स्थापनक्रमविधिपटलप्रारम्भः
स्थापनस्य विधिं वक्ष्ये सर्वशान्तिकरं परम्
अधुना सकलादीनां स्थापनात्क्रममुच्यते ॥ १ ॥
सहितः स्थापनं यत्र एकदेशिकमाचरेत्
सहितः द्विविधं प्रोक्तं स्कन्दोमासहितस्य तु ॥ २ ॥
अङ्कुरादिप्रतिष्ठान्तमेकदेशिकमाचरेत्
अयनं द्विविधं प्रोक्तं दक्षिणे चोत्तरे तथा ॥ ३ ॥
देवानान्तु दिवाकाले उत्तरायणमेव तु
देवानान्दक्षिणे रात्रौ ज्ञात्वा कर्मसमाचरेत् ॥ ४ ॥
रात्रौ तु लिङ्गं संस्थाप्य न्नाशनञ्चाखिलञ्जगत्
राजप्रधानमहिषी प्रधानश्च गजे मृते ॥ ५ ॥
तस्मात्सर्वप्रयत्नेन दिवाकाले प्रतिष्ठितम्
सकलानान्तु सर्वेषां सर्वमासेषु सङ्ग्रहेत् ॥ ६ ॥
भवानी स्थापनं वक्ष्ये सहितं भिन्नमेव च
सहितं स्थापनं सर्वमेकदेशिकमाचरेत् ॥ ७ ॥
अन्न्यधा चेन्न कर्त्तव्यं राजराष्ट्रं विनश्यति
सस्यगो नाशमेतद्धि सर्वशत्रुविवर्द्धनम् ॥ ८ ॥
स्थापयेद्यदि मोहात्तु ग्रामनाशं भवेद्ध्रुवम्
प्रासादात्स्थापनं यत्र प्रतिष्ठां पुनराचरेत् ॥ ९ ॥
आरम्भाद्यन्तमेवन्तु एकदेशिकमाचरेत्
[[३७५]]
तस्याभावे तु पुत्रो वा शिष्यो वाथ गुरुस्तथा ॥ १० ॥
अन्यधा चेन्न कर्त्तव्यं कर्त्ता भर्त्ता विनश्यति
आचार्यस्यानुकुम्भन्तु पूजयेत्तु यथा विधि ॥ ११ ॥
कुलानि मूर्त्तिपानान्तु पूजयेत्तत्र तत्र वै
एकसन्तानकं कल्प्य मूर्त्तिपानां विशेषतः ॥ १२ ॥
आचार्यो मूर्त्तिपैस्सार्द्धं स्नानं कृत्वा तु पूर्वकम्
अलङ्कृत्य स्वदेहन्तु प्रविशेद्यागमण्टपम् ॥ १३ ॥
इन्द्रपावकयोर्मद्ध्ये मद्ध्यईशेन्द्रयोस्तु वा
स्थापयेत्सौरकुम्भन्तु पूजयेत्तु यथाविधि ॥ १४ ॥
बहिर्गत्वा द्विराचम्य पूर्वोक्तविधिना सह
द्वाराण्यस्त्रेण सम्प्रोक्ष्य द्वारद्वाराधिपान्न्यजेत् ॥ १५ ॥
आदौ शान्तिकलाशास्तद्वाराधनमभूद्यपि
प्रतिष्ठां पूजयेत्पूर्वे द्वाराभिख्यन्तु दक्षिणे ॥ १६ ॥
वारुणे तु प्रतिष्ठाख्यन्निवृत्ताख्यमुदग्गते
प्राचीनन्दिमहाकालौ याम्ये भृङ्गिविनायकौ ॥ १७ ॥
पश्चिमे वृषभस्कन्दौ देविचण्डोत्तरेण तु
प्रणवादि नमोन्तास्तु चतुर्त्थ्यन्तं क्रमान्न्यसेत् ॥ १८ ॥
तत् शाखाम्मूलदेशस्थौ प्राशन्तु सशिरोघटौ
पर्जन्यौ शोकनामानौ भूतसञ्जीवनामृतौ ॥ १९ ॥
धनदश्रवृतौ द्वौ द्वौ पूजयेदनुपूर्वशः
भूलोकन्तु भुवर्लोकं पूर्वद्वारौ तु पूजयेत् ॥ २० ॥
दक्षिणे पूजयेद्विद्वान्स्वर्लोकजनलोककौ
तपोलोकस्य लोकौ तु पश्चिमे तु प्रपूजयेत् ॥ २१ ॥
लोकालोकशिवालोकौ उत्तरद्वारकं यजेत्
आदित्यसोमे प्राक्द्वारे पूजयेद्दक्षिणे बुधः ॥ २२ ॥
अङ्गारकोबुधश्चैव पश्चिमे तु यजेत्ततः
[[३७६]]
यजेत् बृहस्पतिश्शुक्रोऽप्युत्तरे शनिराहुकौ ॥ २३ ॥
इत्येवं ग्रहकुम्भेषु पूजयेद्देशिकोत्तमः
धरो ध्रुवश्च सोमश्च आपश्चैवानिलोनलः ॥ २४ ॥
प्रत्यूषश्च प्रभासश्च वसवश्चाष्ट एव च
इत्येवं वस्वष्टौ तु द्वौ द्वौ द्वारे तु पूजयेत् ॥ २५ ॥
गङ्गा च यमुना चैव नर्मदा च सरस्वती
सिन्धुगोदावरी चैव कावेरी सरयुस्तथा ॥ २६ ॥
द्वौ द्वौ द्वारिप्रपूज्याथ गन्धपुष्पादिभिः क्रमात्
वैकर्तनं विवस्वांश्च मार्ताण्डं पूजयेत्तु सः ॥ २७ ॥
लोकप्रकाशकश्चैव पूजयेत्तु विचक्षणः
पश्चिमे लोकसाक्षिञ्च आदित्यञ्च त्रिविक्रमम् ॥ २८ ॥
उत्तरे च यजेत्सूर्य मंशुमांश्च दिवाकरम्
एते वै द्वादशादित्याः पूजयेत्तु विचक्षणः ॥ २९ ॥
कृतयुगन्तु यजेत्पूर्वं त्रेताञ्च दक्षिणे तथा
द्वापरं पश्चिमे पूज्य कलिं चैवोत्तरे दिशि ॥ ३० ॥
पूजयेत्तु विशेषेण गन्धपुष्पादिभिर्यजेत्
ऋग्वेदन्तु यजेत्पूर्वे यजुर्वेदन्तु दक्षिणे ॥ ३१ ॥
पश्चिमे सामवेदन्तु उत्तरेऽथर्ववेदकम्
गन्धपुष्पैश्च धूपैश्च दीपैर्नीराजयेद्धृदा ॥ ३२ ॥
द्वारं प्रतिविशेषेण पूजयेत् श्रीगणौ बुधः
वज्रं शक्तिञ्च दण्डञ्च खड्गं पाशं तथागुरुः ॥ ३३ ॥
गदा त्रिशूलं वक्त्रञ्च पद्मञ्चेति दशायुधम्
पूर्वादिदिक्पताकादि पूजयेत्तु दशायुधम् ॥ ३४ ॥
कुमुदं कुमुदाक्षञ्च पुण्डरीकञ्च वामनः
शङ्खकर्णस्तथाशर्वस्त्रिणेत्रस्सम्प्रतिष्ठितः ॥ ३५ ॥
पूर्वाध्वगाष्टवामानां समभ्यर्च्य यथाक्रमम्
[[३७७]]
हेतुस्त्रीपुन्नरघ्नश्च वेतालश्चाग्निजिह्वकः ॥ ३६ ॥
कालं करालिनं भीमम् एकपादं तथैव च
पूर्वादीशानपर्यन्तं पूजयेत्तु यथाक्रमम् ॥ ३७ ॥
आकाशे अचलञ्चैव पाताले हाटकेश्वरम्
एवन्तु भूमिपालानां गन्धपुष्पादिभिर्यजेत् ॥ ३८ ॥
प्रत्येकं हाटकं शाली प्रत्येकन्तु पटं यजेत्
पश्चिमे द्वारमारूढ्य नित्यद्वारादिकं यजेत् ॥ ३९ ॥
दिव्यन्तरिक्षभूम्मिष्ठान्विघ्नानुत्सार्य बुद्धिमान्
दक्षजङ्घां समुत्क्षिप्य वामशाखाविशेषतः ॥ ४० ॥
अस्त्रेणोदुम्बरं पुष्पं द्वारं प्रतिविचक्षणः
वास्तोष्पतये चेति ब्रह्मणे नम इत्यपि ॥ ४१ ॥
सम्पूज्य गन्धपुष्पाद्यैः ब्रंहाणं निर्ऋतिगोचरे
यागमण्टपकम्पेषु पृथिवी तत्वकं यजेत् ॥ ४२ ॥
तृणेषु जलतत्वञ्च बन्धेषु चाग्नितत्वके
वंशेषु वायुतत्वञ्च स्थूणासुगगनं यजेत् ॥ ४३ ॥
वितानञ्चन्द्रबिम्बञ्च दर्भमालाञ्च वासुकिम्
इत्येवं मण्टपं पूज्य व्याप्यं सदाशिवान्तिकम् ॥ ४४ ॥
दर्पणं पूर्णकुम्भञ्च वृषभं युग्मचामरम्
श्रीवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ॥ ४५ ॥
पूर्वादीशानपर्यन्तं पूजयेदष्टमङ्गलम्
सम्पूज्य गन्धपुष्पाद्यैरस्त्रप्राक्शिरकल्पनम् ॥ ४६ ॥
सर्वावकुण्ठनाद्यागगेहं संरक्ष्यदेशिकः
उपविष्ट उदग्वक्त्रो भूतशुद्धिं समाचरेत् ॥ ४७ ॥
सकलीकरणं कृत्वा कृत्वान्तर्यजनं कुरु
विशेषार्घ्यं ततः कुर्यादायसीन्न्यार्द्धचाक्षतैः ॥ ४८ ॥
आपस्तिलकुशाग्रैश्च क्षीरपुष्पसमन्वितम्
[[३७८]]
तदम्भसा तु सम्प्रोक्ष्य स्वशिरो द्रव्यसंहतिम् ॥ ४९ ॥
अस्त्रमन्त्रेण तत्सर्वं कवचेनावकुण्ठयेत्
हृदाभिमन्त्र्य प्रत्येकं तिलकञ्च नवन्नयेत् ॥ ५० ॥
शिवहस्तञ्च सङ्कल्प्य तदारोपि तदस्तके
ज्ञानासितत्वसङ्ख्यातैश्चतुरूनैरथापि वा ॥ ५१ ॥
दर्भैः प्रादेशमात्रन्तु निर्मितञ्चास्त्रमन्त्रितम्
कल्पयेत्पञ्चगव्यन्तु विधानं तमिहोच्यते ॥ ५२ ॥
मण्टपस्य शुभे भागे क्षेत्रेन वपदी कृते
पञ्चतत्वकृतन्यासे पञ्चपात्राणि विन्यसेत् ॥ ५३ ॥
पञ्चतत्वकृतन्न्यासे पञ्चवक्त्राणि विन्यसेत्
शिवसादाख्यविद्याया काले पुंसि च देशिकः ॥ ५४ ॥
सुप्रतिष्ठां सुशान्तञ्च तेजोवादभृता क्रमम्
रत्नोदकेन सङ्कल्प्य क्षीरन्दधिघृतं न्यसेत् ॥ ५५ ॥
गोमयञ्चैव गोमूत्रमीशानाद्यैस्तु मन्त्रयेत्
लाजचन्दनसिद्धार्त्थ भस्मपुष्पकुशाक्षताः ॥ ५६ ॥
हेतयोस्त्रेण सप्तैते विधातव्याविमिश्रिताः
नैर्ऋत्यां मण्टपे स्थित्वा संस्कृतिं मण्टपस्य तु ॥ ५७ ॥
कुर्यादीशस्य वक्त्रन्तु संस्कारैर्लक्षणादिभिः
विकीर्य विकिरानीशे कुशकूर्च्चं समाचरेत् ॥ ५८ ॥
वेद्यां वामेशकं वापि ईशानं ब्रह्मपश्चिमे
हेमाद्यैकतमं कुम्भं निधायापूर्यचाम्भसा ॥ ५९ ॥
चूतपल्लवतापेतास्वर्णवस्त्रादिसंयुताम्
संहृदौ विकिरास्त्राणामासनन्तु चलाचलम् ॥ ६० ॥
सङ्कल्प्य मूर्त्तिमन्त्रेण मूर्त्तिभूतं घटन्न्यसेत्
वर्द्धनी सोदकासूत्रा वस्त्रास्वर्णादि संयुता ॥ ६१ ॥
विन्यसेदस्त्रभूतानां प्रत्यन्नालसमन्वितम्
[[३७९]]
सम्पूज्य गन्धपुष्पाद्यैर्घटस्तालं गुरूत्तमः ॥ ६२ ॥
इन्द्राग्नेय यमञ्चैव निर्ऋतिं वरुणन्तथा
वायुं सोमन्तथेशानं पूजयेत्प्राग्दिगादितः ॥ ६३ ॥
विरिञ्चिमीशदक्षस्थं विष्णुं निर्ऋतिवामकम्
घटस्थं कलशस्थं वा कुर्याद्वाथ यजेत् गुरुः ॥ ६४ ॥
भोभोशक्रत्वयास्वस्यान्दिशिविघ्नप्रशान्तये
सावधानेन यागान्तं यावत्स्थेयश्शिवाज्ञया ॥ ६५ ॥
सर्वेषां लोकपालानामनेन क्रमयोगतः
शिवाज्ञां श्रावयेत्कुम्भं भ्रामयेदस्त्रतोग्रकम् ॥ ६६ ॥
विन्यसेत्कुम्भवर्द्धन्यौ पूर्ववत्तदनन्तरम्
स्थिरासनन्तु सम्पूज्य देवमस्त्रञ्च पूजयेत् ॥ ६७ ॥
मूलविद्या धनं साङ्गं शिवसाध्वरणार्त्थकम्
पूजयित्वा तयोरर्घ्यं कल्पयेद्धेनुमुद्रया ॥ ६८ ॥
सव्यमुष्टिक्रमात्पिण्डं लिङ्गमङ्गुष्ठकोहरः
हृदये कल्प्य संस्पृष्ट्वा पूर्वमङ्गुष्ठवर्मणा ॥ ६९ ॥
संस्पृशेत् वर्द्धनीं पश्चात् मुष्टिना हृदयेणुना
मूर्तये च पुरा स्पृष्ट्वा वर्द्धनीममुनैव तु ॥ ७० ॥
स्पृशेदङ्गुष्ठकाग्रेण चामरञ्च घटन्तथा
उमायै भगरूपिण्यै लिङ्गरूपधराय च ॥ ७१ ॥
शङ्कराय नमस्तुभ्यमिति स्तुत्वा नमोद्यशः
यज्ञस्याधिपतिस्त्वं हि मूर्तिरेषा तवाचला ॥ ७२ ॥
एषतेज्ञाननिर्देशस्तत् गृहाणसमायुतम्
मायावृत्तिततश्चायं यज्वनाहतकेन तु ॥ ७३ ॥
रक्षणीयस्य वै तर्हि समास्तीर्य यदस्य हि
यज्ञरक्षासतान्तस्मिन्नवमारोप्य देशिकः ॥ ७४ ॥
विनायकं वासुदेवम् ऐशान्ये तु गुरुं यजेत्
[[३८०]]
सम्प्रार्त्थ्यैवं करोमीति लब्धानुज्ञां शिवाद्गुरुः ॥ ७५ ॥
मन्त्रितान्मूलमन्त्रेण व्याप्तिं कृत्वा स्थितिं शुभाम्
उष्णीषं शिरसि न्यस्त्वा शिवेनैक्यन्तु भावयेत् ॥ ७६ ॥
अथवान्यप्रकारेण पूर्ववत् द्वारकं यजेत्
प्राचीनन्दिमहाकालौ याम्ये भृङ्गिविनायकौ ॥ ७७ ॥
वारुणे वृषभस्कन्दौ देवी चण्डौ तदुत्तरे
इन्द्राग्नियमकाञ्चैव निर्ऋतिं वरुणमेव च ॥ ७८ ॥
वायुं सोमन्तथैशानमनन्तञ्च पितामहम्
गणेशमनिले हाटम् ईशाने तु गुरुं यजेत् ॥ ७९ ॥
अनेन देवतानाञ्च विनासर्वं समाचरेत्
लिङ्गञ्च प्रतिमायाञ्च परिवाराणां प्रतिष्ठितम् ॥ ८० ॥
स्थापने प्रोक्षणे चैव पवित्रदमनेऽपिवा
उत्सवे शीतकुम्भे च एवं सर्वं समाचरेत् ॥ ८१ ॥
द्वारपूजादिहीनञ्चेत् राजराष्ट्रं विनश्यति
तस्मात्सर्वप्रयत्नेन द्वारपूजासमायुतम् ॥ ८२ ॥
इति स्थापनक्रमपटल अष्टपञ्चाशत्तमः