विघ्नेशस्थापनविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि विघ्नेशस्थापनं परम्
भुक्तिमुक्तिप्रदन्नॄणां पुत्रपौत्रविवर्द्धनम् ॥ १ ॥
ग्रामऋद्धिकरं पुण्यं सर्वविघ्ननिवारणम्
ग्रामे च नगरे चैव पत्तने खेटकेऽपि च ॥ २ ॥
पुरे वा कुब्जके वापि विशेषाद्राजधानिके
एतेषु कल्पयेद्धीमान् विघ्नेशस्यालयं क्रमात् ॥ ३ ॥
त्रिहस्तादि समारभ्य नवहस्तान्तकं क्रमात्
कर्तव्यं भवनन्तस्य अत ऊर्द्ध्वन्न कारयेत् ॥ ४ ॥
अष्टदिक्षु प्रकर्तव्यं हस्तिपृष्ठविमानकम्
तन्मद्ध्ये कल्पयेत् द्वारं प्राङ्मुखो वाप्युदङ्मुखः ॥ ५ ॥
दण्डमाने प्रकर्तव्यं प्राकारादीनि पूर्ववत्
वीद्ध्यग्रवीधिमद्ध्ये वा चैत्रवृक्षादिकेषु वा ॥ ६ ॥
कुर्याद्विघ्नेशरूपन्तु सर्वसम्पत्सुखप्रदम्
ऐन्द्रे तु सम्पदं प्रोक्तमाग्नेय्यान्धनदं विदुः ॥ ७ ॥
याम्यायां भयनाशार्त्थं नैर्ऋत्यां पुत्रवर्द्धनम्
वारुण्यां सस्यसम्पत्तिर्वायव्यां पुष्टिवर्द्धनम् ॥ ८ ॥
सौम्म्यायां धान्यराशिः स्यादीशान्यां सर्वकामदम्
वीध्यग्रे शान्तिकं प्रोक्तं मद्ध्ये दुःखहराय वै ॥ ९ ॥
चैत्यवृक्षादिके चैव गवां वृद्धिकरं भवेत्
एवमेवं यथा स्थाने न्यस्तव्यन्तु गणाधिपम् ॥ १० ॥
[[३६३]]
स्वतः प्रधानकं साङ्गं द्विविधं स्थापनं स्मृतम्
परिवारसमायुक्तं कुर्यात्स्वस्वप्रधानकम् ॥ ११ ॥
साङ्गन्तु परिवारन्तु विनास्नापनमारभेत्
प्रतिमां कारयेद्धीमान् पूर्वोक्तलक्षणैस्सह ॥ १२ ॥
उत्तरायणकाले तु शुक्लपक्षे शुभे दिने
सुवाराभिर्युते काले शुभग्रहनिरीक्षिते ॥ १३ ॥
अङ्कुराण्यर्पयेद्धीमान्पूर्वोक्तविधिना सह
मण्टपेस्थण्डिलं कृत्वा शालिभिर्विमलैश्शुभैः ॥ १४ ॥
तस्योर्ध्वे तु न्यसेत्पीठं मद्ध्ये रन्ध्रावटं कुरु
हृदयेनैव हेमाब्जमवटेसु न्यसेत्क्रमात् ॥ १५ ॥
आखुं हैमेन कृत्वा तु विन्न्यसेन्मद्ध्यमे वटे
विन्यसेत्प्रतिमां तत्र सुस्निग्धं सुदृढं कुरु ॥ १६ ॥
मृन्मयस्यार्द्धचित्रस्य आभासस्य पटस्य च
रत्नानां चैव विन्न्यासं तथानयनमोक्षणम् ॥ १७ ॥
जलाधिवासनं स्थानं शयनं स्थापनं तथा
क्षीरं पद्मासनञ्चैव स्थापनं यजनन्तथा ॥ १८ ॥
नृत्तमूर्तिप्रतिष्ठोक्तमार्गेणैव समाचरेत्
ततः प्रदक्षिणं कुर्यात् नेत्रयुग्मं दिनेदिने ॥ १९ ॥
स्थण्डिलन्तु प्रकर्तव्यं शालिभिर्विमलैश्शुभैः
पूर्वस्याभिमुखं विघ्नं स्थापयेत्स्थण्डिलोपरि ॥ २० ॥
हेमसूचिप्रहाराभ्यां वक्ष्मरेखां समालिखेत्
असितं मण्डलं लिख्य दृष्टिमण्डलमालिखेत् ॥ २१ ॥
ज्योतिर्निर्मलमालिख्य कुर्याच्छिल्पिविसर्जनम्
तदग्रे स्थण्डिलं कृत्वा बिम्बं तत्रोपरिन्यसेत् ॥ २२ ॥
तर्जन्यानामिकामद्ध्ये रविचन्द्रानि लाधिपैः
सुवर्णनखसंयुक्तां गुलिभिश्चक्रमेण तु ॥ २३ ॥
[[३६४]]
उच्चार्यनेत्रमन्त्रन्तु प्रोत्यनेत्रत्रयेषु च
सुवर्णदूर्वयास्त्रेण मध्वाज्याभ्याञ्च तर्पयेत् ॥ २४ ॥
मधुना च घृतेनैव पात्रे प्रस्थेन पूजयेत्
मध्वाज्यसूक्तमुच्चार्य दर्शयेत्तु क्रमात्सुधीः ॥ २५ ॥
धेनुङ्गौर्धेनुभव्येति ब्रंहसूक्तेन भूसुरान्
प्रच्छन्नपटमावृत्य जनसङ्ख्यान्प्रदर्शयेत् ॥ २६ ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
स्नापयेत्पञ्चगव्यैश्च अष्टमृत्सलिलैरपि ॥ २७ ॥
वस्त्रैराभरणैर्माल्यैर्भूषयेद्भूषणार्हकैः
सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम् ॥ २८ ॥
ग्रामप्रदक्षिणं कुर्यात्सम्प्रविश्य जलाशयम्
तत्तीरे स्थण्डिलं कृत्वा प्रतिमां तत्र विन्यसेत् ॥ २९ ॥
नववस्त्रेण संवेष्ट्य लम्बकूर्चसमन्वितम्
जलमद्ध्ये प्रपां कृत्वा चतुर्गात्रसमन्वितम् ॥ ३० ॥
वितानध्वजसंयुक्तं दर्भमालासमन्वितम्
शाययित्वा गलन्दघ्ने जले तु फलकोपरि ॥ ३१ ॥
एकरात्रं द्विरात्र वा त्रिरात्रं वा जलोषितम्
भवनस्याग्रतः कुर्यात् मण्टपं चतुरश्रकम् ॥ ३२ ॥
धर्मरन्ध्राष्टहस्तं वा कलास्तम्भसमन्वितम्
मण्टपन्तु त्रिधाभज्य मद्ध्यभागे तु वेदिकाम् ॥ ३३ ॥
रत्निमात्रसमुत्सेधां दर्पणोदरसन्निभाम्
कुण्डानि कल्पयेत्पश्चात् मानुषे तु पदे हितम् ॥ ३४ ॥
नवाग्न्यायतनं वापि पञ्चाग्न्यायतनन्तु वा
दिशास्वम्बुजकुण्डानि विदिग्वश्वत्थपत्रवत् ॥ ३५ ॥
प्राक्कुण्डं वेदिकामद्ध्ये वृत्तं प्राधान्यकं कुरु
पञ्चाग्न्यायतनञ्चेत्तु योन्याकाराणि वर्जयेत् ॥ ३६ ॥
[[३६५]]
मण्टपस्योत्तरे देशे स्नानश्वभ्रं प्रकल्पयेत्
उद्वास्य शिल्पिनं पश्चात् गोमयेनोपलेपयेत् ॥ ३७ ॥
मण्टपं भूषयित्वा तु भूसुरान्भोजयेत्ततः
उच्छिष्ठन्तु ततोद्वास्य गोमयेनोपलेपयेत् ॥ ३८ ॥
वास्तुहोमं ततः कृत्वा पर्यग्निकरणं कुरु
पुण्याहं वाचयित्वा तु स्वस्तिसूक्तसमन्वितम् ॥ ३९ ॥
मण्टपं पूजयेद्धीमान् स्थापनं क्रमवत्कुरु
सर्वातोद्य समायुक्तं सर्वालङ्कारसंयुतम् ॥ ४० ॥
जलादुत्तीर्य बिम्बन्तु स्नानश्वभ्रे तु विन्यसेत्
वस्त्रादीनि व्यपोह्यात्र गव्यैरेवाभिषेचयेत् ॥ ४१ ॥
गन्धतोयेन संस्नाप्य शुद्धैरुत्थैरिति ब्रुवन्
ईशानेन समभ्यर्च्य पीतवस्त्रेण वेष्टयेत् ॥ ४२ ॥
कौतुकं बन्धयेद्धीमान्पूर्वोक्तविधिनासह
वेद्यूर्द्ध्वे स्थण्डिलं कुर्यादष्टद्रोणैश्च शालिभिः ॥ ४३ ॥
तण्डुलैस्तिलदर्भैश्च परिस्तीर्य विशेषतः
शयनं कल्पयेन्मद्ध्ये चर्मजाद्यैरनुक्रमात् ॥ ४४ ॥
प्रोक्षयेत्पुरुषेणैव आपोहिष्ठेतिमन्त्रतः
आचार्यः शिष्यसंयुक्तं प्रागुक्तलक्षणान्वितम् ॥ ४५ ॥
नववस्त्रधरोष्णीषो हेमाङ्गुलीय शोभितः
स्नानवेद्यास्समुद्धृत्य सर्वालङ्कारसंयुतम् ॥ ४६ ॥
शन्नोदेवीतिमन्त्रेण विघ्नेशं शयनोपरि
शाययित्वा ततो मन्त्री प्राक्छिरश्चोर्द्ध्वचक्त्रकम् ॥ ४७ ॥
अर्चयित्वा हृदा पश्चाद्रक्तवस्त्रेण वेष्टयेत्
पद्ममुद्रां प्रदर्श्याथ अङ्कुशाख्यां प्रदर्शयेत् ॥ ४८ ॥
सर्वलक्षणसंयुक्तं द्रोणतोय प्रपूरितम्
कुम्भं प्रक्षाल्यतोयैश्च वस्त्रेणैव तु वेष्टयेत् ॥ ४९ ॥
[[३६६]]
सकूर्चं सापिधानञ्च सवस्त्रं वारिपूरितम्
विघ्नेशस्य शिरोभागे स्थापयेद्देशिकोत्तमः ॥ ५० ॥
तत्रैव पञ्चरत्नानि निक्षिपेद्धृदयेन तु
विन्न्यसेत्कुम्भमद्ध्ये तु विघ्नेशं मूलमन्त्रतः ॥ ५१ ॥
खान्तं सान्तसमायुक्तं यान्तं मायासमन्वितम्
त्रयोदशान्तसंयुक्तं षष्ठस्वरसमन्वितम् ॥ ५२ ॥
मूलमन्त्रमिदं प्रोक्तं विघ्नेशस्य प्रजापते
खान्तेनैव समायुक्तं ब्रह्माङ्गानि प्रकल्पयेत् ॥ ५३ ॥
गणेशं पुरुषाकारं गजकर्णं गजाननम्
महोदरं बृहत्कायमेकदंष्ट्रं त्रिलोचनम् ॥ ५४ ॥
रौद्रनेत्रन्तु लम्बोष्ठं नागयज्ञोपवीतिनम्
करण्डमकुटोपेतं सर्वाभरणभूषितम् ॥ ५५ ॥
चतुर्दोर्दण्डसंयुक्तं दक्षिणेङ्कुशदन्तधृक्
पाशञ्च ल”ुकञ्चैव वामभागे तु धारितम् ॥ ५६ ॥
करस्थल”ुकेनैव गजहस्ताग्रसंयुतम्
एतत् गणेशरूपन्तु ध्यात्वा मन्त्रन्तु विन्न्यसेत् ॥ ५७ ॥
पूजयित्वा तु गन्धाद्यैः पञ्चवक्त्रं प्रदर्शयेत्
द्रोणार्द्धन्तोयसम्पूर्णान्सूत्रदामसमन्वितान् ॥ ५८ ॥
हेमपाशाङ्कुशोपेतान् गन्धोदकप्रपूरितान्
अभितस्तु घटानष्टौ स्थापयेदष्टदिक्षु च ॥ ५९ ॥
वरदं पूर्वकुम्भे तु वीरमाग्नेयकुम्भके
विघ्नेशं दक्षिणे कुम्भे नैर्ऋत्यान्तु गजाननम् ॥ ६० ॥
इक्षुप्रियन्तु वारुण्यं गजकर्णन्तथानिले
विनायकन्तु सौम्यायां लम्बोष्ठं त्वीशके यजेत् ॥ ६१ ॥
विघ्नेशरूपिणस्सर्वे विशेषमधुनोच्यते
पाशाङ्कुशधरास्सर्वे वरदाभयदान्विताः ॥ ६२ ॥
[[३६७]]
द्विनेत्राश्च द्विहस्ताश्च ध्यात्वा तत्तत्स्वबीजके
विन्न्यसेत्कुम्भमद्ध्ये तु गन्धपुष्पादिभिर्यजेत् ॥ ६३ ॥
गुलान्नन्दापयेद्धीमान् ताम्बूलन्दापयेत्पृथक्
परिवारघटानष्टावुपवेद्युपरिन्न्यसेत् ॥ ६४ ॥
सकूर्च्चान्सापिधानाढ्यान् सवस्त्रान्वारिपूरितान्
सुप्रभूतं सुवक्त्रञ्च वामनं शङ्खपालकम् ॥ ६५ ॥
महावीरं भैरवञ्च वीरेशञ्चोग्ररूपिणम्
इन्द्रादीशानपर्यन्तं कुम्भमद्ध्ये तु विन्न्यसेत् ॥ ६६ ॥
शुक्लं कृष्णं हरीतालं श्यामं रक्तन्तु शाबलम्
काश्मीरन्धूम्रवर्णन्तु सुप्रभूतानि वर्णकम् ॥ ६७ ॥
पल्गखेटकहस्तांश्च भीमरूपान् सुदंष्ट्रकान्
सर्वाभरणसंयुक्तान्यूर्ध्वकेशालकान्वितान् ॥ ६८ ॥
द्विनेत्रान्करालवदनान्स्वनामाद्यक्षरैस्तथा
पूजयेत्तु विशेषेण गन्धपुष्पादिभिः क्रमात् ॥ ६९ ॥
द्वाररक्षघटौ द्वौ तु उपवेद्यान्तु विन्न्यसेत्
सकूर्च्चौ सापिधानौ च सवस्त्रौ वारिपूरितौ ॥ ७० ॥
वीरञ्च सव्यभागे तु महावीरञ्च वामके
द्विभुजौ च द्विनेत्रौ च रक्तवर्णौ गदाधरौ ॥ ७१ ॥
वामे विस्मयहस्तौ च स्वनामाद्येन विन्न्यसेत्
पूजयित्वा हृदामन्त्री गन्धपुष्पादिभिः क्रमात् ॥ ७२ ॥
ऋगाद्यद्ध्ययनं कुर्यात्प्रागादिषु क्रमेण तु
अग्न्याधानादिकं सर्वमग्निकार्योक्तमाचरेत् ॥ ७३ ॥
गणेशाग्निप्रकल्प्याथ कुण्डं प्रतिविशेषतः
समिधाज्य चरूंल्लाजां सक्तुगौलमपूपकम् ॥ ७४ ॥
प्रियङ्गुकोद्रवञ्चैव पृथुकं पनसन्तथा
शमीखदिरमायूरो दुम्बरास्तु दिशासु च ॥ ७५ ॥
[[३६८]]
बिल्वञ्चार्कन्तथाप्लक्षन्न्यग्रोधं विदिशासु च
पलाशन्तु प्रधानं स्यात्समिधस्सम्प्रकीर्तिताः ॥ ७६ ॥
सद्यादीशास्त्रपर्यन्तमन्त्रैश्चैव क्रमेण तु
शतमर्द्धं तदर्द्धं वा प्रत्येकञ्जुहुयात्क्रमात् ॥ ७७ ॥
द्रव्यान्ते व्याहृतिं हुत्वा स्पृष्ट्वा तु प्रतिमान्ततः
मूर्तिपान्स्वस्वदिग्भागे स्पृष्ट्वास्पृष्ट्वा तु होमयेत् ॥ ७८ ॥
आचार्यो हृत्प्रदेशे तु होमं कुर्याद्विशेषतः
गणानान्त्वेतिमन्त्रेण मूलेनैव विशेषतः ॥ ७९ ॥
घृतेन जुहुयान्मन्त्री प्रत्येकन्तु शताहुतिः
एवं जागरणं रात्रौ प्रभाते विमले ततः ॥ ८० ॥
आचार्यं पूजयेत्तत्र वस्त्रहेमाङ्गुलीयकैः
दक्षिणान्दापयेत्पश्चात् गोभूमीकाञ्चनैस्सह ॥ ८१ ॥
पञ्चनिष्काधमं प्रोक्तं द्विगुणं मद्ध्यमं भवेत्
त्रिगुणं चोत्तमं प्रोक्तं देशिकस्य तु दक्षिणा ॥ ८२ ॥
अद्ध्येतृमूर्तिधारांश्च पूजयेद्विधिपूर्वकम्
शयनात् बिम्बमुद्धृत्य वस्त्रादीनि व्यपोह्य च ॥ ८३ ॥
पूजयेत् गन्धपुष्पाद्यैः कुम्भात्सर्वान्प्रपूजयेत्
अग्निं सम्पूजयेत्पश्चात्प्रतिकुण्डं विशेषतः ॥ ८४ ॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च क्रमाद्धुनेत्
पूर्णाहुतिञ्च शिरसा स्विष्टमग्नेति मन्त्रतः ॥ ८५ ॥
हुत्वाग्निन्तु विसृज्याथ स्थापनन्तु समारभेत्
शयनाद्गणेशमुद्धृत्य स्नानवेद्युपरिन्यसेत् ॥ ८६ ॥
घृतं शिरोर्पणं कुर्यात्प्रागुक्तविधिना सह
अकारादिक्षकारान्तं देहे पूर्वोक्तवन्न्यसेत् ॥ ८७ ॥
पद्ममुद्रां प्रदर्श्याथ पञ्चवक्त्रीं प्रदर्शयेत्
दिग्बन्धञ्चास्त्रमन्त्रेण कारयेद्दशदिक्षु च ॥ ८८ ॥
[[३६९]]
मुहूर्ते समनुप्राप्ते गुरवे सन्निवेदयेत्
कुम्भानुद्धृत्य शिरसा बाह्यधामप्रदक्षिणम् ॥ ८९ ॥
कृत्वा बिम्बस्य चाग्रे तु स्थण्डिलोपरिविन्न्यसेत्
कुम्भात् बीजं समादाय प्रतिमां हृदिविन्यसेत् ॥ ९० ॥
तत्कुम्भस्थजलैश्चैव स्थापयेत्तु विनायकम्
अष्टमूर्तिं घटे न्यस्त्वा बीजान्यष्टदलेषु च ॥ ९१ ॥
पीठाम्बुजे क्रमेणैव इन्द्राद्यैशान्तकान्न्यसेत्
तत्कुम्भस्थोदकैश्चैव विघ्नेशमभिषेचयेत् ॥ ९२ ॥
पूजयेत् गन्धपुष्पाद्यैर्मूलमन्त्रेण देशिकः
हृदा सर्वोपचाराणि दापयेत्तु क्रमेण तु ॥ ९३ ॥
स्नपनं कारयेत्पश्चात्पूर्वोक्तविधिना सह
किञ्चिदस्मिन्विशेषोऽस्ति शिवकुम्भञ्च वर्द्धनीम् ॥ ९४ ॥
व्यपोह्य मद्ध्यमे कुम्भे विघ्नेशं सम्प्रपूजयेत्
पूजयित्वा विशेषेण प्रभूतहविषन्ददेत् ॥ ९५ ॥
गुलान्नं पायसान्नञ्च मुद्गान्नञ्च निवेदयेत्
भक्ष्याणि विविधान्यत्र गणानां त्वेति दापयेत् ॥ ९६ ॥
भोजयेत् ब्रंहचारींश्च तेषां भक्ष्याणि दापयेत्
अविघ्नं प्रार्त्थयेत्तत्र गणेशन्तु विशेषतः ॥ ९७ ॥
द्वारपालौ स्वदिग्भागे स्थापयेत्तु क्रमेण तु
पूजयेत् गन्धपुष्पाद्यैः स्वनामाद्येन मन्त्रतः ॥ ९८ ॥
स्थापयेत्परिवाराणि अन्तर्मण्डलमद्ध्यमे
पुरतो बलिपीठन्तु कृत्वा तस्मिन्सुभूतकम् ॥ ९९ ॥
विन्यसेत्तेन मन्त्रेण पूजयेत्तु क्रमात् बुधः
स्थापयेत्तु सुवक्त्रादीन्प्रदक्षिणक्रमेण तु १००
नित्यार्चनविधिं वक्ष्ये सर्वसिद्धिकरं परम्
प्रागुक्तविधिना स्नात्वा सकलीकरणं कुरु १०१
[[३७०]]
पूजाद्रव्याणि सर्वाणि प्रोक्षयेत्पुरुषेण तु
द्वारदेशं समानीय पूजयेत् द्वाररक्षकौ १०२
पतङ्गस्योर्ध्वके लक्ष्मीमधस्तात्पृथिवीं ततः
पूजयित्वा यथान्न्यायं प्रविश्याभ्यन्तरं ततः १०३
स्थानशुद्धिं ततः कृत्वा मार्जना लेपनादिभिः
पात्रशुद्धिं ततः कृत्वा यथा द्रव्यार्हकेण तु १०४
पूजापर्युषितं सर्वं हृदयेन विसर्जयेत्
शैलजैर्लोहजैश्चैव मृण्मये त्वर्द्धचित्रके १०५
आभासे च पटे कुर्यात् बिम्बशुद्धिर्यथार्हकम्
ततश्शुद्धोदकेनाथ शुद्धिं कृत्वा विशेषतः १०६
आसनं कल्पयेत्पश्चादग्न्यादिविदिशासु च
धर्मज्ञानञ्च वैराग्यमैश्वर्यं चैव पादगाः १०७
अधर्मादीलिकाः प्रोक्ताः पूवादियुगदिक्षु च
गुणत्रयेण सञ्च्छाद्य तस्योर्ध्वेब्जासान्न्यसेत् १०८
नवाक्षरमयं पुष्पं पूर्वादीनि प्रदक्षिणम्
अकारादि उकारान्ता दलेष्वष्टसुविन्न्यसेत् १०९
ओङ्कारं कर्णिकायान्तु पूजयेत् गन्धपुष्पकैः
तस्योर्ध्वे सद्यमन्त्रेणावाहयेत्तु गजाननम् ११०
ध्यात्वा देवं ततो रूपं मूलेन स्नानमाचरेत्
पाद्यन्दत्वा तु सद्येन शिरसाचमनीयकम् १११
वामदेवेन मन्त्रेण अम्बरं दापयेत्ततः
अर्घ्यन्तु शिखया दत्वा गन्धं वामेन दापयेत् ११२
पुष्पं मूलेन दत्वा तु धूपन्नेत्रेण दापयेत्
दीपन्तु कवचेनैव दापयेत्तु विशेषतः ११३
प्रतिद्रव्यं हृदामन्त्री दद्यादाचमनीयकम्
वरदान्न्यष्टमूर्तींस्तु प्राग्दलादिषु विन्यसेत् ११४
[[३७१]]
स्वनामाद्यक्षरेणैव गन्धपुष्पादिभिर्यजेत्
गौल्यं वा पायसं मौद्ग्यं शुद्धान्नं वा निवेदयेत् ११५
गौल्यं साज्यं गुलोपेतमुपदंशैस्समन्वितम्
फलैः पक्वैश्च सूपेन दध्ना चैव विशेषतः ११६
गणानान्त्वेति मन्त्रेण विघ्नेशाय निवेदयेत्
परिवारबलिन्दद्यात्स्वस्वमन्त्रेण बुद्धिमान् ११७
आचमनन्ततो दद्यात् नैवेद्यन्तु व्यपोह्य च
ताम्बूलं दापयेत्तस्मै अस्त्रेणैव तु देशिकः ११८
चतुष्कालं त्रिकालं वा नित्यं सम्पूजयेद्बुधः
नित्याग्निं कल्पयेद्धीमान् वह्नौ वैशानगोचरे ११९
वृत्तं वा चतुरश्रं वा कुण्डं तत्र प्रकल्पयेत्
ततो होमं प्रकुर्वीत वह्निसंस्कारपूर्वकम् १२०
आज्यं सद्येन जुहुयादन्नं वामेन होमयेत्
दशाहुतिस्स्यात्प्रत्येकं पञ्चब्रंहषडङ्गकैः १२१
व्याहृतिञ्चैव द्रव्यान्ते जुहुयाद्देशिकोत्तमः
एककालं द्विकालं वा त्रिकालं होममाचरेत् १२२
तदन्ते चोत्सवं कुर्यात् विघ्नेशप्रतिमायुतम्
रुद्राङ्गुलसमायाममुत्तमन्तु विधीयते १२३
रन्ध्राङ्गुलसमायामं मद्ध्यमञ्चेति कीर्तितम्
अब्ध्यङ्गुलसमुत्सेधमधमञ्चेति कीर्तितम् १२४
विघ्नेशरूपं कर्तव्यं प्रतिमालक्षणोक्तवत्
एवं नित्योत्सवार्त्थन्तु प्रतिष्ठां पूर्ववत्कुरु १२५
सर्वालङ्कारसंयुक्तं प्रतिमां भूषयेत्ततः
परिचारकमाहूय सोष्णीषञ्चोत्तरीयकम् १२६
तस्य मूर्ध्निप्रदेशे तु विघ्नेशं विन्यसेत् बुधः
सर्वातोद्य समायुक्तं पञ्च चामरसंयुतम् १२७
[[३७२]]
नृत्तगेय समायुक्तं धूपदीपसमाकुलम्
प्रदक्षिणत्रयं कृत्वा प्रासादं प्रतिमायुतम् १२८
द्वारदेशं समानीय पादप्रक्षालनं कुरु
प्रविश्य गर्भगेहन्तु स्थापयेत्पूर्वदेशके १२९
संवत्सरोत्सवे प्राप्ते कुर्यात्संवत्सरोत्सवम्
प्रायश्चित्ते तु सम्प्राप्ते प्रायश्चित्तोक्तवत्कुरु १३०
मन्त्रे भेदो भवेदत्र क्रिया भेदो न विद्यते
एवं परार्त्थमाख्यातम् आत्मार्त्थं श्रुणु सुव्रत १३१
प्रतिमां वा पटे वापि क्षणिके मण्डलेऽपि वा
स्थण्डिले वा जले वापि स्वयमात्मनिवायजेत् १३२
परिवारद्वारपूजाञ्च हित्वा सर्वं समाचरेत्
एककालं द्विकालं वा त्रिकालं वा यजेत् बुधः १३३
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात्
निर्विघ्नं सर्वकार्येषु भयं सर्वत्र नश्यति १३४
अथातस्सम्प्रवक्ष्यामि विघ्नेश्वरस्य पूजनम्
नित्येनैमित्तिके काम्ये प्रतिष्ठायां विशेषतः ॥ १ ॥
आदौ विघ्नेश्वरं पूज्य मोदकादिभिरेव च
भक्ष्यादिषु च सर्वेषु नालिकेरं विशिष्यते ॥ २ ॥
नालिकेरं गृहीत्वा तु देशिकश्शोधनञ्चरेत्
यौवनञ्चेत्सुसङ्ग्राह्यं बालवृद्धन्न कारयेत् ॥ ३ ॥
दुर्गन्धञ्चैव वक्रञ्च दीर्घं भिन्नञ्च वर्जयेत्
अश्लक्ष्णं नेत्रहीनं वा स्थूलसूक्ष्मविहीनकम् ॥ ४ ॥
केशबन्धविहीनं वा पुराणञ्जलवर्जितम्
एवं परीक्ष्य बहुधा क्षालयेन्नालिकेरकम् ॥ ५ ॥
[[३७३]]
नालिकेरशिखां न्यस्त्वा कनिष्ठाङ्गुलनाहतः
क्रमेण च शिखान्न्यस्त्वा कनिष्ठानामि — ॥ ६ ॥
अङ्गुष्ठेन विशेषेण तस्य वक्त्रं स्पृशेत्पुनः
प्रहरेन्नालिकेरन्तु गणेशनिकटोपले ॥ ७ ॥
प्रादेशमात्रमौन्नत्यं त्रियम्बकाख्येन मन्त्रतः
एकप्रहरमात्रेण द्विभागं सममुद्भवेत् ॥ ८ ॥
अत्कर्मणश्शुभं कुर्याद्धनधान्यविवर्द्धनम्
गुणांशमुखभागन्तु एकांशं पृष्ठभागिकम् ॥ ९ ॥
गुणांशं मूलभागन्तु एकांशमुखभागकम्
अङ्गुल्यग्रप्रमाणेन यत् भागन्तु ग्रहीतकम् ॥ १० ॥
पुंसां स्त्रीणाञ्च तत् गेहेऽप्यन्योन्यकलहं भवेत्
शिथिले कर्मनाशं स्यात् नेत्रे कर्तृ विनाशनम् ॥ ११ ॥
प्रधानचक्षुरेखायां देशिकन्नाशयेद्ध्रुवम्
दक्षिणे चक्षुरेखायां ग्रामस्थानां विनाशकृत् ॥ १२ ॥
उत्तरे चक्षुरेखायां भूपतिस्त्वन्यथा भवेत्
वक्त्रेक्षतिर्महत्क्षोभं दीर्घप्रहरके भयम् ॥ १३ ॥
छेदे हस्तं गृहीतञ्चेत् गर्भप्राणिविनाशनम्
बहुछेदे कृते चैव क्षुत्पीडाग्रामवासिनाम् ॥ १४ ॥
जलहीने वर्षहीनं केशहीने धनक्षयम्
दुर्गन्धं सलिलन्तस्य राज्यश्रीस्त्वन्यथा भवेत् ॥ १५ ॥
नालिकेरस्य दुर्गन्धं महामारि प्रकोपनम्
एवमादिकृते दोषेऽप्यघोरास्त्रं शतञ्जपेत् ॥ १६ ॥
यौवनन्नालिकेरञ्च पुनर्ग्राह्य निवेदयेत्
त्रिमुखन्नालिकेरञ्च स्थूलवक्त्रे तु ताडयेत् ॥ १७ ॥
द्विभागमूलखण्डञ्चाप्येकभागन्तथाग्रकम्
गुणांशं मुखभागञ्च द्वयांशं पृष्ठभागकम् ॥ १८ ॥
[[३७४]]
द्विखण्डञ्च समं कृत्वा सर्वसिद्धिकरं शुभम्
धूपदीपञ्च नैवेद्यन्ताम्बूलञ्च प्रदापयेत् ॥ १९ ॥
मनोभिलषितानिष्टान्तस्याग्रे प्रार्त्थयेत्ततः
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ २० ॥
इति विघ्नेशस्थापनपटलस्सप्तपञ्चाशत्तमः