्ञाय सर्वकर्मसमारभेत् १२८
होमारम्भस्य पूर्वे तु स्रुक्स्रुवौ चेन्धनेन तु
परिधींश्चैव दर्भांश्च समिदाज्य चरूंस्तथा १२९
होमद्रव्याणि सर्वाणि गन्धपुष्पाणि धूपकम्
दीपं वै द्रव्यपाकानि विहष्यञ्च कमण्डलम् १३०
वर्द्धनीमक्षतं दर्वीं सम्प्राप्तं हेमसाधनम्
आहृत्य होमसम्भारानेवं कुण्डं प्रतिक्रमात् १३१
आचार्यो मूर्तिपैस्सार्द्धं पश्चाद्धोमं समाचरेत्
प्रधाने देशिकः प्रोक्तस्त्वन्यकुण्डेषु मूर्तिपा १३२
सर्वे वै मूर्तिपास्तत्र मूर्तिस्तद्भावसंयुताः
भवश्चोग्रश्च शर्वश्च महादेवश्च रुद्रकः १३३
भीमः पशुपतिश्चैव ईशानश्चाष्टमूर्तयः
इन्द्रादीशानपर्यन्तं स्वस्वमन्त्रैर्विशेषतः १३४

[[३९१]]

संयजेयुः क्रमान्मूर्तीन्कुण्डानाञ्चैव दक्षिणे
सदाशिवं प्रधाने तु यजेत्कुण्डस्य दक्षिणे १३५
इन्द्रादिलोकपालांश्च बाह्ये तत्तद्दिशासु च
कोणपार्श्वद्वयोश्चैव वसून्प्रागादिविन्न्यसेत् १३६
मरुतश्चैव चक्रादि शेषेष्वायतनेषु च
मरुतश्च विना कुर्यान्मद्ध्यमे होमकर्मणि १३७
वसूंश्चैव च दिक्पालान्कन्न्यसे होममाचरेत्
अग्न्याधानादिकं सर्वमाज्यभागान्तकं पृथक् १३८
होमं प्रतिविशेषेण अग्निकार्योक्तमाचरेत्
ऋग्वेदाद्ध्ययनं पूर्वे यजुर्वेदन्तु याम्यके १३९
पश्चिमे सामवेदन्तु अथर्वञ्चोत्तरे तथा
देवताभिमुखास्सर्वे वर्द्धनी कूर्चतोययुक् १४०
कोणे मन्त्रजपं कुर्यात् मूलमन्त्रान्विशेषतः
समिदाज्य चरूंल्लाजान्माषमुद्गयवांस्तिलान् १४१
शालिगोधूमनीवारान्सक्तून्सिद्धार्त्थकं दधि
क्षीरं क्रमेण विधिवत् जुहुयुर्वै पृथक्पृथक् १४२
पलाशाश्चैव शुक्लार्कश्चाश्वत्थोदुम्बरौ तथा
प्लक्षखादिरबिल्वाश्च शमी वै प्रथमावृतौ १४३
इन्द्रादीशानपर्यन्तं क्रमशस्समिधस्मृताः
प्रधानाग्नौ पलाशन्तु आषाढोवाप्युदुम्बरः १४४
सर्वेषां बाह्यकुण्डानां समिधः सम्प्रकीर्तिताः
सद्येन समिधो हुत्वा मूलेनाज्यन्तु होमयेत् १४५
आघोरेण चरुं हुत्वा लाजं तत्पुषेण तु
मुद्गं हृदयमन्त्रेण माषं शिरसाहुनेत् १४६
यवं नेत्रेण हुत्वा तु तिलं वामेन होमयेत्
शालिमीशानमन्त्रेण गोधूमञ्चाष्टमंस्मृतम् १४७

[[३९२]]

शिखामन्त्रेण नीवारं कवचेनैव सक्तुकम्
पाशुपतेन सिद्धार्त्थं बीजमुख्ये हुनेद्दधि १४८
दशाक्षरेण मन्त्रेण दुग्धन्तु जुहुयात्ततः
अष्टाधित्रिशतं द्रव्यम् उत्तमञ्च क्रमाद्धुनेत् १४९
द्विशताष्टाहुतिर्मद्ध्यमष्टोत्तरशताधमम्
व्याहृत्याहुतिकं कार्यं प्रतिद्रव्यं पुनःपुनः १५०
ततः स्पर्शाहुतिं कुर्यात् लिङ्गद्रव्यं प्रतिप्रति
स्पृष्ट्वास्पृष्ट्वा तु तन्मन्त्रैर्देशिको मूर्तिपैस्सह १५१
ब्रह्मजज्ञानमन्त्रेण हुत्वा ब्रह्मशिलांस्पृशेत्
मनोन्मन्यास्तु मन्त्रेण हुत्वा तां पिण्डिकां स्पृशेत् १५२
प्रत्येकं षोडशं हुत्वा व्याहृतिं जुहुयात्ततः
होमारम्भस्य पश्चात्तु पूर्णाहुत्यास्तु पूर्वतः १५३
आसने स्थापने क्रोधे क्षुधे निष्ठीवने क्रमे
वायुचारे भयोत्पन्ने भाषिणे चाप्य दीक्षितैः १५४
श्लेष्मोद्गारे च सन्तापे क्रिया विस्मृतिसम्भवे
मन्त्रोक्ते मन्त्रकार्ये तु व्याहृत्याहुतिमाचरेत् १५५
नृत्तगेय समायुक्तं रात्रिशेषं व्यपोह्य च
एकरात्रं द्विरात्रं वा त्रिरात्रं वाधिवासयेत् १५६
ततः प्रभाते विमले आचार्यो मूर्तिपैस्सह
कृत्वा स्नानत्रयं पश्चात्सकली करणं कुरु १५७
लिङ्गन्तु शयने पूज्य कुम्भस्थामूर्तिकान्न्यसेत्
कुम्भस्थदेवतानान्तु नैवेद्यं दापयेत्ततः १५८
कुण्डं प्रतिविशेषेण गन्धपुष्पादिभिर्यजेत्
आचार्यः शिल्पिनासार्द्धं प्रविशेत् गर्भगेहकम् १५९
पूर्वपश्चिममार्गेण मत्स्यसूत्रन्तु पादयोः
दक्षिणोत्तरमार्गेण सूत्रं कुर्यात्तु मद्ध्यमे १६०

[[३९३]]

पूर्वपश्चिममार्गेण पुरस्तात्परपूर्वकम्
याम्यं सौम्म्यं तथा चैव द्वात्रिंशत्सप्तधा भजेत् १६१
मद्ध्यभागं त्रिधाभज्य पक्षांशं दक्षिणं त्यजेत्
एकांशमुत्तरे त्यक्त्वा मद्ध्यसूत्रन्तु पातयेत् १६२
शिवसूत्रं तथाख्यातं तन्मद्ध्ये स्थापयेच्छिवम्
अन्न्यधास्थापयेल्लिङ्गं स्थाननाशं धनक्षयम् १६३
तन्मद्ध्ये स्थापितं लिङ्गं सर्वन्दोषापहारकम्
शालिपिष्टोक्तसूत्रेण गैरिकाक्तेन वा पुनः १६४
सुत्रमास्फालयेद्धीमान्स्थले भित्तौ क्रमेण तु
भित्तयभावे महाशासु यष्टिन्तु स्थापयेत्ततः १६५
शिवसूत्रं महाशासु तन्तुनोर्द्ध्वं प्रकल्पयेत्
पिण्डिकायास्तु तारार्द्धं शिवसूत्रस्य मद्ध्यमात् १६६
अङ्कयेत्तु महाशासु सूत्रपातन्तु कारयेत्
यदुक्तं कूर्मशैलस्य प्रवेशानान्तु भागकम् १६७
तत्समं कारयेद्गर्त्तं विस्तारं पीठविस्तरम्
गर्तं समतलं कृत्वा घनीकृत्वाष्टपादकः १६८
आयाभिस्समतां कृत्वा वस्त्रैरेव तु शोधयेत्
गर्त्तं यष्ट्यङ्घ्रिशैलन्तु शक्तिबीजेन विन्न्यसेत् १६९
मद्ध्यमं शिवसुत्रात्तु लम्बयित्वा विदुः क्रमात्
कारयेत्प्रतिलिङ्गन्तु याज्ञिकैर्वृक्षकैस्तथा १७०
उपपीठन्तथा कृत्वा श्वभ्रमद्ध्ये तु विन्न्यसेत्
प्रतिलिङ्गन्तु संस्थाप्य सुस्थितं दुस्थितं विदुः १७१
पिण्डिकां प्रतिलिङ्गञ्च यष्टिसूत्राणि सन्त्यजेत्
कूर्मशैले वटान् शोद्ध्य प्रोक्षयेत्पुरुषेण तु १७२
चन्दनेनानुलिप्याथो रत्नानि विविधान्न्यसेत्
वज्रं मरतकम्पुष्यरागन्नीलं प्रवालकम् १७३

[[३९४]]

मौक्तिकञ्चैव वैडूर्यं स्फटिकञ्च महामणीन्
इन्द्रादिमद्ध्यपर्यन्तं विन्यसेन्मूलविद्यया १७४
सुवर्णं रजतं ताम्म्रमायसं त्रपुसीसकम्
आरकूटञ्च विपुलं देवलोहं क्रमात्तथा १७५
हरितालत्रयञ्चैव गन्धकं धरदाञ्जनम्
सौराष्ट्रं गैरिकञ्चैव माक्षिकं पूर्ववन्न्यसेत् १७६
यवगोधूमनीवारशालिवैणवकानि च
प्रियङ्गुतिलमुद्गानि निष्पावञ्च क्रमात्तथा १७७
चन्दनं कुङ्कुमञ्चैव लोहं पत्रपलत्रयम्
कर्पूरमुशिरञ्चैव पूर्ववद्विन्यसेत्ततः १७८
वैणवं वज्रपाणिञ्च वृषभध्वजमेव च
लक्ष्मीञ्च सहदेवीञ्च शङ्खपुष्पं सुवर्चलाम् १७९
दूर्वाञ्चतुर्मुखञ्चैव विन्न्यसेद्देशिकोत्तमः
पृथिवीं शातकुम्भेन समुद्रराजतेन तु १८०
ताम्म्रेण वृषभं कृत्वा तोमरञ्चामरं गजम्
श्रीवत्सं कलशं भेरीन्दर्पणं पद्मपुष्पकम् १८१
महामेरुं सुवर्णेन कृत्वा रन्ध्रे पटे न्यसेत्
दक्षिणे मद्ध्यमे सौम्ये त्ववटेषु क्रमान्न्यसेत् १८२
मुकुलीपद्ममुद्राञ्च शोधनीञ्च प्रदर्शयेत्
पूजयित्वा तु रत्नानि गन्धपुष्पादिभिर्हृदा १८३
पायसेन तु लिप्याथ सद्यं ब्रह्मशिलापटम्
आसनं कल्पयेत्पञ्च तस्य मद्ध्ये क्रमेण तु १८४
गन्धपुष्पादिभिः पूज्य वस्त्रेणावेष्ट्य सर्वतः
आचार्यो मूर्तिपैस्सार्द्धं विधिनास्नानमाचरेत् १८५
शुक्लवस्त्रमथोष्णीषं वसनञ्चोत्तरीयकम्
हेमपुष्पाङ्गुलीयाश्च यज्ञसूत्रत्रयाणि वै १८६

[[३९५]]

पञ्चाङ्गभूषणैर्ह्येवं गन्धपुष्पानुलेपनम्
आचार्याय प्रदातव्यं मद्ध्ये कृञ्चैव मूर्तिपान् १८७
मन्त्रजपाश्च वस्त्रैश्च मेहाङ्गुलीयकैर्यजेत्
पर्यष्टिपरिचारांश्च पूजयेत्तु यथार्हकम् १८८
सम्पूज्य देशिकादीनां दक्षिणान्दापयेत्ततः
उत्तमं स्याच्चतुष्षष्टिर्निष्कादेशिकदक्षिणा १८९
पञ्चाशन्मद्ध्यमा ज्ञेया त्रिंशन्निष्कन्तु कन्यसम्
भृत्यगोभूमिधान्यानि गृहोपकरणानि च १९०
आचार्याय प्र—व्यं श्रद्धाभक्तिसमन्वितः
यजमानो गुरुन्तोष्य वित्तशाठ्यविवर्जितः १९१
देशिकस्य मनस्तुष्टिर्देवतानान्तु सन्निधिः
देशिकन्तोषयेत्तस्मात्सन्निधीकरणाय च १९२
होतॄणां मन्त्रजप्तॄणामद्ध्ये तॄणाञ्च दक्षिणा
उत्तमं नवनिष्कं च सर्वेषान्तु विधीयते १९३
निष्काष्टमं मद्ध्यमं स्यात् निष्कषष्ठन्तु कन्न्यसम्
एतेषु दक्षिणैकस्स्यादेतत् द्विगुणदक्षिणा १९४
वास्तुहोमककर्तुश्च दैवज्ञस्य तथैव हि
मुहूर्तान्प्राप्तकाले तु सर्वातोद्य समन्वितम् १९५
शङ्खदुन्दुभिनादैश्च गीतनृत्तसमायुतम्
ब्रह्मघोषसमायुक्तं नानाभक्तिसमन्वितम् १९६
छत्रध्वजवितानैश्च धूपदीपैश्च संयुतम्
वर्द्धन्यस्त्रावसहितं मङ्गलाङ्कुरसंयुतम् १९७
उद्धृत्य शयनाल्लिङ्गं वस्त्रादीनि व्यपोह्य च
घृतं शिरोर्पणं कुर्याद्धेमदूर्वाङ्कुराक्षतैः १९८
रथे वा शिबिकायां वा रज्जुयन्त्रेण वा पुनः
उत्कालङ्कारसः युक्तं कृत्वा धामप्रदक्षिणम् १९९

[[३९६]]

पृष्ठतो यजमानस्तु पुत्रभ्रातृसमन्वितः
आचार्यस्त्वग्रतोगच्छेदर्घ्यहस्तसमाहितः २००
विश्राम्म्य द्वारदेशे तु अर्घ्यं दत्वाविशेत् गृहम्
कलन्निरीक्ष्य दैवज्ञो गुरवे सन्निवेदयेत् २०१
आचार्यो मूर्तिपैस्सार्द्धं लिङ्गस्थापनमारभेत्
पुरुहूतेन संस्थाप्य लिङ्गन्तु द्वारसम्मुखम् २०२
दुस्थिते स्फुटिते वक्त्रे स्थापितन्तु न चालयेत्
एवमादीनि सम्भूते निष्कृतिञ्च समाचरेत् २०३
अष्टोत्तरशतं हुत्वा शिवाग्नौ शिवमन्त्रतः
अथ ब्रह्मषडङ्गैश्च प्रत्येकन्तु शताहुतिः २०४
नन्द्यावर्त्तशिलां योज्य पूर्वोक्तविधिना सह
वालुकाभिस्समापूर्य सुस्निग्धं सुदृढं क्रमात् २०५
मानोन्मन्यास्तु मन्त्रेण पिण्डिकाञ्च समुद्धरेत्
उक्तालङ्कारसंयुक्तं कृत्वा धामप्रदक्षिणम् २०६
द्वारदेशं समानीय दत्वार्घ्यं शिरसा पुनः
शनैर्लिङ्गे समायोज्य शक्तिबीजं समुच्चरन् २०७
पिण्डिकां चैव लिङ्गोर्द्ध्वं वेशयेत्तु शनैश्शनैः
सुसमं सुदृढं कृत्वा वालुकाभिः सुपूरयेत् २०८
अष्टबन्धन्तु विधिना कारयेत्सुदृढं क्रमात्
शुद्धिं कृत्वा यथान्न्यायं पवमानमुदीरयन् २०९
गन्धपुष्पादिभिश्चैव लिङ्गं सम्पूजयेद्धृदा
आचार्यो दक्षिणं हस्तं लिङ्गमूर्ध्निनिधाय च २१०
दशाक्षरं जपित्वा तु पञ्चविंशतिसङ्ख्यया
अष्टत्रिंशत्कलान्न्यासं मकुटादिक्रमान्न्यसेत् २११
शिवाङ्गानि ततो न्न्यस्त्वा दिग्बन्धञ्चास्त्रमन्त्रतः
कृत्वा तु पद्ममुद्राञ्च लिङ्गाख्यं पञ्चमुद्रिकाम् २१२

[[३९७]]

शोधनीं सुरभीमुद्रां दर्शयेद्धृदयेन तु
षडद्ध्वने न्न्यसेत्पीठे पद्ममुद्रां प्रदर्शयेत् २१३
वह्निं प्रज्वाल्य कुण्डस्थं कृत्वा तु परिषेचनम्
जयादिरभ्यधानञ्च हुनेद्राष्ट्रभृतं क्रमात् २१४
पूर्णाहुतिञ्च शिरसा स्विष्टमग्निऋचाहुनेत्
समाप्य होमशेषन्तु पूर्वोक्तविधिना सह २१५
प्रधानकुम्भमाचार्यो मूर्त्तिपास्त्वन्न्यकुम्भकान्
उद्धृत्यशिरसा धृत्वा कृत्वाधामप्रदक्षिणम् २१६
सर्वालङ्कारसंयुक्तं सर्वातोद्य समायुतम्
स्थण्डिलोपरिलिङ्गाग्रे स्थापयेयुः क्रमात् घटान् २१७
ध्यात्वा सदाशिवं रूपं सर्वज्ञङ्कारणेश्वरम्
संस्थाप्य वामदेवेन अघोरेण निरोधयेत् २१८
पुरुषेणैव सान्निद्ध्यमीशानेन तु सम्मुखम्
ध्यात्वा मनोन्मनीं देवीं पिण्डिकायां विशेषतः २१९
सुमुहूर्त्ते सुलग्ने तु मन्त्रे न्यासं समारभेत्
आचार्यस्सुप्रसन्नात्मा लिङ्गस्य दक्षिणे स्थितः २२०
प्राणप्रकृतियोगन्तु ज्ञात्वा स्थापनमारभेत्
प्राणो मन्त्र इति प्रोक्तः प्रकृतिः स्थाप्य उच्यते २२१
कुम्भात् बीजं समादाय कूर्चेनाभियुतं सुधीः
दक्षिणेनैव हस्तेन अस्त्रावब्बिन्दुकेन तु २२२
ध्यानेनैव समायुक्तं सदामन्त्रमनुस्मरन्
लिङ्गस्यैव तु मद्ध्ये तु विन्न्यसेत्तु विशेषतः २२३
मस्तके चैव तन्मूले न्न्यस्त्वा सम्पूजयेत्ततः
कुम्भाद्भिस्तु विशेषेण स्नापयेत्परमेश्वरम् २२४
वर्द्धन्न्याश्च मनोन्मन्न्या बीजमादाय पूर्ववत्
लिङ्गस्य वामभागे तु पिण्डिकायाञ्च विन्न्यसेत् २२५

[[३९८]]

वर्द्धनी तोयकैश्चैव पिण्डिकामभिषेचयेत्
विद्येशबीजं विन्न्यस्य इन्द्राद्यैशानकक्रमात् २२६
तत्तत्कुम्भजलैश्चैव तत्तत्स्थानेऽभिषेचयेत्
पूजयित्वा यथान्न्ययं पञ्चमावरणान्वितम् २२७
क्रमेण पञ्चवक्त्रेषु हविषं पञ्चवर्णकम्
देवस्य त्वेतिमन्त्रेण हृदयेनैव दापयेत् २२८
वक्त्रेणाचमनन्दत्वा निर्माल्यन्तु विसर्जयेत्
ताम्बूलन्दापयेत्पश्चान्मुखवाससमन्वितम् २२९
नानापक्वफलद्रव्यं देवदेवाय दापयेत्
चण्डेशं पूजयित्वा तु निर्माल्यन्तु निवेदयेत् २३०
स्नपनं कारयेत्पश्चाद्यथा वित्तानुसारतः
पूजयित्वा यथान्न्यायं पञ्चमावरणैस्सह २३१
प्रभूतञ्च हविर्दत्वा ताम्बूलञ्च प्रदापयेत्
नन्द्यादिबलिपीठान्तं बलिन्दद्यात्क्रमेण तु २३२
अञ्जनञ्च हरिद्राञ्च सर्षपञ्च मनश्शिलाम्
गोरोचनं घृतेनैव सप्ताहं लेपयेत्ततः २३३
प्रतिष्ठोत्सवन्तु कर्तव्यं यावत्सप्तदिनान्तकम्
तल्लिङ्गे पूजिते राष्ट्रं सुभिक्षं रोगनाशनम् २३४
आयुरारोग्यवद्राजा सार्वभौमत्वमाप्नुयात्
एवं यः कुरुते मत्तर्यस्सर्वपापात्प्रमुच्यते २३५
मोक्षार्थी लभते मोक्षं पुत्रार्त्थी लभते सुतम्
अर्त्थार्त्थी चार्त्थमाप्नोति ज्ञानार्त्थी ज्ञानमाप्नुयात् २३६
उहैव पुत्रवान् श्रीमान्सोन्तेसायुज्यमाप्नुयात्
इति लिङ्गस्थापनविधिपटल एकोनषष्टितमः २३७