वास्तुहोमविधिपटलप्रारम्भः
अथ वक्ष्ये विशेषेन वास्तुहोमविधिक्रमम्
बालस्थाने सभास्थाने सत्रे वै यागमण्टपे ॥ १ ॥
आद्योपलेष्टिकाधाने लिङ्गसंस्थापने तथा
प्रोक्षणे गर्भविन्न्यासे सकलस्थापनेऽपि च ॥ २ ॥
मण्टपस्थापने चैव नृत्तरङ्गे विशेषतः
देवतावाहने चान्न्य स्थापने च समारभेत् ॥ ३ ॥
वास्तुहोमं प्रकर्त्तव्यं सर्वसंहारसंयुतम्
दीक्षाभिषेकसम्पन्न सादिशैवो दृढव्रतः ॥ ४ ॥
सर्वलक्षणसंयुक्तस्सर्वतन्त्रविशारदः
मन्त्रतन्त्रकियामुद्रा भवनाभावगर्भितः ॥ ५ ॥
पञ्चाङ्गभूषणोपेतस्सर्वलक्षणलक्षितः
शुधात्मावास्तुविधिना वास्तुहोमन्तु कारयेत् ॥ ६ ॥
वास्तुं सम्पूजयेत्पूर्वम् एकाशीति पदेषु च
जलावर्त्तन्न्यसेदैन्द्रे शालिमद्ध्ये विशेषतः ॥ ७ ॥
सम्पूर्यगन्धतोयेन हेमन्तत्रैव निक्षिपेत्
[[३६०]]
दूर्वापलाशकाशौ च तन्मद्ध्ये तु न्यसेत्ततः ॥ ८ ॥
वस्त्रेणैव तु संवेष्ट्य कूर्चन्तत्रैव निक्षिपेत्
ब्राह्मणान्पूजयेत्तत्र गन्धपुष्पादिभिः क्रमात् ॥ ९ ॥
स्थण्डिलं वालुकैः कुर्यादनार्द्रैः श्लक्ष्णवत्तरैः
पूर्वोदितेन मार्गेण पदे वै समरीयके ॥ १० ॥
त्रितालमात्रविस्तारमुत्सेधञ्चतुरङ्गुलम्
षडङ्गुलप्रमाणेन सव्ये तुर्याश्रकं कुरु ॥ ११ ॥
ब्रह्मस्थानन्तदित्युक्तं स्थण्डिलस्योत्तरे ततः
षडङ्गुलप्रमाणेन वृत्तं कुर्यात्क्रमेण तु ॥ १२ ॥
प्रणीतास्थानमित्युक्तन्तन्मद्ध्ये नलिनं लिखेत्
चतुरश्रं चतुर्वृत्तं योन्न्याद्यङुलस्थण्डिले ॥ १३ ॥
रेखात्रयन्तु पूर्वाग्रे मद्ध्ये याम्ये तथोत्तरे
रेखात्रयन्तु सौम्याग्रे मद्ध्ये पश्चिमपूर्वयोः ॥ १४ ॥
रुद्रो वै वस्वतस्सोमः प्रागग्राणान्तु देवताः
उत्तराग्राश्च रेखाश्च वारुणानलभास्कराः ॥ १५ ॥
सद्येनैव तु संलिख्य प्रोक्षयेद्धृदयेन तु
सूर्यकान्तोद्भवं श्रेष्ठम् अरण्युद्भवमद्ध्यमम् ॥ १६ ॥
श्रोत्रियागारजं हीनमानयेत्पावकन्ततः
अग्न्याधानादिकं सर्वमग्निकार्योक्तमार्गतः ॥ १७ ॥
होमं कुर्याद्विशेषेण वास्तुदेवस्वनामभिः
ईशश्चैव तु पर्जन्न्यो जयन्तश्च महेन्द्रकः ॥ १८ ॥
आदित्यस्सत्यकभ्रंशावन्तरिक्षस्तथैव च
अग्निः पूषा च वितथो ग्रहक्षतयमस्तथा ॥ १९ ॥
रुद्रो रुद्रजयश्चैव समरीयस्तथैव च
विवस्वांश्चैवमित्रश्च उर्वी धरजयस्तथा ॥ २० ॥
गन्धर्वो भृङ्गराजश्च मृगश्च निर्ऋतिस्तथा
[[३६१]]
दौवारिकश्च सुग्रीवः पुष्पदन्तस्तथैव च ॥ २१ ॥
वरुणो सुरशोषश्च पापयक्ष्मस्तथैव च
रोगो नागस्तथा मुख्यो भल्लाटस्सोम एव च ॥ २२ ॥
रुगोदित्यदितिश्चैव आपश्चैवापवत्सकः
सवितासावित्रकश्चैव सेन्द्रस्त्विन्द्रजयस्तथा ॥ २३ ॥
चरकी च विदारी च पूतनापापराक्षसी
वास्तुदेवान्न्यथाख्याता स्वस्वनामैशमन्त्रकैः ॥ २४ ॥
प्रणवाद्यैश्चतुर्त्थ्यन्तैस्वनामपदमद्ध्यगैः
स्वाहान्तैश्चैव मन्त्रैश्च होमयेत्तु विशेषतः ॥ २५ ॥
पलाशसमिधाहुत्वा चत्वारिंशन्नवाधिकम्
तत्सङ्ख्ययाघृतं हुत्वा चरुन्तत्सङ्ख्यया तथा ॥ २६ ॥
तिलतण्डुलमिश्रेण हुत्वा पूर्वोक्तसङ्ख्यया
वास्त्वभ्यन्तरबाह्यस्थ देवानां स्वस्वनामभिः ॥ २७ ॥
समिदादिक्रमेणैव प्रत्येकञ्जुहुयात्ततः
द्रव्यान्ते व्याहृतिं हुत्वा मूलेनाज्यन्तु होमयेत् ॥ २८ ॥
पञ्चब्रह्मषडङ्गैश्च प्रत्येकन्तु शताहुतिम्
जयादिरभ्याधानञ्च राष्ट्रभृच्चक्रमाद्धुनेत् ॥ २९ ॥
स्विष्टमग्नेतिमन्त्रेण हुनेत्पूर्णाहुतिं पुनः
पलाशोदुम्बराश्वत्थ पत्रशुष्कान् सदर्भकैः ॥ ३० ॥
बद्ध्वाज्येन सदासिक्त्वा तिलसिद्धार्त्थदर्भयुक्
सम्प्रोक्ष्य हृदयेनैव सम्प्रज्वाल्य तदग्निना ॥ ३१ ॥
प्राकाराभ्यन्तरं सर्वं भवनं यागमण्टपम्
पर्यग्निकरणं कृत्वा वर्द्धन्न्यास्रावतोययुक् ॥ ३२ ॥
उल्कान्त्यक्त्वा तु तद्बाह्ये स्नानं कुर्याद्विधानतः
जलभाण्डस्थतोयेन सर्वत्र प्रोक्षयेद्धृदा ॥ ३३ ॥
वास्तुहोमं समाख्यातं सर्वदोषनिकृन्तनम्
[[३६२]]
होतारं पूजयेत्तत्र क्रियां प्रतिक्रियां प्रति ॥ ३४ ॥
पर्यङ्कं पादुकाद्यैश्च यथा शास्त्रविधानतः
धनधान्य सुखैः पट्टैरन्यैराभरणादिभिः ॥ ३५ ॥
इति वास्तुहोमविधिपटलष्षट्पञ्चाशत्तमः