०५५ सौरार्चनविधिपटलः

सौरार्चनविधिपटलप्रारम्भः
अतः परं प्रवक्ष्यामि सौरार्चनविधिक्रमम्
नित्यन्तदुदयात्पूर्वञ्चातुर्वर्णं समाचरेत् ॥ १ ॥

वृत्तन्त्र्यश्रं पुनर्वृत्तं षडश्रं वृत्तयुग्मकम्
अष्टाश्रञ्च कलाश्रञ्च सौरचक्रं प्रकीर्तितम् ॥ २ ॥

वृत्तस्य मद्ध्ये प्रणवं त्रिकोणेङ्गारकन्न्यसेत्
पुनर्वृत्ते लिखेत्पञ्च बहिरष्टाक्षरन्न्यसेत् ॥ ३ ॥

सुदर्शनन्तु षट्कोणे षडङ्गन्तस्य सन्धिषु
वृत्तयुग्मे महासौरं गायत्रीं शिरसा सह ॥ ४ ॥

अष्टस्वष्टाक्षरन्त्यस्य चक्रदिक्देवतान्न्यसेत्
कलाश्रञ्च स्वरं प्रोक्तं कलाश्रेष्टकलान्न्यसेत् ॥ ५ ॥

कादिसान्तञ्च रन्ध्रेषु श्रीं क्रीं ह्रीञ्च समन्ततः
महामण्टपमद्ध्यस्थं सौरचक्रं प्रकीर्तितम् ॥ ६ ॥

वाय्वग्नीशकवरुणेश्वरराक्षसेन्दुप्रदेशप्रणत्रलिखितैरथादि वर्णैः ॥ ७ ॥

चतुर्वेदागमाद्युक्तं सर्वपापहरं परम्
विप्राणामर्चनं कुर्यात् क्षत्रियाणां विधिं श्रुणु ॥ ८ ॥

वृत्तञ्च वृत्तपद्मञ्च षडश्रं वृत्तपद्मकम्

[[३५६]]

अष्टाश्रञ्चतुरश्रञ्च न्यसेत्प्रणवमद्ध्ययोः ॥ ९ ॥

सूर्यमन्त्रन्दलेन्यस्य श्रीं ह्रीञ्च विलिखेत् शुभम्
क्षत्राणामर्चनं ह्येवं वैश्यानामर्चनं श्रुणु ॥ १० ॥

वृत्तपद्मन्तथा पद्मं षट्कोणं वृत्तमश्रकम्
प्रणवं मद्ध्यपत्रे च सूर्यनामलिखेद्दले ॥ ११ ॥

ह्रीङ्कारमश्रसंयुक्तं श्रीं क्लीं ह्रीञ्च दले लिखेत्
वैश्यानामर्चनं ह्येवं शूद्राणामर्चना क्रमम् ॥ १२ ॥

वृत्तं षडश्रकञ्चैव वृत्तं पङ्कजमश्रकम्
मद्ध्ये वेदादिकं प्रोक्तं सूर्यमन्त्रं दले लिखेत् ॥ १३ ॥

श्रीं ह्रीञ्चैव तु षट्कोणे त्वश्रं ह्रीङ्कारकं पुनः
अन्यादन्यान्तु सङ्कल्प्य कर्त्ताभर्त्ता विनश्यति ॥ १४ ॥

यावत्कर्ते समारभ्य सर्वपापहरं भवेत्
अङ्गन्यासकरन्यासं भूतशुद्धिं विशेषतः ॥ १५ ॥

अन्तर्यजनमाश्रित्याप्यर्घ्यस्थापनमारभेत्
निर्ऋतौ दण्डिनं पूज्य पिङ्गलं वायुकोणके ॥ १६ ॥

गणेशमीशदेशे तु पावके गुरुपूजनम्
मद्ध्ये प्रभूतिकं स्थाप्य पत्रपुष्पाणि योजयेत् ॥ १७ ॥

विमलं सारमाराद्ध्य तथापरमकोणयोः
मद्ध्ये पद्मासनन्तत्र सूर्यं सम्पूजयेत्ततः ॥ १८ ॥

उषाञ्च प्रत्युषां पूज्य तयोश्च स्वस्वनामतः
दीप्ता च सूक्ष्मका चैव भद्रा च विजया तथा ॥ १९ ॥

अमोघाविमला चैव विभूता विद्युदन्तका
सर्वतो नाममन्त्रञ्च दलमद्ध्ये तु विन्यसेत् ॥ २० ॥

पूर्वे सोमस्वरूपञ्च दक्षिणे बुधपूजनम्
गुरुं वै पश्चिमे पूज्य सोमे शुक्रं समर्चयेत् ॥ २१ ॥

अग्नावङ्गारकं पूज्य निर्ऋतौ च शनैश्चरम्

[[३५७]]

राहुञ्च वायुदेशे तु केतुमीशानगोचरे ॥ २२ ॥

सर्वोपचारसंयुक्तन्तेजश्चण्डेशमर्चयेत्
यथाशक्तिनमस्कारं स्तोत्रं भुक्तिप्रदन्नृणाम् ॥ २३ ॥

रक्षार्त्थं भयनाशार्त्थमस्त्रशस्त्रनिवारणम्
एकाहमर्चनं कुर्यात्सर्वसौभाग्यदायकम् ॥ २४ ॥

चण्डमारुतसौभाग्यमायुरारोग्य वर्द्धनम्
अपस्मारं क्षयं कुष्ठं त्वक्दोषं सर्वनाशनम् ॥ २५ ॥

सर्वज्वरप्रशमनमक्षिरोगविनाशनम्
दुस्वप्नसर्वदुःखानान्दुर्न्निमित्तविनाशनम् ॥ २६ ॥

द्विकालमर्चनं कुर्यात्सर्वसम्पत्समृद्धिदम्
षाण्मासात्सर्वकार्याणि मुक्तिदं वत्सरान्तकम् ॥ २७ ॥

सर्वसिद्धिकरन्नॄणां प्रणतार्तिविनाशनम्
पुत्रप्रदमपुत्राणां सूर्यलोकं भजन्तिते ॥ २८ ॥

अथातस्सम्प्रवक्ष्यामि सौरदेवार्चनं श्रुणु
पूर्वस्याभिमुखञ्चैव पद्मासनं सुसंस्मृतम् ॥ १ ॥

पाद्यादि त्रीणिपात्राणि अस्त्रमन्त्रेण शोधयेत्
शुद्धोदकेन पूरित्वा सौरन्न्यासक्रमं श्रुणु ॥ २ ॥

अस्त्रायेति च मन्त्रे तु दक्षिणं हस्तमद्ध्यमे
उत्तरं हस्तमद्ध्यन्तु हस्तौ स्पर्शनमेव च ॥ ३ ॥

मूलमन्त्रषडङ्गञ्च क्रमाद्वक्ष्ये ऋषीश्वराः
प्रणवं मन्त्रमुच्चार्य शङ्करञ्चान्तमुच्चरन् ॥ ४ ॥

विसर्गान्तन्तु यन्मन्त्रं सूर्यमन्त्रं समृद्धिकम्
सान्तं बीजसमायुक्तं हृदये तु न्यसेत्ततः ॥ ५ ॥

अर्काय शिरसे न्यस्त्वा भूर्भुवस्पर्शिकान्न्यसेत्
हुङ्कारं कवचं न्यस्त्वा त्रिवेदी तु त्रिमन्त्रकम् ॥ ६ ॥

[[३५८]]

अग्निबीजं विसर्गान्तं सौरं त्रिदशदिक्षु च
बिन्दुनादसमायुक्तं तन्मन्त्रम् उच्चरन्द्वयम् ॥ ७ ॥

अबिन्दुरेखामुच्चार्य वह्निं सूर्यान्तमुच्चरन्
इदम्मत्रं समुच्चार्य गन्धपुष्पं प्रदापयेत् ॥ ८ ॥

कुशाक्षततिलञ्चैव रक्तचन्दनकुङ्कुमैः
अर्घ्यपात्रं प्रतिष्ठाप्य सौरद्ध्यानक्रमं श्रुणु ॥ ९ ॥

द्विभुजञ्चैकवक्त्रन्तु द्विनेत्रं पद्मधृक्करम्
वर्तुलं देवबिम्बस्य मद्ध्यस्थं रक्तवाससम् ॥ १० ॥

रक्तवर्णं महात्मानं ममरूपं महेश्वरम्
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ॥ ११ ॥

अष्टबाहुञ्चतुर्वक्त्रं ध्यायेद्दिवसनायकम्
त्रिणेत्रं चतुर्भुजं ध्यात्वा कृतघ्नघ्नं दिवाकरम् ॥ १२ ॥

सप्ताश्वं रथमद्ध्ये तु स्थापयेत्तु प्रभाकरम्
उषावरुणसंयुक्तं प्रभासन्ध्यासमन्वितम् ॥ १३ ॥

मेधया प्रज्ञया युक्तं सोमादिग्रहसंयुतम्
सोमाङ्गारबुधांश्चैव जीवशुक्रशनैश्चरान् ॥ १४ ॥

राहुकेतुसमायुक्तमपमृत्युविनाशनम्
क्षीरवर्णन्तु सोमे तु अङ्गारं रक्तमेव च ॥ १५ ॥

बुधानां श्यामवर्णाभं बृहस्पत्यग्निवर्णकम्
शुक्रं कुन्देन्दुवर्णन्तु कृष्णवर्णं शनैश्चरम् ॥ १६ ॥

नीलजीमूतसङ्काशं राहुवर्णं प्रकीर्तितम्
केतूनां धूम्रवर्णन्तु सर्वे पद्मासने स्थिताः ॥ १७ ॥

सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम्
सोमञ्च उत्तरे स्थाप्य शुक्रं पूर्वे तु पूजयेत् ॥ १८ ॥

दक्षिणेङ्गारकञ्चैव पश्चिमे तु बृहस्पतिम्
ईशान्यान्तु शनिं स्थाप्य आग्न्येय्यां राहुं विन्यसेत् ॥ १९ ॥

[[३५९]]

नैर्ऋत्यां केतुं विन्यस्य वायव्यान्तु बुधन्न्यसेत्
पुरस्ताद्रथमश्वञ्च अरुणं पूर्वतो न्यसेत् ॥ २० ॥

प्रभामुषाञ्च सन्ध्याञ्च प्रज्ञाञ्चैव तु विन्यसेत्
मेधाञ्च सूर्यचण्डेशौ ईशान्यां दिशि पूजयेत् ॥ २१ ॥

आदित्यलोकपालानां तत्तत्स्थानेषु पूजयेत्
गन्धं पुष्पञ्च धूपञ्च स्वनामाद्येन पूजयेत् ॥ २२ ॥

षडङ्गन्यासमन्त्रञ्च अर्घ्यञ्चैव प्रदापयेत्
सूर्यार्चनक्रमञ्चैव इत्येते लक्षणास्तथा ॥ २३ ॥

इति सौरार्चनविधिपटलः पञ्चपञ्चाशत्तमः